पूर्वम्: ८।४।४१
अनन्तरम्: ८।४।४३
 
सूत्रम्
तोः षि॥ ८।४।४२
काशिका-वृत्तिः
तोः षि ८।४।४३

न इति वर्तते। तवर्गस्य षकारे यदुक्तं तन् न भवति। अग्निचित्षण्डे। भवान्षण्डे। महान्षण्डे।
लघु-सिद्धान्त-कौमुदी
तोः षि ६६, ८।४।४२

न ष्टुत्वम्। सन्षष्ठः॥
न्यासः
तोः षि। , ८।४।४२

"अग्निचित्? षण्डे" इति। "अग्नौ चेः" ३।२।९१ इति क्विप्()। "सोमसुत्षण्डे" [नास्तीदमुदाहरणं--काशिका] इति। "सोमे सुञः" ३।२।९० इति क्विप्()। अत्र "पि" इति सप्तमीनिर्देशात्? पूर्णभूतेन सन्निपातेन भवत्येव ष्टुत्वामिति--पेष्टा, पेष्टुमिति।
बाल-मनोरमा
तोः षि ११६, ८।४।४२

तेः षि। ष्टुरिति नेति चानुवर्तते। तदाह--तवर्गस्येति। सन्षष्ठ इति। अत्र नकारस्य षकारयोगात् टुत्वं प्राप्तं निषिध्यते। अस्मादेव ज्ञापकात् ष्टुना ष्टुरित्यत्र ष्टुना योगे इत्यत्र यथासंख्यं नेति विज्ञायते। "झलाञ्जशोऽन्ते" इत्यच्सन्धिनिरूपणे प्रसङ्गादुपन्यस्तम्। हल्सन्धिप्रस्तावे पुनस्तदुपन्यासः।