पूर्वम्: ८।४।३८
अनन्तरम्: ८।४।४०
 
प्रथमावृत्तिः

सूत्रम्॥ स्तोः श्चुना श्चुः॥ ८।४।३९

पदच्छेदः॥ स्तोः ६।१ ४१ श्चुना ३।१ श्चुः १।१ संहितायाम् ७।१ ८।२।१०८

समासः॥

सश्च तुश्च स्तुः, तस्य ॰ समाहारद्वन्द्वः॥ शश्च चुश्च श्चुः, तेन ॰ समाहारद्वन्द्वः। एवं श्चुः इत्यत्रापि ज्ञेयम्

अर्थः॥

सकार-तवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ आदेशौ भवतः।

उदाहरणम्॥

सकारस्य शकारेण -- वृक्षस् शेते = वृक्षश्शेते, प्लक्षश्शेते॥ शकारस्य चवर्गेण -- वृक्षस् चिनोति = वृक्षश्चिनोति, प्लक्षश्चिनोति। वृक्षस् छादयति = वृक्षश्छादयति, प्लक्षश्छादयति॥ तवर्गस्य शकारेण -- अग्निचित् शेते = अग्निचिच्छेते, सोमसुच्छेते॥ तवर्गस्य चकारेण -- अग्निचिच्चिनोति, सोमसुच्चिनोति। अग्निचिच्छादयति, सोमसुच्छादयति। अग्निचिज्जयति, सोमसुज्जयति। अग्निचिज्झकारः, सोमसुज्झकारः। अग्निचिञ्ञकारः। सोमसुञ्ञकारः॥ मस्जेः -- मज्जति। भ्रस्जेः -- भृज्जति। यजेः -- यज्ञः। याचेः -- याच्ञा॥
काशिका-वृत्तिः
स्तोः श्चुना श्चुः ८।४।४०

सकारतवर्गयोः शकारचवर्गाभ्यां सन्निपाते शकारचवर्गावादेशौ भवतः। स्तोः श्चुना इति यथासङ्ख्यम् अत्र नेष्यते। सकारस्य शकारेण, चवर्गेण, द्वाभ्याम् अपि सन्निपाते शकारो भवति। तवर्गस्य अपि च शकारेण, चवर्गेन च सन्निपाते चवर्गो भवति। आदेशे तु यथासङ्ख्यम् इस्यते, सकारस्य शकारः, तवर्गस्य च चवर्गः इति। सकारस्य शकारेण सन्निपाते वृक्षश्शेते। प्लक्षश्शेते। तस्य एव चवर्गेण वृक्षश्चिनोति। प्लक्षश्चिनोति। वृक्षश्छादयति। प्लक्षश्छादयति। तवर्गस्य शकारेण अग्निचिच्छेते। सोमसुच्छेते। तस्य एव चवर्गेण अग्निचिच्चिनोति। सोमसुच्चिनोति। अग्निचिच्छादयति। सोमसुच्छादयति। अग्निचिज्जयति। सोमसुज्जयति। अग्निचिज्झकारः। असोमसुज्झकारः। अग्निचिञ्ञकारः। सोमसुञ्ञकारः। मस्जेः मज्जति। भ्रस्जेः भृज्जति। व्रश्चेः वृश्चति। यजेः यज्ञः। याचेः याच्ञा। शात् ८।४।४३ इति प्रतिषेधो ज्ञापकः सङ्ख्यातानुदेशाभावस्य। स्तोः श्चौ इति सप्तमीनिर्देशो न कृतः, पूर्वेण परेण च श्चुना सन्निपाते श्चुत्वं यथा स्यातिति।
लघु-सिद्धान्त-कौमुदी
स्तोः श्चुना श्चुः ६२, ८।४।३९

सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः। रामश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय॥
न्यासः
स्तोः श्चुना श्चुः। , ८।४।३९

