पूर्वम्: ८।४।४२
अनन्तरम्: ८।४।४४
 
सूत्रम्
शात्॥ ८।४।४३
काशिका-वृत्तिः
शात् ८।४।४४

तोः इति वर्तते। शकारादुत्तरस्य तवर्गस्य यदुक्तं तन् न भवति। प्रश्नः। विश्नः।
लघु-सिद्धान्त-कौमुदी
शात् ६३, ८।४।४३

शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥
न्यासः
शात्?। , ८।४।४३

"विश्नः, प्रश्नः" इति। "विच्छ गतौ" (धा।पा।१४२३) "प्रच्छ ज्ञीप्सायाम्()" (धा।पा।१४१३), पूर्ववन्नङ्(), "च्छ्वोः शूडनुनासिके च" ६।४।१९ इति च्छकारस्य शकारः। यद्यपि "प्रश्ने चासन्नकाले" ३।२।११७ इति निपतनादेव शात्परस्य तदर्गस्य चुत्वं न भवतीत्यैषोऽर्थो लभ्यते, तथापि मन्दधियां प्रतिपत्तिगौरवपरीहारार्थमिदमारभ्यते। अथ वा"अवाधकान्यपि निपातनानि भवन्ति" (पु।प।वृ।१९) इत्युक्तम्()। यद्येतन्नारभ्यते, प्रश्ञः, विश्ञ इत्यपि रूपं सम्भाव्येत॥
बाल-मनोरमा
शात् ११३, ८।४।४३

शात्। न पदान्तादिति पूर्वसूत्रात् "ने"त्यनुवर्तते। "स्तोःश्चुना श्चु"रित्यतः "तो"रिति , "चु"रिति चानुवर्तते। नतु सकारः शकारश्च। "शा"दिति दिग्योगे पञ्चमी, "परस्ये"त्यध्याहार्यन्तदाह--शात्परस्येत्यादिना। विश्न इति। विच्छ गतौ। "यजयाचयतविच्छप्रच्छरक्षो नङ्" इति नङ्। छ्वोःशूठ्" इति छस्य शः। ङित्त्वान्न गुणः। अत्र शकारयोगात्तवर्गीयनकारस्य श्चुत्वेन ञकारे प्राप्ते निषेधः। पूर्वसूत्रे "श्चुना योगे" इत्यत्रापि यथासङ्शख्याश्रयणे तु इह तवक्दीयस्य नकारस्य चुना योगाभावेन चुत्वस्याप्रसक्ततया तन्निषेधो व्यर्थः स्यात्। एवंचाऽस्मादेव निषेधात्पूर्वसूत्रे श्चुना योगे इत्यत्र न यथासंख्याश्रयणमिति विज्ञायते। प्रश्न इति। "प्रच्छ ज्ञीप्सायाम्"। पूर्वन्नङादि। अत्र "ग्राहिज्ये"ति संप्रसारणं न, "प्रश्ने चासन्नकाले" इत्यादिनिर्देशात्। अत्र वर्गपञ्चमानां नासिकास्थानाधिक्ये।ञपि तत्तद्वर्गीयैरस्ति सावण्र्यमिति तुल्यास्यसूत्रेऽवोचाम।

