पूर्वम्: ८।३।६३
अनन्तरम्: ८।३।६५
 
सूत्रम्
स्थाऽ‌ऽदिष्वभ्यासेन चाभ्यासय॥ ८।३।६४
काशिका-वृत्तिः
स्वादिष्वभ्यासेन च अभ्यासस्य ८।३।६४

प्राक् सितातिति वर्तते। उपसर्गात् सुनोति इत्यत्र स्थासेनयसेध इति स्थादयः, तेसु स्थादिषु प्राक् सितसंशब्दनातभ्यासेन व्यवाये मूर्धन्यो भवति, अभ्याससकारस्य च भवति इत्येवं वेदितव्यम्। अभ्यासेन व्यवाये अषोपदेशार्थं च अभिषिषेणयिषति, परिषिषेणयिषति। अवर्णान्ताभ्यासार्थं च अभितष्टौ, परितष्टौ। षणि प्रतिषेधार्थं च अभिषिषिक्षति, परिषिषिक्षति। अभ्यासस्य इति वचनम् नियमार्थम्, स्थादिषु एव अभ्याससकारस्य् मूर्धन्यो भवति, न अन्यत्र। अभिसुसूषति। अभिसिषासति।
न्यासः
स्थादिष्वभ्यासेन चाभ्यासस्य। , ८।३।६४