"शकारचवर्याभ्यां सन्निपाते" इत्यादि। सन्निपाते=आनन्तर्य इत्यर्थः। "वृक्षश्शेते" इति। "वा शरि" ८।३।३६ इति विसर्गस्य सकारः। तस्यानेन शकारः। "यज्जति" इति। "टु मस्ञो शुद्धौ" (धा।पा।१४१५), "झलां जश्? झशि" ८।४।५२ इति सकारस्यदकारः, तस्यानेन जकारः। श्चुत्वे कत्र्तव्ये जश्त्वत्यासिद्धत्वं नाशङ्कनीयम्(); "मस्जिनशोर्झलि" ७।१।६० इत्यत्र मज्जेः कृतचुत्वनिर्देशात्()। असिद्धत्वे ह्रयं निर्देशो नोपपद्यते। "भृज्जति, वृश्चति" इति। ग्रह्रादि ६।१।१६ सूत्रेण सम्प्रसारणम्()। "यज्ञः, पाञ्ञा" इति। यजियाचिभ्यां "यजयाच" ३।३।९० इत्यादिना नङ्()। इह सकारतवर्गौ द्वौ कार्यिणौ, निमित्ते अपि द्वे एव--शकारचवर्गौः, ततश्च साम्यात्? संख्यातानुदेशः प्राप्नोति, सकारस्य शकारेण सन्निपाते तवर्गस्य चवर्गेण कस्मान्न भवति? इत्याह--"शात्()" इत्यादि। प्राप्तिपूर्वका हि प्रतिषेधा भवन्ति। यदि निमित्तं प्रति यथासंख्यं स्यात्(), एवं सति शात्परस्य तवर्गस्य चुत्वप्राप्तिरेव नास्तीति "शात्()" ८।४।४३ इति प्रतिषेधं न कुर्यात्(), कृतश्चासौ, अतः स ज्ञापयति--संख्यातामुदेशो न भवव्रीति। "स्तोश्चौ" इति लाघवार्थं सप्तम्या निर्देशे कत्र्तव्ये "श्चुना" इति तृतीयानिर्देशः पूर्वभूतेनापि सन्निपातेन यथा स्यात्()--यज्ञः, याच्ञेति। सप्तनीनिर्देशे हि "तस्मिन्निति निर्देष्टे पूर्वस्य" १।१।६५ इति परभूतेनैव स्यात्(), न पूर्वभूतेन॥
बाल-मनोरमा
स्तोः श्चुना श्चुः ११२, ८।४।३९

स्तोः श्चुना श्चुः। स् च तुश्चेति समाहारद्वन्द्वः। पुंस्त्वमार्षम्। इतरेतरयोगद्वन्द्वो वा, तथा सत्येकवचनमार्षम्। एवं "श्चुना श्चु" रित्यत्रापि। "श्चुने"ति सहार्थे तृतीया, "योगे" इत्यध्याहार्यं। ततश्च सहशब्दयोगाऽभावेऽपि तदर्थस्य गम्यत्वात्तृतीया युज्यते, अस्मादेव निर्देशात्। तदाह-सकारतवर्गयोरिति। अत्र स्थान्यादेशानां यथासङ्ख्यं भवति। ततस्च सकारस्य शकारस्तवर्गस्य चवर्गः। तत्रापि त-थ-द-ध-ने त्यादिक्रमस्याप्यनादिलोकसिद्धत्वात्। "श्चुनायोगे"इत्यत्र न यथासंख्यमित्युत्तरसूत्रेवक्ष्यते, ततश्च सकारस्य तवर्गस्य शकारेण चवर्गेण च यथासंभवं योगे श्चुत्वं भवति। रामश्शेते इति। रामस्-शेते इति स्थिते शकारेण योगात्सकारस्य शकारः। "श्चुना योग इत्यत्र न यथासङ्ख्य"मित्यस्य प्रयोजनं दर्शयितुं सकारस्य चकारयोगेऽप्युदाहरति--रामश्चिनोतीति। रामस्-चिनोतीति स्थिते चवर्गयोगात्सकारस्य शकारः। "श्चुना योग" इत्यत्रापि यथासङ्ख्याश्रयणे तु इह सकारस्य शकारयोगा।ञभावाच्छकारो नस्यादिति भावः। सच्चिदिति। सत्-चिदिति स्थिते श्चुत्वस्यासिद्धत्वाज्जश्त्वेन तकारस्य दत्वे, तस्य श्चुत्वेन जकारे, "खरि चे"ति चर्त्वेन तस्य चकारे च रूपम्। शा()ङ्गञ्जयेति। शा()ङ्गन्-जयेति स्थिते, चवर्गयोगान्नकारस्य श्चुत्वेन ञकारादेशः।

तत्त्व-बोधिनी
स्तोः श्चुना श्चुः ९२, ८।४।३९

स्तोः श्चुना श्चुः। "स्तो"रिति समाहारद्वन्द्वः, सौत्रं पुंस्त्वम्। एवं "श्चुः" "ष्टु"रित्यपि बोध्यम्। श्चुनेति। "सह युक्ते-" इति सूत्रे "विनापि तद्योगं तृतीये"ति वक्ष्यमाणत्वात्तृतीया। योगे इति। एतदध्याहारलभ्यम्। अत्र स्थान्यादेशयोर्यथासङ्ख्यम्। निमित्तकार्यिणोस्तु न, "शा"दिति ज्ञापकात्। यथासङ्ख्यसूत्रमिह नोपन्यस्तम्, "स्थानेऽन्तरतमः" इत्यनेनापि इष्टसिद्धेर्नात्यन्तावश्यकत्वात्। हरिश्शेत इति। "वा शरी"ति पाक्षिकत्वाद्विसर्जनीयस्य शेन योगे शः, चवर्गयोगे "रामश्चिनोति"। तवर्गस्य तु चवर्गयोगे "सच्चि"दित्यादि। शेन योगे तु तच्शिव इत्याद्युदाहरिष्यति।