तत्त्व-बोधिनी
शात् ९३, ८।४।४३

शात्। "ने"ति "तो"रिति चानुवर्तते तदाह-तवर्गस्येत्यादि। "जश्त्व"-मित्यादिव्याख्यातृनिर्देशे निःसन्दिग्धत्वेन बोधनाय "वश्चे"ति षत्वं जश्त्वं च न कृतं,तथा श्चुत्वमपि न कृतमिति परिहारसम्भवाद्वर्गान्त्यमेवोदाहरति-विश्नः प्रश्न इति। "विच्छ गतौ", "प्रच्छ ज्ञाप्सायाम्"। "यजयाचे"त्यादिनानङ्। "छ्वोः शू"डिति छस्य शत्वम्। नङो ङित्वाद्गुणाभावः। प्रच्छेस्तु "प्रश्ने चासन्ने"ति निर्देशात्संप्रसारणाऽभावः। ननु ञमङणनाना नासिकास्थानाधिक्याद्वर्गेष्वाद्यैश्चतुर्भिः सह तुल्यस्थानत्वाभावेन सावण्र्याऽभावात् "स्तोः श्चुने"ति "तु" शब्देन नकारो न गृह्रते किं तु स्ववर्गाद्यश्चत्वार एवेति विश्न प्रश्न इत्यत्र श्चुत्वाऽप्रसक्तेः किमनेन निषेधेनेति चेदत्राहुः,-"शा"दिति निषेधाल्लिङ्गादेव "तुल्यास्यप्रयत्न"मित्यत्रास्यग्रहणेन नासिकास्थानभिन्नं ताल्वादिस्थानं गृह्रते, तत्स्थानं तु तुल्यमेवेति "तु" शब्देन पञ्चमस्यापि ग्रहणात्स्चुत्वप्रसक्तौ निषेधोऽयमावश्यकः। एवंच "तोर्ली"ति "तु" शब्देन नकारस्यापि ग्रहणाद्विद्वाँल्लिखतीत्यादि सिध्यति। नच निमित्तकार्यिणोर्यथासङ्ख्यनिरासज्ञापकमित्युक्तत्वात्तेनैव चार्थवत्त्वे कथमुक्तार्थे ज्ञापकं भवेदिति वाच्यं; "तु" शब्देन नकारग्रहणे सिद्धे हि यथासङ्ख्यनिवृत्तिरतेन ज्ञापनीयेत्युभयज्ञापेनबाधकाऽभावात्। नापि "तुल्यास्ये"त्यत्र यत्किञ्चित्स्थानतुल्यत्वविवक्षायां वर्गेषु पञ्चापि वर्णाः परस्परं सवर्णा भवेयुरित्युक्तोदाहरणे श्चुत्वप्रसक्तौ "शा"दित्यारम्भ आवश्यक इत्येतज्ज्ञापकाश्रयणं किमर्थमिति वाच्यं, तथाहि सति ञमङणनानां परस्परसावण्र्यपत्त्या "त्व नयसी"त्यादौ "अनुस्वारस्य ययि परसवर्णः""वा पदान्तस्ये"त्यनुस्वारस्य ञादयोऽपि स्युः। ताल्वादिस्थानासाम्याऽभावेऽपि नासिकारूपस्य यत्किचित्स्थानस्य तुल्यत्वात्। नापि तुस्यास्यत्वमन्यूनास्यत्वमिति व्याख्यायां ञादीनां परत्परसावण्र्यं न भवेत्, तेषां नासिकास्थानसाम्येऽपि ताल्वादिस्थानसाम्याऽभावेन न्यूनस्थानकत्वात्। ततश्च "त्वं नयसी"त्यादिषु नातिप्रसङ्गः। स्ववर्गाद्यैः सह तु ञादीनां सावण्र्यं स्यादेव। नासिकास्थानाधिक्येऽपितदन्यूनस्थानकत्वात्तेषामिति "विद्वाँल्लिखतीट"त्यादीष्टं सिध्यति। वर्गाद्यानां तु नासिकास्थानाऽभावेन न्यूनस्थानकत्वात्पञ्चमेन च सावण्र्याभावेऽपि न क्षतिरिति ज्ञापकाश्रयणं विनैवेष्टसिद्धिरिति वाच्यं, "हे गौरि एही"त्यादौ सवर्णदीर्घापत्तेः। "इकोऽसवर्ण" इति शाकलप्रकृतिभावानापत्तेश्च। इकारान्यूनस्थानकत्वेन तत्सवर्णत्वादेकारस्य। "स्वराणामूष्माणां चैव विवृतं करणं स्मृतम्। तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव चे"ति वचनात्प्रयत्नभेदेन सावण्र्याऽभावमभ्युपगम्योक्तानिष्टवारणेऽपि "तद्वस्तु" "तदस्त्र"मित्यत्र "तोर्ली"ति परसवर्णविधिना दकारस्य वकारापंत्तेः,वकारस्य ओष्ठस्थानादिक्येऽपि दन्तस्थानसाम्येन लकाराऽन्यूनस्थानकत्वात्। यदि तु "वकारस्य दन्तोष्ठ"मिति समाहारनिर्देशादोष्ठस्थान (दन्तस्थान)भिन्नमेव दन्तोष्ठस्थानमिति वकारस्य लकारसावण्र्याभावात्तद्वस्त्वित्यादौ नातिप्रसङ्ग इति ब्राऊषे तर्हि "लुग्वा दुहे"त्यादिना दन्त्ये तङि विधीयमानो रक्सस्तस्य लुक्-"अदुह्वही"त्यत्र न स्यात्, किंतु "अदुग्धे"त्यादावेव स्यात्। तथा "पिपूर्तः" "पिपुरती"त्यादौ विधीयमानम् "उदोष्ठयपूर्वस्ये"त्युत्वं "सुस्वूर्षती"त्यादौ न स्यादुक्तरीत्या वकारस्यौष्ठ()त्वाऽभावात्। न च वस्योष्ठ()त्वेदन्त्यत्वेच सति "सेक्सृप्" इति षोपदेशलक्षणे स्विदादीनां पृथग्ग्रहणं व्यर्थं स्यात्तेषामपि दन्त्यान्तसादित्वादिति भ्रमितव्यम्; "दन्त्यः केवलदन्त्यो न तु दन्तोष्ठजोऽपी"त्यादेर्मूल एव वक्ष्यमाणत्वात्। ये तु पाणिनिशिक्षायां यमानुस्वारयोरेव नासिकास्थानत्वकथनादन्येषां स्थानं नासिका न भवति, किं त्वनुनासिकत्वं गुण एव। नासिकाव्यापारेणोच्चार्यमाणत्वमात्रेण नासिकास्थानत्वकथने त्वकारादीनामप्युक्तरीत्या नासिकास्थानमिति स्थाननिरूपणे तेषां तदकथान्न्यूनतेत्यादि वदन्ति। तेषामत्रोक्तज्ञापकाश्रयणं विनैवेष्टसिद्धिः। अन्ये त्वकारादीना नासिकया सर्वदाऽनुच्चारणादनुनासिकत्वं गुणः, "सत्त्वे निविशतेऽपैती"त्यादिलक्षणलक्षितत्वात्। ञमङणनानां त्वनुनासिकत्वं नापैति, सर्वदैव तयोच्चारणादिति न गुणः, किन्तु यमानुस्वारयोरिव स्थानमेव नासिकेति स्थानानिरूपणे "ञमङणनाना नासिका चे"त्युक्तं नत्वकारादीनां। नासिका चेति। यत्तूक्तं तुल्यास्यत्वमन्यूनास्यत्वमिति व्याख्यायां तद्वस्त्वित्यादौ "तोर्ली"ति दकारस्य वकारप्रसङ्ग इति तदापाततः। "तोर्ली"त्यत्र लकारद्वयनिर्देश इति स्वीकृत्य लकाररूपे लकारे परे परसवर्ण इति व्याख्यायामुक्तदोषाऽप्रसक्तेरित्याहुः॥