पूर्वम्: ८।३।११९
अनन्तरम्: ८।४।२
 
सूत्रम्
रषाभ्यां नो णः समानादे॥ ८।४।१
काशिका-वृत्तिः
रषाभ्यां नो णः समानपदे ८।४।१

रेफषकाराभ्याम् उत्तरस्य् नकारस्य णकारादेशो भवति, समानपदस्थौ चेन् निमित्तनिमित्तिनौ भवतः। आस्तीर्णम्। विशीर्णम्। अवगूर्णम्। षकारात् कुष्णाति। पुष्णाति। मुष्णाति। षग्रहणम् उत्तरार्थम्, ष्टुत्वेन एव हि सिद्धम् एतत्। समानपदे इति किम्? अग्निर्नयति। वायुर्नयति। ऋवर्णाच् च इति वक्तव्यम्। तिसृणाम्। चतसृणाम्। मातृ̄णाम्। पितृ̄णाम्। रश्रुतिसामान्यनिर्देशात् वा सिद्धम्। अवर्नभक्त्या च व्यवधाने ऽपि णत्वं भवति इति क्षुभ्नादिषु नृनमनतृप्नोतिग्रहणं ज्ञापकम्। अथवा ऋवर्णादपि णत्वं भवति इति एतदेव अनेन ज्ञाप्यते।
लघु-सिद्धान्त-कौमुदी
रषाभ्यां नो णः समानपदे २६८, ८।४।१

