पूर्वम्: ८।४।९
अनन्तरम्: ८।४।११
 
सूत्रम्
वा भावकरणयोः॥ ८।४।१०
काशिका-वृत्तिः
वा भावकरणयोः ८।४।१०

भावे करणे च यः पानशब्दः तदीयस्य नकारस्य णकार आदेशो भवति वा पूर्वपदस्थानिमित्तादुत्तरस्य। क्षीरपाणं वर्तते, क्षीरपानम्। कषायपाणम्, कषायपानम्। सुरापाणम्, सुरापानम्। करणे क्षीरपाणः कंसः, क्षीरपानः। वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम्। गिरिणदी, गिरिनदी। चक्रणदी, चक्रनदी। चक्रणितम्बा, चक्रनितम्बा।
न्यासः
वा भावकरणयोः। , ८।४।१०

आदेशार्थोऽयमारम्भः। "क्षीरपाणम्()" इति। पीतिः=पानम्(), "नपुंसके भादे क्तः" (३।३।११४) इत्यनुवत्र्तमाने "ल्युट्? च" ३।३।११५ इति ल्युट्प्रत्ययः। "क्षीरपाणः कंसः" इति। पोयतेऽनेनेति पानः, "करणाधिकरणयोश्च" ३।३।११७ इति ल्युट्()। "वाप्रकरणे" इत्यादि। उपसंख्यानशब्दस्य चेह प्रतिपादनमर्थः। अस्मिन्? वाप्रकरणे गिरिनदीप्रभृतीनां यो नकारस्तस्य णत्वप्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्()--उत्तरसूत्रेऽनुक्तसमुच्चयार्थश्चकारः। तेन गिरिनदीप्रभृतीनां यो नकारस्तस्य णत्वं वा भविष्यतीति॥
बाल-मनोरमा
वा भावकरणयोः १०३९, ८।४।१०

वा भावकरणयोः इत्येवेति। अनुवर्तत एवेत्यर्थः। भावे करणे च यः पानशब्दस्तस्य उक्तविषये णो वा स्यादित्यर्थः। आदेशार्थं वचनम्। क्षीरपानं क्षीरपाणमिति। क्षीरस्य पानमिति विग्रहः। भावे करणे वा ल्युट्। पानक्रिया, पानपात्रं वेत्यर्थः।

गिरिनद्यादीनामिति। पूर्वपदस्थान्निमित्तात्परस्य उत्तरपदस्थस्य नस्य णो वेत्युपसङ्ख्यानमित्यर्थः। गिरेर्नदीति विग्रहः। चक्रनितम्बेति। चक्रमिव नितम्बो यस्याः सा इति विग्रहः।