"प्राक्सितादिति वत्र्तते" इति। "स्थासेनयसेधसिच" ८।३।६५ इत्यत्र यः स्थाशब्दः, तमादाप प्राक्? (८।३।७०) सितसंशब्दनात्? ये धातवः सूत्रे निर्दिष्टास्ते स्थादयो वेदितव्याः। अथ किमर्थमभ्यासव्यवाये षत्वभुच्यते, यावता परितिष्ठासतीत्यादौ "इण्कोः" ८।३।५७, "आदेशप्रत्यययोः" (८।३।५९) इत्येवं सामान्यलक्षणेन सिद्धं णत्वम्()? इत्याह--"अभ्यासेन व्यवार्ये इत्यादि। अषोपदेशो यस्तस्य सकारः पूर्वेण न सिध्यतीति तदर्थमभ्यासेन व्यवाये षत्वमुच्यते। "अभिषिषेणयिषति" इति। सेनयाऽभियातीति "सत्यापपाश" ३।१।२५ इत्यादिना णिच्(), इष्ठवद्भावाट्टिलोपः, सन्(), पूर्ववदिडागमः। "अवर्णान्ताभ्यासार्थं च" इति। षोपदेशमधिकृत्य तदुक्तम्()। यद्यपि तस्य सकार आदेशो भवति, तथापि नैद सामान्यलक्षणेन सिध्यति; अनिणन्तत्वादभ्यासस्य, तेन व्यवधानाच्च। "अभितष्ठौ" इति। "आत औ णलः" ७।१।३४ इत्यौत्वम्(), पूर्ववत्? खयः शेषः। "षणि तषेधार्थं च" इति। स्तौतिण्योरेवेति (८।३।६१) नियमेन यत्? प्रतिषिद्धं व्यावर्त्तितं तत्? षणि यथा स्यादित्येवमर्थं चेत्यर्थः। किं पुनस्तत्? प्रतिषिद्धम्()? षत्वम्()। अथ वा प्रतिषेधा प्रतिषिद्धम्(), भावे निष्ठा। अर्थशब्दो निवृत्तौ वत्र्तते, यता--मशकार्थो धूभ इति। तदेतदुक्तम्()--यः षणि प्रतिषेधः स्तोतिणिभ्यामन्यस्य धातोः षत्वप्रतिषेधः कृतस्तन्निवृत्त्यर्थ चेति। "अभिषिषिक्षति" इति। अत्र यद्यभ्यासेन व्यवाये नोच्येत तदा षत्वं न स्यात्(), यथा--सिसिक्षतीत्यत्र। अभ्यासस्येति किमर्थमुच्यते, यावता चशब्दोऽत्र क्रियते, स चापिशब्दस्यानुकर्षणार्थः, तेनायमर्थो भवति--अव्यवाये व्यवायेऽपीति, एवमन्तरेणाब्यासस्येति वचनमुपसर्गस्थान्निमित्तादुत्तरस्याभ्यासस्य भविष्यति? "सात्पदाद्योः" (८।३।१११) इति प्रतिषेधान्न भविष्यतीति चेत्()? न; "उपसर्गात्? सुनोति" ८।३।६५ इत्यस्य षत्वविधानार्थस्य प्रतिषेधार्थत्वात्(), तस्मिन्नेव हि प्रतिषेधे प्राप्ते तद्बाधनार्थ "उपसर्गात्? सुनोति" ८।३।६५ इत्यस्यारम्भः, तत्कुतः प्रतिषेधस्य प्राप्तिः? इत्याह--"अभ्यासस्य तु" इत्यादि। स्थादिष्वभ्यासस्यैवेति विपरीतनियमो नाशङ्कनीयः; विपरीतनियमे सत्यभ्यासध्वयाये स्थादीनां यन्मूर्धन्यविधानं तदपार्थकमेव स्यात्()। "अभिसुसूषति" इति। "षू प्रेरणे" (धा।पा।१४०८)। "अभिसिषासति" इति। "षो अन्तकर्मणि" (धा।पा।११४७)॥ "षुञ्? अभिषवे" (धा।पा।१२४७), "षू प्रेरणे" (धा।पा।१४०८)। सुवतीति शबिकरणनिर्देशात्? "निरनुबन्धकग्रहणे न सानुबान्धकस्य" (व्या।प।५३) इति च "षूङ प्राणिगर्भविमोचने" (धापा।१०३१), "षूङ प्रसवे" (धा।पा।११३२)--इत्येतयोरादादिकदैवादिकयोग्र्रहणं न भवति। "षो अन्तकर्मणि" (धा।पा।११४७) "ष्टुञ् स्तुतौ" (धा।पा।१०४३), "ष्टुभु स्तम्भे" ["ष्टुम स्तम्भे"--का।प्रांउ।पाठौ] (धा।पा।३९४) "ष्ठा गतिनिवृत्तौ" (धा।पा।९२८) सेनयतिण्र्यन्तः पूर्वमेव दर्शितः। "- गत्याम्()" (धा।पा।४७), "षिधू शास्त्रे माङ्गस्ये च" (धा।पा।४८)--द्वयोरपि ग्रहणम्()। एतयोस्तु "सेधतेर्गतौ" ८।३।११५ इति प्रतिषेधाद्गतेरन्यत्र षत्वं भवतीति वेदितव्यम्()। शपा निर्देशः "षिधु संराद्धौ" (धा।पा।११९२) इत्यस्य दैवादिकस्य निवृत्तये। "विचिर्? क्षरणे" (धा।पा।१४३४) "सन्ज सङ्गे" (धा।पा।९८७)। योऽत्र षोपदेशस्तस्य "आदेशप्रत्यययोः" ८।३।५९ इति प्राप्तस्य षत्वस्य "सात्पदाद्योः" ८।३।११३ इति प्रतिषेधे प्राप्ते[नास्ति--कांउ।पाठे] वचनम्()। यस्त्वषोपदेशस्तस्यादित एवाप्राप्तेः। सुनोतीत्येव मादीनां श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। "उपसर्गस्थान्निमित्तादुत्तरस्य" इत्यादि। एतेनोपसर्गस्थे मूर्धन्यनिमित्ते तात्स्थादुपचारेणोपसर्गशब्दोऽत्र वत्र्तत इति दर्शयति। भवति हि तात्स्थ्यात्? ताच्छब्द्यम्(), यथा--मञ्चाः क्रोशन्तीत्यत्र। "अभ्यषुणोत्()" इति। लङ्(), प्राक्तितादङ्व्यवायेऽपि" ८।३।६३ इति षत्वम्()। "अभिषुवति" इति। "अचि श्नुधातुभ्रुवाम्()" ६।४।७७ इत्यादिनोवङ्()। "अभिष्यति" इति। "ओतः श्यनि" ७।३।७१ इत्योकारलोपः। "अभिष्टौति" इति। अदादित्वाच्छपो लुक्(), "उतो वृद्धिर्लुकि हलि" ७।३।८९ इति वृद्धिः। "अभिष्टोभते" इति। अनुदात्तेत्त्वादात्मनेपदम्()। "अभिषिञ्चति" इति। "शे मुचादीनाम्()" ७।१।५९ इति नुम्()। "अभिषजति" इति। "दंशसञ्जस्वञ्जां शपि" ६।४।२५ इति नकारलोपः। एवमभिष्वजत इत्यत्रापि। पूर्ववदात्मनेपदम्()। "अभिषिष्वङ्क्षते" इति। अत्रापि "पूर्ववत्सनः" १।३।६२ इत्यात्मनेपदम्()। "दधि सिञ्चिति" इति। "सात्पदाद्योः" ८।३।११३ इति प्रतिषेधः। "निःसेचको देशः" इति। अत्र गमिक्रियया निसो योगः, न सिचिक्रिययेति गमिमेव प्रति तस्योपसर्गसंज्ञा, न सिचिं प्रति। "यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्ति" (जै।प।वृ।९९) इति वचनात। "अभिसावकीयति" इति। सुनोतेर्ष्वुल्()। सावकमिच्छतीति "सुप आत्मनः क्यच्()" ३।१।८, "क्यचि च" ७।४।३३ इतीत्वम्(); सावकीय इति स्थितेऽभिना योगः, ततो लट्()। अत्रापि सावक्रीयतिं प्रन्यभेरूपसर्गसंज्ञा; तं प्रति क्रियायोगात्(), न सुनोतिं प्रति; विपर्ययात्()। तेन षत्वं न भवति। यद्येवम्(), अभिषावयतीत्यत्रापि न स्यात्(), इहापि सावयतिं प्रति विपर्ययात्()? इत्यत आह--"अभिषावयतीत्यत्र तु" इत्यादि। अत्र हि प्रागेव सुनोतिरुपसगण योगमनुभूय पश्चात्? प्रेथणाध्येषणाद्यर्थेन योगमनुभवन्? णिचमुत्पादयति। तस्मादुपसर्गविशिष्टायामेव क्रियायां प्रेष्यते, अध्येष्यते वा। ततः सुनोतिमेव प्रत्यभेरुपसर्गसज्ञेति भवत्येव षत्वम्()॥
बाल-मनोरमा
स्थादिष्वभ्यासेन चाभ्यासस्य १२१, ८।३।६४