न्यासः
रषाभ्यां नो णः समानपदे। , ८।४।१

"समानपदस्थौ चेत्()" इत्यादि। समानशब्दोऽयमेकपर्यायः। समानम्()ेकम्(), अभिन्नमित्यर्थः। समानञ्च तत्? पदञ्चेति कर्मधारयः; तत्र तिष्ठत इति समानपदस्थौ, "सुपि स्थः" ३।२।४ इति कप्रत्ययः। अत्र निमित्तं रेफः षकारश्च। तन्निमित्तं यस्यास्तीति णत्वभावेन विपरिणतौ साध्यायां स निमित्ती नकारः। तेनैतदुक्तं भवति--यत्र पदे रेफषकारौ स्तस्तत्र यदि नकरोऽपीत्यर्थः। "आस्तीर्णम्(), विशीर्णम्()" इति। "स्तृञ्? आच्छादने" (धा।पा।१४८४), "शृ हिंसायाम्()" (धा।पा।१४८८)। व्याङ्पूर्वाभ्यां निष्ठा; "श्रुयुकः किति" ७।२।११ इट्प्रतिषेधः। "ऋत इद्धातोः" ७।१।१०० इतीत्त्वम्(); रपरत्वञ्च। "अवगूर्णम्()" इति। "गुरी उद्यमने" (धा।पा।१३९६), "()आईदितो निष्ठायाम्()" ७।२।१४ इतीट्प्रतिषेधः। "हलि च" ८।२।७७ इति दीर्घः, "रदाभ्यां निष्ठातो नः" ८।२।४२ इति तकारस्य नकारः, तस्यानेनैव णत्वम्()। "कुष्णाति, पुष्णाति" इति। "कुष निष्कर्षे" (दा।पा।१५१८), "पुष पुष्टौ" (धा।पा।१५२९)। श्नाप्रत्ययः। "षग्रहणमुत्तरार्थम्()" इति। अथैतदर्थमपि कस्मान्न भवति? इत्याह--"ष्टुत्वेनैव सिद्धत्वात्()" इति। यद्येवम्(), कुष्णातीत्यादेरुपन्यासः किमर्थः? उत्तरार्थं षग्रहणं क्रियमाणमेतदर्थमपि भवतीति प्रदर्शनार्थः। असति षग्रहणे कुष्णातीत्येवमादौ ष्टुत्वेनैव सिद्धिर्भवति। सति च तस्मिन्नुत्तरार्थ आरभ्यमाणेऽनेनैव णत्वं कत्र्तदव्यम्()। अस्मिन्? कत्र्तव्ये ष्टुत्वस्यासिद्धत्वादन्यत्र चरितार्थत्वान्न च परत्वमुपपद्यते; "पूर्वत्रासिद्धीये नास्ति विप्रति, विप्रतिषेधोऽभावादुत्तरस्य" (जै।प।षृ।६७) इति। "ऋवर्णाच्चेति वक्तव्यम्()" इत्यादि। रषाभ्यां णत्वमुच्यमानमृवर्णान्न प्राप्नोति, तस्य वर्णान्तरत्वात्()। न च शक्यते वक्तुम्()--ऋवर्णस्थाद्रेफाद्भविष्यति, वर्णो हि रेफः सूत्रे णत्वं प्रति निमित्तत्वेनाश्रितः। न हि ऋवर्णस्थो रेफो वर्णः, किं तर्हि? वर्णैकदेशः; तदेकदेशत्वात्(), न हि वर्णेकदेशो वर्णग्रहणेन गृह्रते। तथा चोक्तम्()--"वर्णेषु ये वर्णैकदेशा वर्णान्तरसमानाकृतयस्येषु तत्कार्यं न वति। तच्छायानुकारिणो हि ते, न पुनस्त एव। पृथक्प्रयत्ननिर्वर्त्त्य वर्णमिच्छन्त्याचार्याः" इति। तस्मात्? "ऋषर्णाच्च" इति वक्तव्यम्()। "तिसृणाम्(), चतसृणाम्()" इति। "त्रिचतुरोः स्त्रियां तिसृचतसृ" ७।