पूर्वम्: ८।३।९१
अनन्तरम्: ८।३।९३
 
सूत्रम्
प्रष्ठोऽग्रगामिनि॥ ८।३।९२
काशिका-वृत्तिः
प्रष्ठो ऽग्रगामिनि ८।३।९२

प्रष्ठः इति निपात्यते अग्रगामिनि अभिधेये। प्रतिष्ठते इति प्रष्ठः अश्वः। अग्रतो गच्छति इत्यर्थः। अग्रगामिनि इति किम्? प्रस्थे हिमवतः पुण्ये। प्रस्थो व्रीहीणाम्।
न्यासः
प्रष्ठोऽग्रगामिनि। [॒अग्रगामिणि॑--इति प्रांउंया।पाठः] , ८।३।९२

प्रशब्दस्याविणन्तत्वादप्रप्तमेव षत्वं विधीयते। अग्रे गन्तुं शीलं यस्य सोऽग्रगामौ=पुरःसर उच्यते। प्रतिष्ठित इति प्रष्ठः "सुपि स्थः" ३।२।४ इति कप्रत्ययः, पूर्ववदकारलोपः॥
बाल-मनोरमा
प्रष्ठोऽग्रगामिनि ७३३, ८।३।९२

प्रष्ठोऽग्रगामिनि। प्रपूर्वात्स्थाधातोः "आतश्चोपसर्गे" इति कप्रत्यये आतो लोपे प्रस्थशब्दः। स च अग्रगामिनि वाच्ये कृतषत्वो निपात्यते। इण्कवर्गाभ्यां परत्वाऽभावात्षत्वस्य न प्राप्तिः। प्रतिष्ठत इति। अग्रे गच्छतीत्यर्थः, उपसर्गवशात्। प्रष्ठो गौरिति। अग्रगामीत्यर्थः। एवं प्रष्ठोऽ()आ इत्यादि।