पूर्वम्: ८।३।९३
अनन्तरम्: ८।३।९५
 
सूत्रम्
छन्दोनाम्नि च॥ ८।३।९४
काशिका-वृत्तिः
छन्दोनाम्नि च ८।३।९४

विष्टारः इति निपात्यते। विपूर्वात् स्तृ इत्येतस्माद् धातोः छन्दोनाम्नि च ३।३।३४ इत्येवं विहितो घञिति विष्टरः इत्यपि प्रकृते विष्टारः इति विज्ञायते। विष्टारपङ्क्तिः छन्दः। विष्टारो बृहतीछन्दः। छन्दोनाम्नि इति किम्? पटस्य विस्तारः।
न्यासः
छन्दोनाम्नि च। , ८।३।९४

छन्दोग्रहणेन वृहात्यादीनां ग्रहणम्(), न हि वेदस्य विष्टार इति नाम, किं तर्हि? वृहत्यादीनां वृत्तानाम्()। ननु विष्टर इति प्रकृतम्(), वत्कथं विष्टार इति निपातयि शक्यते? इत्याह--"विपूर्वात्" इत्यादि। "प्रे स्त्रोऽयज्ञे" ३।३।३२ इत्यतः "स्त्रः" इत्यनुवत्र्तमाने "प्रथने वाणशब्दे" ३।३।३३ इत्यतो वाविति "छन्दोनाम्नि च" (३।३।३४) इति स्तृणातेर्धञ्? णिधीयते। न च घञि विष्टर इत्येतद्रूपमापद्यते। तस्माद्यद्यपि विष्टर इति प्रकृतम्(), तथापि निपात्यते। न नु च घञ्यपि विहितेब्स्मादेव निपातनाद्घ्रस्वत्वे कृते विष्टर इति भवत्येव, तत्कथं विष्टार इति शक्यं विज्ञातुम्()? "छन्दोनाम्नि च" इति वचनात्()। न हि विष्टर इति छन्दोनाम्(), किं तर्हि? विष्टार इति॥