पूर्वम्: ८।३।९८
अनन्तरम्: ८।३।१००
 
सूत्रम्
एति संज्ञायामगात्॥ ८।३।९९
काशिका-वृत्तिः
ह्रस्वात् तादौ तद्धिते ८।३।९९

ह्रस्वादुत्तरस्य सकारस्य मूर्धन्यादेएशो भवति तादौ तद्धिते परतः। तरप् तमप् तय त्व तल् त्यप्, एतानि प्रयोजयन्ति। तरप् सर्पिष्टरम्। यजुष्तरम्। तमप् सर्पिष्टमम्। यजुष्टमम्। तय चतुष्टये ब्राह्मणानां निकेताः। त्व सर्पिष्ट्वम् यजुष्ट्वम्। तल् सर्पिष्टा। यजुष्टा। तस् सर्पिष्टः। यजुष्टः। त्यप् आविष्ट्यो वर्धते। ह्रस्वातिति किम्? गीस्तरा। धूस्तरा। तादौ इति किम्? सर्पिस्साद् भवति। प्रत्ययसकारस्य सात् पदाद्योः ८।३।११३ इति सत्यपि प्रतिषेधे प्रकृतिसकारस्य स्यात्। तद्धिते इति किम्? सर्पिस्तरति। तिङन्तस्य प्रतिषेधो वक्तव्यः। भिन्द्युस्तराम्। छिन्द्युस्तराम्।
न्यासः
एति संज्ञायामगात्?। , ८।३।९९

"एति संज्ञायाम्()" इत्यादि। एतद्ग्रहणकवाक्यम्()। अस्यैव "एकारपरस्य" इत्यादिना विवरणम्()। एकारः परो यस्मादिति बहुव्रीहिः। एतेर्नतीत्यस्याः परसप्तमीत्वं दर्शयति। "हरिषेमः" इति। हरयः सेना ञस्येति बहुव्रीहिः, उपसर्वनह्यस्वत्वम्()। "पुवुसेनः" इति। "स्त्रियाः" ६।३।३३ इत्यादिना पूंवद्भावः। "बिष्दक्सेनः" इति। विष्वञ्चतीति "ऋत्विक्()" ३।२।५९ इत्यादिना क्विन्()। "अनिदिताम्()" ६।४।२४ इति नलोपः। "उगितश्च" ४।१।६ इति ङीप्(), "अचः" ६।४।१३८ इत्यकारलोपः, "चौ" ६।३।१३७ इति दीर्घः। विषूची सेनास्येति बहुव्रीहिः। उपसजनह्यस्वत्वम्। "स्त्रियाः" ६।३।३३ त्यादिना पुंवद्भावः। "क्वित्वस्य कुः" ८।२।६२ इति कुत्वम्()। "झलां जशोऽन्ते" ८।२।३९ इति जश्त्वं--गकारः। तस्य "खरि च" ८।४।५४ इति चत्त्र्व--ककारः। तस्यासिद्धत्वाद्यकारः॥
बाल-मनोरमा
एति संज्ञायामगात् १००८, ८।३।९९

एति संज्ञायामगात्। एकारे परे सस्य षः स्यादित्यर्थः।

तत्त्व-बोधिनी
एति संज्ञायामगात् ८५५, ८।३।९९

एति संज्ञायामिति। सुषामाद्यन्तर्गणसूत्रमेतत्।