स्थादिषु। अभ्यासेनेति तृतीयान्तम्। प्राक्सितादित्यनुवर्तते। तदाह--- प्राक्सितादिति। "उपसर्गात्सुनोती"ति सूत्रे स्थाधातुमारभ्य "परिनिविभ्यः सेवसिते"त्यत्र सितशब्दात्प्राग्ये धातव उपात्तास्तेषु दशस्वित्यर्थः। निषिषेधेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहत्वेन उपसर्गात्परत्वाऽभावादप्राप्तौ वचनम्। ननु निषिषेधेत्यादौ अभ्यासस्थसकारस्यौपसर्गादत्सुनोतीत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्क्य नियमार्थमित्याह--एषामेवेति। अभ्यासस्थसकारस्य चेत्षत्वं तर्हि स्थादिदशानामेवेत्यर्थः। एवं च "षू प्रेरणे", अभिसुसूषत। अत्राभ्यासस्य न षत्वम्। अभ्यासात्परस्य तु सस्य स्तौतिण्योरेवेति नियमान्न षत्वम्।

तत्त्व-बोधिनी
स्थादिष्वभ्यासेन चाभ्यासस्य ९६, ८।३।६४

व्यवायेऽपि षत्वं स्यादेषामेव चेति। स्थदीनां दशानामेवभ्यासस्य षत्वमित्यर्थः। तत्फलं तु "षू प्रेरणे" अभिसुसूषति। अत्रोक्तनियमादभ्याससकारस्य न षत्वं, द्वितीयस्य तु "स्तौतिण्यो"रिति नियमान्न भवति। अभिसिषासतीत्यत्र तु षणोऽभावादभ्यासात्परस्य षत्वं, पूर्वस्य तूक्तनियमान्नेति बोध्यम्। स्यादेतत्--- निषिषेधेत्यादौ अभ्यासस्य "उपसर्गात्सुनोती"त्यनेन सिद्धम्, अभ्यासात्परस्य तु "आदेश प्रत्ययो"रित्यनेनेति किमाद्यावाक्येन?। अत्राहुः--फलत्रयार्थमाद्यं वाक्यं। तथाहि अषोपदेशार्थम्-- सेनया अभियातुमिच्छति अभिषिषेणयिषति। अवर्णान्ताभ्यासार्थं च--"अर्धासनं गोत्रभिदोऽधितष्ठौ"। षणि प्रतिप्रसवार्थ च-- अभिषिषिक्षति। "षिच क्षरणे"। "स्तोतिण्योरेवे"ति नियमात्षभूते सनि निवर्तितमपि सत्वमुपसर्गमाश्रित्याऽत्र भवतीति।