२।९९ इत्येतावादेशौ भवतः। "न तिसृचतसु" (६।४।४) इति निषेधात्? "नामि" ६।४।३ इति दीर्घत्वं न भवति। "रश्रुतिसामान्यनिर्देशात्? सिद्धम्()" इति। अनेनोपसंख्यानं प्रत्याचष्टे। "र" इतीह श्रुतिरुपलब्विर्यस्येति बहुव्रीहिः। अथ वा--श्रुयत इति श्रुतिः, रश्चासौ श्रुतिश्चेति रश्रुतिः। तस्याः केवलाया ऋवर्णस्थायाश्च वर्णत्वावर्णत्वकृतभेदमुत्सृज्य यत्? सामान्यं रश्रुतिमात्रं तदिह निर्दिश्यते, न तु वर्णात्मिकैव रेफब्यक्तिः। तेनेह सिद्धं तिसृणामित्यादावपि णत्वम्(); ऋवर्णे हि तस्य रश्रुतिसामान्यस्य विद्यमानत्वात्()। स्यादेतत्()--ऋकारे त्रयोऽज्भागाः सन्ति, तन्मध्यवर्ती तुरीयो रेफः, तत्र रश्रुतिसामान्यनिर्द्देशादपि नैव णत्वं सिध्यति; योऽसौ रेफात्? परोऽज्भागस्तेन व्यवधानात्()? इत्यत आह--"अवर्णभाक्()" इत्यादि। यदयं क्षुम्नादिषु णत्वप्रतिषेधार्थं नुनमनतृप्नोतिग्रहणं करोति तेनैतज्ज्ञाप्यते--अवर्णभागव्यवधानेऽपि णत्वं भवतीति, अन्यथैतयोः पाठोऽनर्थकः स्यात्(); प्राप्त्यभावात्(), प्राप्तिपूर्वकत्वात प्रतिषेधानामिति। इदानीं यद्यपि वर्णास्मिकैव रेफव्यक्तिर्निर्द्दिश्यते, तथापि णत्वं भवतोति दर्शयितुमाह--"अथ वा" इत्यादि। पूर्वं सूत्रोपात्ताद्रश्रुतिसामान्यनिर्द्देशादवर्णभागव्यवधानेऽपि णत्वं भवतीति ज्ञापितम्()। सम्प्रति तु सूत्रानुपात्तादृवर्णादव्यवहिताद्भवतीत्येव विशेषः। शथ किमर्थं णग्रहणम्()? यावता प्रकृतोऽत्र मूर्धन्योऽनुवर्त्तिष्यते। स एव विधेयः; तत्रान्तरतम्यान्नकारस्य णकार एव भविष्यति? सत्यमेतत्(); पूर्वसूत्रे मूर्धन्यग्रहणं निषेधेन सम्बद्धम्(), अतसतदनुवृत्तौ तस्याप्यनुवृत्तिराशङ्क्येत। तस्मात्? प्रतिषेधशङ्कानिरासार्थं पुनग्र्रहणं निषेधेन सम्बद्धम्(), अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिराशङ्क्येत। तस्मात्? प्रतिषेधशङ्कानिरासार्थं पुनग्र्रहणं कृतम्()। ननु च प्राप्त्यभावादेव प्रतिषेधशङ्का न भविष्यति; प्राप्तिपूर्वका हि प्रतिषेधा भवन्ति, न च केनचिद्रषाभ्यामुत्तरस्य मूर्धन्यप्राप्तिरस्ति? सत्यमेतत्(), अस्मादेव प्रतिषेधाद्विधिरनुमीयत इति। अथ वा अनन्तरसूत्रे "वा" इति। वचनाद्विकल्पेनायं विधिर्विज्ञायते। तस्माद्विकल्पनिवृत्त्यर्थम्, विस्पष्टार्थ वा॥
बाल-मनोरमा
रषाभ्यां नो णः समानपदे २३३, ८।४।१

