पूर्वम्: ८।४।३४
अनन्तरम्: ८।४।३६
 
सूत्रम्
नशेः षान्तस्य॥ ८।४।३५
काशिका-वृत्तिः
नशेः षान्तस्य ८।४।३६

न इति वर्तते। नशेः षकारान्तस्य णकारादेशो न भवति। प्रनष्टः। परिनष्टः। षान्तस्य इति किम्? प्रणश्यति। परिणश्यति। अन्तग्रहणं षान्तभूतपूर्वमात्रस्य अपि यथा स्यात्, प्रनङ्क्ष्यति। परिनङ्क्षयति।
न्यासः
नशेः षान्तस्य। , ८।४।३५

"उपसर्गादसमासे" ८।४।१४ इत्यादिना प्राप्तस्य णत्वस्य प्रतिषेधः क्रियते। "प्रनष्टः" इति। "णश अदर्शने" (धा।पा।११९४), तस्मान्निष्ठा, मस्जिनशोर्झलि" ७।१।६० इति नुम्(), "अनिदितां हल उपधायाः क्ङिति" ६।४।२४ इति नलोपः; व्रश्चादिसूत्रेण ८।२।३६ षत्वम्()। "प्रणश्यति" इति। दिवादित्वाच्छ्यम्()। अथान्तग्रहणं किमर्थम्(); यावता "नशेः षः" इत्युच्यमान नशो विशिष्यमाणे "येन विधिस्तदन्तस्य" (१।१।७२) इति तदन्तविधौ षान्तस्य णत्वप्रतिषेधो भविष्यति? इत्याह--"अन्तग्रहणम्()" इत्याह। "प्रनङ्क्ष्यति" इति। पूर्ववत्? षत्वे "षढोः कः सि" ८।२।४१ इति कत्वम्()। अत्र यद्यन्तग्रहणं न क्रियेत, कत्वे षान्तता नास्तीति प्रतिषेधो न स्यात्()। अ()स्मस्तु सति कत्वेऽपि कृते भवति। एतदेव हि तस्य प्रयोजनम्()--भूतपूर्वेऽपि षान्ते प्रतिषेधो यथा स्यात्()॥
बाल-मनोरमा
नशेः षान्तस्य ३४८, ८।४।३५

नशे षान्तस्य। "रषाभ्या"मित्यतो ण इति, "न भाभूपू" इत्यतो नेति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति-- णत्वं न स्यादिति। षान्तस्येति किम्?। प्रणश्यति। भूतपूर्वेति। पूर्वं षकारस्य सत इदानीमादेशवशेन षान्तत्वाऽभावेऽपि णत्वनिषेधप्राप्त्यर्थमन्तग्रहणमित्यर्थः। प्रनङ्क्ष्यतीति। अत्र षस्य कत्वे कृतेऽपि भूतपूर्वगत्या षान्तत्वान्न णत्वमिति भावः। तृप प्रीणने। तृप्तिस्तर्पणं चेति। आद्येऽकर्मकः। द्वितीये सकर्मकः। रधादित्वाद्वेडिति मत्वाह--ततर्पिथ ततर्प्थेति। तत्रप्थेति च। "अनुदात्तस्य चर्दुपधास्ये"त्यमिति भावः। ततृपिव--ततृप्व।सिज्वेति। पक्षे पुषाद्याङिति भावः। रधादित्वादिड्विकल्पः। तत्र सिचि इट्पक्षे आह--अतर्पीदिति। इडभावपक्षे आह---अतार्प्सीदिति। रहलन्तलक्षणा वृद्धिरिति भावः। "अनुदात्तस्य चे"त्यम्पक्षे आह---अत्राप्सीदिति। पुषाद्यङ्पक्षे आह-- अतृपदिति। ङित्त्वान्न गुण इति भावः। दृप हर्षे इति। तृपधातुवत्। ननु रधादित्वादेव वेट्कत्वादनिट्कारिकासु तृप्यतिदृप्यत्योः पाठो व्यर्थ इत्यत आह-- रदादित्वादिमौ वेट्कावमर्थमनुदात्ततेति। द्रुह जिघांसायाम्। अनुदात्तत्वाऽभावेऽपि रदादित्वाद्वेट्। तत्र इडभावे आह-- वा द्रुहमुहेति। ध्रोक्ष्यतीति। "वा द्रुहे"ति घत्वपक्षे दकारस्य भषि घस्य चर्त्वे सस्य षत्वे रूपम्। ढत्वपक्षेऽपि "षढो"रिति कत्वे एतदेव रूपम्। तदाह--ढत्वघत्वयोस्तुल्यं रूपमिति। अद्रुहदिति। पुषादित्वादङिति भावः। मुहदातुरनुदात्तत्वाऽभावेऽपि रधादिद्वेट्।मुमोहिथेति। इट्पक्षे रूपम्। अनिट्पक्षे तु "वा द्रुहमुहे"ति घत्वं मत्वाऽ‌ऽह --मुमोग्धेति। ढत्वपक्षे आह--मुमोढेति। मोक्ष्यतीति। घत्वढत्वयोस्तुल्यं रूपम्। ष्णुह ष्णिहेति। षोपदेशौ। तदाह--- सुष्णोह सिष्णेहेति। थलादावनिट्पक्षे "वा द्रुहे"ति घत्वविकल्पः। पक्षे ढः। इतिरधादयः। आ गणान्तादिति। दिवादिगणसमाप्तिपर्यन्ताः पुषादय इत्यर्थः। सिद्धान्त इति। माधवादिभिस्तथाऽभ्युपगमादिति भावः। उपशमे इति। उपशमो-- नाशः, इन्द्रियनिग्रहश्च।

तत्त्व-बोधिनी
नशेः षान्तस्य ३०५, ८।४।३५

नशेः। "न बाभूपूकमिगनी"त्यतो नेत्यनुवर्तते। तदाह-- णत्वं न स्यादिति। "षस्ये"त्युक्तेऽपि पदस्येत्यस्य विशेषणेन षान्तस्येति लाभादन्तग्रहणं व्यर्थं सज्ज्ञापयतीत्याह--- भूतपूर्वेति। काष्ठानामिति। करणस्य शेषत्वविवक्षायां षष्ठी। तत्रप्थेति। "अनुदात्तस्य चर्दुपधस्ये"ति विकल्पेनाऽमागमः। रधादय इति। रधनशतृपदृपद्रुहमुहष्णुहष्णिह इत्यर्थः। उदित्तवाक्त्वायां वेट्। शमित्वा। शान्त्वा। "यस्य विभाषे"ति निष्ठायामनिट्। शान्तः।