पूर्वम्: ८।४।२६
अनन्तरम्: ८।४।२८
 
सूत्रम्
उपसर्गादनोत्परः (उपसर्गाद् बहुलम्)॥ ८।४।२७
काशिका-वृत्तिः
उपसर्गाद् बहुलम् ८।४।२८

उपसर्गस्थान् निमित्तातुत्तरस्य नसो नकारस्य णकारादेशो भवति बहुलम्। प्रणः शूद्रः। प्रणसः। प्रणो राजा। न च भवति। प्र नो मुञ्चतम्। बहुलग्रहणाद् भाषायाम् अपि भवति, प्रणसं मुखम्। उपसर्गाच् च इति नासिकाया नसादेशः।
न्यासः
उपसर्गाद्बहुलम्?। , ८।४।२७

नसादेशस्याक्रियावाचित्वात्? तं प्रत्युपसर्गत्वं न सम्भवतीति प्राद्युपलक्षणार्थमेतदुपसर्गग्रहणं विज्ञायते। "प्रथः" इति। पूर्ववदस्मदो नस्()। "प्रणसम्()" इति। प्रगता नासिका यस्येति बहुव्रीहिः। "उपसर्गाच्च" (५।४।११९) इत्यच्? समासान्तः; नासिकायाश्च नसादेशः॥
बाल-मनोरमा
उपसर्गाद्बहुलम् ८५०, ८।४।२७

"अनोत्परः" इत्यपनीय तत्स्थाने "बहुल"मिति च कृत्वा भाष्यकार आहेत्यर्थः। तथाच फलितं सूत्रमाह--उपसर्गाद्बहुलं। निमित्तादिति। रेपाषकारात्मकादित्यर्थः। "उपसर्गादनोत्परः" इति यथाश्रुते तु "प्र णो नय" इत्यादावव्याप्तिः, "प्र न #ः पूषा" इत्यादावतिव्याप्तिश्चेति भावः। प्रणस इति। प्रगता नासिका यस्येति विग्रहः। "उपसर्गाच्चे"त्यच्, नासिकाया नस्। "उपसर्गाद्बहुल"मिति णत्वमिति भावः।

वेरिति। वेः परो यो नासिकाशब्दः स ग्रादेशं प्राप्नोतीति भावः। विग्र इति। विगता नासिका यस्येति विग्रहः, प्रकृतवार्तिकेन नासिकाशब्दस्य ग्रादेश इति भावः। विगता नासिका यस्येति विग्रहे अचि नसादेशे टापि च विनसेति भट्टिप्रयोगो न युज्यते, ग्रादेशस्यास्य नसादेशं प्रत्यपवादत्वादित्याक्षिपति--कथं तर्हीति। समाधत्ते--विगतयेति। विगता नासिका। प्रादिसमासः। अबहुव्रीहित्वान्न ग्रादेशः। किंतु टायां "पाद्द"न्निति नसादेशे विनसेति तृतीयान्तं रूपम्। "उपलक्षिते"त्यध्याहार्यमिति भावः।

तत्त्व-बोधिनी
उपसर्गाद्बहुलम् ७४२, ८।४।२७

उपसर्गादनोत्परः। अनोत्परः किम्()। प्रनो मुञ्चतमित्यत्र णत्वं मा भूत्। तद्भङ्क्त्वेति। "अनोत्पर"इत्यपनीय बहुलग्रहणं च कृत्वेत्यर्थः। अन्यथा प्रणो नयेत्यादावव्याप्तिः, प्र नः पूषेत्यादौ त्वतिव्याप्तिः प्रसज्येतेति भावः। प्रणसैथि। प्रगता नासिका अस्येति विग्रहः। कथं तर्हीति। ग्रख्ययोरन्यतरेण भाव्यमिति प्रश्नः। नासिकयेति। तथा च विनसेति न प्रथमान्तं, किं तु "पद्दन्न" इति नसादेशे तृतीयान्तमिति भावः।