रषाभ्याम्। रषाभ्यामिति दिग्योगे पञ्चमी। परस्येत्यद्याहार्यम्। समानशब्द एकपर्यायः। यथा-"समानग्रामा वय"-चेहाऽखण्डत्वं विवक्षितं, पदे इत्येतावतैव सिद्धे समानग्रहणसामथ्र्यात्। अन्यथा रामनामेत्यादौ "अट्कुप्वाङ्" इति णत्वापत्तिः। एतस्यैव समानपदशब्दस्य तत्राप्यनुवृत्तेः। "मातृभोगीणः" इत्यत्र णत्वं तु तद्धिताधिकारे वक्ष्यते।

यूष्ण इति। शसि रूपम्। यूष्णेति। तृतीयैकवचनम्। नचाऽल्लोपस्य स्थानिवद्भावान्नकारस्य षात्परत्वं नेति शङ्क्यं, "रषाभ्या"मिति षात्परस्य हि नस्य णत्वे कर्तव्येऽल्लोपस्य स्थानिवद्भावो नापेक्षितः। किंतु णत्वाऽभावे तदपेक्षा। णत्वाऽभावश्चाऽशास्त्रीयत्वान्नाऽतिदेश्यः। स्थानिति सति यत्कार्यं भवति तदेव हि स्थानिवत्सूत्रेणातिदिश्यते। "स्थानिनि सति यन्न भवति तदादेशेऽपि न भवती"त्येवं कार्याऽभावस्त्वशास्त्रीयत्वान्नातिदिश्यते इति स्थानिवत्सूत्रेऽवोचाम। यद्यप्यचः परस्मिन्नित्यत्राऽशास्त्रीयः कार्याभावोऽप्यतिदिश्यत इत्यभ्यधायि, तथापि नेह तस्यापि सूत्रस्य प्रवृत्तिरिति। स्थानीभूतादचः पूर्वत्वेन दृष्टस्यैव विधौ तत्प्रवृत्तेः। इह चाऽल्लोपस्थानीभूतादकारात्परस्यैव णत्वविधानादिति भावः। नन्वचः परस्मिन्निति सूत्रे स्थानीभूतादचः पूर्वस्मात्परस्य विधावजादेशः स्थानिवदिति पक्षोऽपि भाष्ये स्थितः। एवञ्चात्र लोपादेशस्थानीभूतादकारात्पूर्वो यः षकारस्तस्मात्परस्य नकारस्य णत्वविधौ लोपस्य स्थानिवद्भावे सत्यकारेण व्यवधानात्षात्परत्वाऽभावात्कथं णत्वमित्यत आह--पूर्वस्मादिति। पक्षे त्वित्यादिनाऽस्य पक्षस्याऽनित्यत्वं सूचितम्। अत एव प्रविगणय्येति भाष्ये प्रयुक्तं सङ्गच्छते। चुरादौ "गण सङ्ख्याने" इत्यदन्तो धातुः। णिच्। अतो लोपः। अल्लोपस्य स्थानिवद्भावात् "अत उपधायाः" इति वृद्धिर्न। ण्यन्तात्क्त्वो ल्यपिणिलोपं बाधित्वा "ल्यपि लघुपूर्वा"दिति णेरयादेशः। पूर्वस्मात्परस्य विधौ स्थानिवद्भावस्य नित्यत्वे इह "ल्यपि लघुपूर्वा"दिति णेरयादेशो न स्यात्। लोपस्थानीभूतादतः पूर्वस्मात्परस्य णेरयादेशविधावल्लोपस्य स्थानिवद्भावे सति अता व्यवहितत्वेन णेर्लघुपूर्वाण्णकारात्परत्वाऽभावात्। तस्मादचः परस्मिन्नित्यत्र पूर्वस्मात्परस्य विधौ स्थानिवद्भावस्याऽनित्यत्वं विज्ञायते। एवं च गोशब्दात्संबुद्धौ ओतो णित्त्वे वृद्धौ हे "गौ"रिति सिध्यति। अन्यथा औकारस्य स्थानीभूतादोकारात्पूर्वो यो गकारस्तस्मात्परस्याः सम्बुद्धेर्लोपलिधौ स्थानिवद्भावे ओकारादेङः परत्वात्संबुद्धिलोपः स्यादिति शब्देन्दुशेखरे स्पष्टम्। अड्व्यवाये इत्येवेति। "अट्कुप्वाङि"ति सूत्रेणैवेत्यर्थः। षादव्याबहितपरस्य नस्य णत्वविधावुदाहरणं तु--पुष्णातीत्यादि बोध्यम्। वस्तुतस्तु "तत्रापि ष्टुत्वेनैव सिद्धे षग्रहणमुत्तरार्थ"मिति स्पष्टमाकरे। नन्वल्लोपस्य णत्वे कर्तव्ये कथं स्थानिवद्भावः, पूर्वत्रासिद्धे न स्थानिवदिति निषेधात्। णत्वस्य पूर्वत्रासिद्धीयत्वादित्यत आह--पूर्वत्रेति। संयोगादिलोपे लत्वे च कर्तव्ये, तस्य="पूर्वत्रासिद्धे न स्थानिव"दित्यस्य, दोषः=बाधः। अप्रवृत्तिरिति यावत्।

सयोगादिलोपे यथा-चक्रयत्र। इह "अचः परस्मिन्" इति यणादेशस्य स्थानिवद्भावात् "स्कोः संयोगाद्यो"रिति ककारलोपो न। लत्वे यथा-निगाल्यते। अत्र णिलोपस्य स्थानिवत्त्वात् "अचि विभाषे"ति लत्वम्। णत्वे यथा-माषवपनी। वपतेर्ल्युट्, अनादेशः , उगित्त्वान्ङीप्, "यस्येति चे"ति नकारा दकारस्य लोपः। इह अकारलोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाऽभावात् "प्रातिपदिकान्तनुम्विभक्तिषु चे"ति णत्वं न। यूषन्-भ्यामिति स्थिते।

