पूर्वम्: ८।४।१३
अनन्तरम्: ८।४।१५
 
सूत्रम्
उपसर्गादसमासेऽपि णोपदेशस्य॥ ८।४।१४
काशिका-वृत्तिः
उपसर्गादसमासे ऽपि णौपदेशस्य ८।४।१४

णः उपदेशो यस्य असौ णोपदेशः। णोपदेशस्य धातोर् यो नकारः तस्य उपसर्गस्थान् निमित्तादुत्तरस्य णकारादेशो भवति असमासे ऽपि समासे ऽपि। प्रणमति। परिणमति। प्रणायकः। परिणायकः। उपसर्गातिति किम्? प्रगता नायकाः अस्माद् देशात् प्रनायको देशः। अस्मासे ऽपि किम्? पूर्वपदाधिकारात् समास एव स्यातिति तदधिकारणिवृत्तिद्योतनार्थम्। णोपदेशस्य इति किम्? प्रनर्दति। प्रनर्दकः।
लघु-सिद्धान्त-कौमुदी
उपसर्गादसमासेऽपि णोपदेशस्य ४६१, ८।४।१४

उपसर्गस्थान्निमित्तात्परस्य धातोर्नस्य णः। प्रणदति। प्रणिनदति। नदति। ननाद॥
न्यासः
उपसर्गादसमासेऽपि णोपदेशस्य। , ८।४।१४

"णोपदेशस्य" इति। ण उपदेशे यस्य स णोपदेशः--गमकत्वादैयधिकरण्ये बहुव्रीहिः। अथ वा--उपविश्यते प्रथमत उच्चार्यत इत्युपदेशः, ण उपदेशो यस्येति समानाधिकरण एव बहुव्रीहिः। "प्रणमति" इति। "णम प्रह्वत्वे शब्दे च" (धा।पा। ९८१)। "प्राणायकः" इति। "णोञ्? प्रापणे" (धा।पा। ९०१), ण्वुल्(), प्रादिसमासः। "प्रनायको देशः" इति। अत्र गर्मि प्रति क्रियायुक्तत्वात्? प्रशब्दस्य गमिमेव प्रत्युपसर्गत्वम्(), न नयतिं प्रति, यं प्रति प्रयुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञाविधानात्()। "असमासेऽपीति किम्()" इति। विनाऽप्यनेन विशेषानुपादानात्? समासेऽसमासेऽपि भविष्यतीति भावः। "पूर्वपदाधिकारात्()" इत्यादि। पूर्वपदात्? ८।४।३ इति वत्र्तते। असमासे भवति पूर्वपदत्वम्()। रूढिशब्दो हि पूर्वपदशब्दः पूर्वमाश्रितः, स एव चेहानुवत्र्तते, स च समास एव संभवति, ततश्च समासेऽपीत्युच्यमाने "समास एव स्यात्()" इति। इतिकरणो हेतौ। यस्मादसति तस्मिन्नेष दोषस्तस्मात्? तस्य पूर्वपदस्य निवृतिं()त द्योतयितुम्? "असमासेऽपि" इत्युच्यते। द्योतनग्रहणेनैतदाचष्टे--नानेन तस्य निवृत्तिः क्रियते, किं तर्हि? अस्वरितत्वादविद्यमानतैव केवलं प्रकाश्यत इति। तदेतदुक्तं भवति--मन्दबुद्धिर्य एवं प्रतिपत्तुमसमर्थस्तं प्रति विस्पष्टीकरणार्थमसमासेऽपीत्युच्यत इति। "प्रनर्दति" इति। "नर्द गर्द शब्दे" (धा।पा।५६,५७)। सत्यप्यच्परत्वेऽच्परोऽयं णोपदेशो न भवति; "नृतिनर्दिनन्दिनक्किनाथृनवर्जम्()" (म।भा।) इत्यपवादविधानात्()॥
बाल-मनोरमा
उपसर्गादसमासेऽपि णोपदेशस्य १३१, ८।४।१४

ननु णकारमुपदिश्य तस्य किमर्थं नकारो विधीयते, नकार एवोपदिश्यतामित्याशङ्क्य तत्प्रयोजनमाह-- उपसर्गात्। "रषाभ्यां नो णः"इत्यधिकृतम्। तदाह--उपसर्गस्थादिति। "समासेऽङ्गुले सङ्गः"इत्यतः समास इत्यनुवृत्तेरसमासे न स्यादित्यसमासग्रहणम्। तथा सति "प्रणाम"इत्यादौ समासे न स्यादित्यपिग्रहणं। तदाह--समासेऽसमासेऽपीति। णस्योपदेशो यस्मिन्निति विग्रहः। प्रणदतीति। भिन्नपदत्वादप्राप्तिः। प्रणिनदतीति। नेर्ददेति णत्वम्। न चात्र "उपसर्गादसमास"इति धातुनकारस्य णत्वं शङ्क्यम्, अट्कुप्वाङ्()भिन्नेन व्यवधानात्। अर्देति। "उपधायां चे"त्यत्र इक इत्यनुवर्तनादर्दतीत्यादौ न दीर्घः।

तत्त्व-बोधिनी
उपसर्गादसमासेऽपि णोपदेशस्य १०५, ८।४।१४

उपसर्गाद। "समासेऽङ्गुलेः सङ्गः"इत्यतोऽनुवर्तनात्समास एव स्यादित्यसमासग्रहणं। कृते तु तस्मिन्नसमास एवस्यादित्यपेग्र्रहणं कृतम्। प्रणिनदतीति। "नेर्गदे"ति णत्वम्। धातु नकारस्य तु "उपसर्गादसमासे" इति णत्वं न भवति, अडादिभिन्नेन व्यवधानात्।