पूर्वम्: ८।४।५४
अनन्तरम्: ८।४।५६
 
प्रथमावृत्तिः

सूत्रम्॥ वाऽवसाने॥ ८।४।५५

पदच्छेदः॥ वा ५६ अवसाने ७।१ ५६ चर् १।१ ५३ झलाम् ६।३ ५२ संहितायाम् ७।१ ८।२।१०८

अर्थः॥

अवसाने वर्त्तमानानां झलां वा चर् आदेशो भवति।

उदाहरणम्॥

वाच् -- वाक्, वाग्। त्वच् -- त्वक्, त्वग्। श्वलिड् -- श्वलिट्, श्वलिड्। त्रिष्टुभ् -- त्रिष्टुप्, त्रिष्टुब्।
काशिका-वृत्तिः
वा अवसाने ८।४।५६

झलां चरिति वर्तते। अवसाने वर्तमानानां झलां वा चरादेशो भवति। वाक्, वाग्। त्वक्, त्वग्। श्वलिट्, श्वलिड्। त्रिष्टुप्, त्रिष्टुब्।
लघु-सिद्धान्त-कौमुदी
वावसाने १४६, ८।४।५५

अवसाने झलां चरो वा। रामात्, रामाद्। रामाभ्याम्। रामेभ्यः। रामस्य॥
न्यासः
वाऽवसाने। , ८।४।५५

"झलां जशोऽन्ते" ८।२।३९ इति नित्ये जश्त्वे प्राप्तेऽवसाने वा चरो विधीयन्ते। वावचनात्? पक्षे जश्त्वमपि भवत्येव॥
बाल-मनोरमा
वावसाने २०४, ८।४।५५

वाऽवसाने "झलां जश्झशी"त्यतो "झला"मिति "अभ्यासे चर्चे"त्यतश्चरिति चानुवर्तते। तदाह--अवसान इति। द्वित्वे रूपेति। तकारदकारयोरनचि चेति द्वित्वे, तदभावे च रूपचतुष्टयमित्यर्थः। तत्र चत्र्वपक्षे द्वतकारमेकतकारं च रूपम्। जश्त्वपक्षे द्विदकारं एकदकारं च। रामाभ्याम्। रामेभ्य इति। चतुर्थीवत्प्रक्रिया सुगमिति भावः।

अथ षष्ठीविभक्तिः। ङसो ङकारस्य "लशक्लतद्धित" इति इत्त्वं, लोपः। ङकारोच्चारणं तु "ङिति ह्यस्वश्चे"त्याद्यर्थम्। "टाङसिङसा"मिति स्यादेशं सिद्धवत्कृत्याह--रामस्येति। नन्विह सकारस्यानचि चेति द्वित्वे पूर्वसकारस्य "खरि चे"ति चर्त्वेन दन्तस्थानतो।ञन्तरतमे तकारे सति रामत्स्येति स्यादित्यत आह--सस्य द्वित्वेति। स एवेति। सकार एवेत्यर्थः। "एव"कारव्यावर्त्त्यमाह--नतु तकार इति। ननु दन्तस्थानतः ()आआसाघोषविवारात्मकबाह्रप्रयत्नश्चान्तर्यं तकारे।ञप्यविशिष्टमित्यत आह--अल्पप्राणतयेति। सकारः स्थानी महाप्राणः। तकारस्तु अल्पप्राणः। अतो बाह्रप्रयत्नभेदात्तकारो न भवति। इदमुपलक्षणम्, आभ्यन्तरप्रयत्नभेदादपि सकारस्य तकारो भवतीति द्रष्टव्यम्। अत एवेति। "वस निवासे" इत्यदिधातोर्वत्स्यतीत्यादौ सकारस्य सकारे परे तकारो विधीयते यदि तु त्र खरि चेति सकारस्य तकारः स्यात्तर्हि तद्विधानमनर्थकं स्यादित्यर्थः।

तत्त्व-बोधिनी
वावसाने १७२, ८।४।५५

जश्त्वं वावसान इति। अत्राहुः--जश्त्वे कृतेऽवसाने चत्र्वमिति न मन्तव्यं, किंतु येननाप्राप्तिन्यायेन अवसाने चत्र्वस्य जश्त्वापवादत्वाच्चत्र्वाऽभावपक्षे जश्त्वमिति योज्यमिति। द्वित्व इति। "अनचि चे"त्यनेन। "अनचीति प्रसज्यप्रतिषेध" इति प्रागेवोक्तम्। पर्युदासाभ्युपगमे तु इह द्वित्वं न स्यात्। तादेश आरभ्यत इति। वत्स्यतीत्यादौ चर्त्वेन तकारो न लभ्यत इति "सः स्याद्र्धधातुके" इत्यनेन सकारस्य तकारो विधीयत इत्यर्थः।