तत्त्व-बोधिनी
रषाभ्यां नो णः समानपदे १९७, ८।४।१

रषाभ्यां नो णः। अत्र "अपदान्तस्य मूर्धन्यः" इत्यनुवर्त्त्य णप्रहणं, "पदान्तस्ये"ति सूत्रं च भाष्ये प्रत्याख्यातम्। समानपदे इति। निमित्तनिमित्तनोरपदस्थत्वाऽसंभवात्पदे इतीयतैव सामथ्र्यादेकपदत्वे लब्धे समानग्रहणं यत्समानमेव पदं, निमित्तवत्पदभिन्नपदस्थत्वाऽभावादिति यावत्, तत्र यथा स्यादित्येतदर्थम्। तेन समासे "रामनाम" "गन्धर्वगान"दित्यादौ न भवति। तत्र हि नकारस्यैकपदवृत्तित्वेऽपि निमित्तवत्पदभिन्नपदस्थत्वात्। भवति हि "यूष्ण" इत्यादौ णत्वम्, निमित्तवत्पदभिन्नपदत्वाऽभाववद्वृत्तित्वान्नाकारस्य। "मातृभोगीण" इत्यादावपि नस्य णत्वं भवत्येव, प्रत्ययवृत्तित्वेऽपि निमित्तवत्पदभिन्नपदस्थत्वाऽभावात्। एतेन समानग्रहणमखण्टपदलाभार्थमिति व्याख्याय "रामनामे"त्यादावपिप्रसङ्गे निवारितेऽपि "मातृभोगीण" इत्यादावव्याप्तिः स्यादेवेति केषांचिदुक्तिः परास्ता। उक्तरीत्या त्वव्याप्तिशङ्काया निरस्तत्वात्। यूष्ण इति। यूषो मण्डः। "मुद्रामलकयूषस्तु भेदी दीपनपाचनः" इति दर्शनात्।

पूर्वत्रासिद्धे न स्थानिवदिति। एतच्च न्यायसिद्धं, त्रिपाद्या असिद्धत्वेन तत्रत्ये कर्तव्ये "अचः परस्मि"न्नित्यतिदेशस्याऽप्रवृत्तेः। तस्येति। तस्य "पूर्वत्रासिंद्धे ने"त्यस्य। तथाच स्थलत्रये स्थानिवद्भावो वक्तव्य इत्यर्थः। संयोगादिलोपे--चक्र्यत्र। इह "अचः परस्मि"न्निति यणादेशस्य स्थानिवत्त्वात् "स्कोः" इति कलोपो न। लत्वे-निगाल्यते। अत्र णिलोपस्य स्थानिवत्त्वा "दचि विभाषे"ति लत्वम्। णत्वे-माषवपनी। इह "यस्येति चे"त्यल्लोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाऽभावाण्णत्वं न। ननु "गर्गभगिनी"त्यत्रेव "माषवपनी"त्यत्रापि णत्वप्राप्तिर्नास्त्येव, "उत्तरपदं यत्प्रातिपदिकं तदन्तस्ये"ति वक्ष्यमाणत्वात्। अत्राहुः-"साधनं कृते"ति ल्युडन्तेन समासे पश्चान्ङीपि "यस्येति चे"त्यल्लोपे कृते नकारस्योत्तरपदान्तत्वाण्णत्वप्राप्तिरस्त्येवेति। स्यादेतत् "यूष्ण" इत्यादौ "रषाभ्या"मित्यस्य नोपयोगः, ष्ठुत्वेनैव रूपसिद्धेः। अतएव च "षग्रहणमुत्तरार्थं"मित्याकरे स्थितिमिति चेदुच्यते, उत्तरार्थतयाऽपीह षग्रहणं स्थितं, ततश्च "यूष्णः" "पुष्णाती"त्यादौ "रषाभ्या"मिति णत्वस्य प्रवृत्तिः केन वार्यताम्?। ष्टुत्वेनेति चेन्न, तस्याऽसिद्धत्वात्। न च वचनप्राभाण्यात्सिद्धत्वं शङ्क्यम्, "पृष्टः" "पुष्टिः" "षष्ठः" इत्यादौ चरितार्थत्वात्। "नस्य षयोगे ण" इत्यंशोऽचरितार्थ इति चेन्न, तस्य पृथगनुक्तेः। इह षात्परस्येत्युक्तिप्यचरितार्थेत्यस्यापि तुस्यत्वाच्च। एवमप्युत्तरार्थं षग्रहणमित्याकरो विरुध्यत इति चेन्न, आकरे हीह षग्रहणं विना पुष्णातीत्यादिलक्ष्यस्याऽसिद्धिर्नास्तीत्येतावदभिप्रेतं, न तु "पुष्णाती"त्यादौ "रषाभ्या" मित्यस्याऽप्रवृत्तिरिति।