पूर्वम्: ८।४।५५
अनन्तरम्: ८।४।५७
 
सूत्रम्
अणोऽप्रगृह्यस्यानुनासिकः॥ ८।४।५६
काशिका-वृत्तिः
अणो ऽप्रगृह्यस्य अनुनासिकः ८।४।५७

अणः अप्रगृह्यसंज्ञस्य अवसाने वर्तमानस्य वा अनुनासिकादेशो भवति। दधिम्̐, दधि। मधुम्̐, मधु। कुमारीम्̐, कुमारी। अणः इति किम्? कर्तृ। हर्तृ। अप्रगृह्यस्य इति किम्? अग्नी। वायू।
न्यासः
अणोऽप्रगृह्रस्यानुनासिकः। , ८।४।५६

"अणः" इति पूर्वेण णकारेण प्रत्याहारग्रहणम्। अन्यथाऽसन्देहार्थ "अचः" इति कुर्यात्()। न च पदान्तहलोऽणः सम्भन्ति। "दीर्घे, मधुँ" इति। "स्वमोर्नपुंसकात्()" ७।१।२३ इति स्वमोर्लुक्()। "अग्नी, वायू" इति। "प्रथमयोः पूर्वसवर्णः" ६।१।९८ इति दीर्घः। "ईदूदेद्विवचनम्()" १।१।११ इति प्रगृह्रसंज्ञा॥
बाल-मनोरमा
अणोऽप्रगृह्रस्यानुनासिकः ७११, ८।४।५६

अणोऽप्रगृह्रस्य। "वा"अवसाने" इत्यनुवर्तते। तदाह--अप्रगृह्रेत्यादिना। अत्र अण् पूर्वेणैव णकारेण, व्याख्यानात्। ततस्च "कर्तृ" इत्यत्र नानुनासिकः। इत्यच्संधीति। अल्पाच्तरमिति, सिद्धमनच्त्वादिति, कथमनच्त्वमिति च सूत्रवार्तिकभाष्यप्रयोगादेवजातीयस्थलेषु असंदेहार्थं संध्यभावोऽभ्यनुज्ञातः। अतोऽत्र कुत्वश्चुत्वयोरभावेऽपि न दोषः। इति*बालमनोरमायामच्सन्धिः।

अत तिङन्ते प्रत्ययमाला।

अथ प्रत्ययमालां वक्ष्यन्नाह--कण्डूयतेः सन्निति। "धातोः कर्मणः" इत्यनेनेति भावः। प्रथमस्यैकाच इति। "अजादेर्द्वितीयस्ये"ति द्वितीयैकाचो द्वित्वे प्राप्ते इत्यपि ज्ञेयम्।कण्ड्वादेस्तृतीयस्येति। "एकाचो द्वित्व"मिति शेषः। "कण्ड्वादे"रित्यनन्तरं "यगन्तस्ये"ति शेषः, केवलकण्ड्वादिषु तृतीयैकाचोऽभावात्। कण्डूयियिषतीति। कण्डूयेति यगन्तात्सनि इटि अतो लोपः। इस् इति तृतीयस्यैकाचो द्वित्वम्। असु उपतापे। कण्ड्वादिः। असूयियिषति। अजादेस्तृतीयस्य एकाचो द्वित्वम्। क्यजन्तात्सन्निति। "उदाह्यियते" इति शेषः। यथेष्टं नामधातुषु -- इत्पि वार्तिकम। नाम = प्रातिपदिकं, तद्धटितधातुष्वित्यर्थः। अजादेस्त्वाद्येतरस्येति। अजादेरित्यनुवृत्त्या आदिभूतादचः पेरषामेकाचां यतेष्टमित्यर्थलाभादिति भावः। नदराणामिति। तेषां मध्ये आदिभूतादचः परस्यैवेत्यर्थः। इन्द्रीयतेः सन्निति। इन्द्रशब्दात् क्यजन्तात्सन्नित्यर्थः। द्रीशब्दयिशब्दयोरिति। नकारस्य आदिभूतादचः परत्वान्न द्वित्वम्। दकारस्य तु आदिभूतादचः परत्वाऽभावान्न द्वित्वनिषेध इति भावः। चिच्नद्रीयिषतीति। चन्द्रीयतेः सनि प्रथमस्यैकाचो द्वित्वम्। चन्द्रिद्रीयिषतीति। द्वितयीस्यैकाचो द्वित्वम्। प्रियमिति। प्रियमाख्यातुमिच्छतीत्यर्थे "तत्करोति तदाचष्टे" इति ण्यन्तात्सनि इटि णाविष्ठवत्त्वात्प्रियशब्दस्य "प्रियस्थिरे"ति प्रादेशे वृद्धौ पुकि णिचो गुणाऽयादेशयोः षत्वे प्रापयिषेत्येव सन्नन्तम्। प्रियमाचक्षाणं प्रेरयितुमिच्छतीत्यर्ते तु प्रापि इति ण्यन्तादुक्ताद्धेतुमण्णौतद्नतात्सनि इटि द्वितीयं णिचमाश्रित्य प्रथमणिचो लोपेद्वितीयणिचो गुणाऽयादेशयोः प्रापयिषेत्येव सन्नन्तम्। तत्र यथेष्टं नामधातुष्वित्याद्यानां त्रयाणामेकाचामेकैकस्य द्वित्वे "पिप्रापयिषती"त्यादिरूपत्रयमित्यर्थः। उरुमिति। उरुमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे उरुशब्दाचष्टे इत्यर्थे णिचि "प्रियस्थिरे"ति वरादशे उपधावृद्धौ वारि इति ण्यन्तात्सनि इटि णिचो गुणाऽयादेशयोः षत्वे वारयिषेति सन्नन्तम्। माधवमते वृद्ध्याङ्गीकाराद्वारीत्यस्माद्धेतुमण्ण्यन्तात् सनि इटि प्रथमणेर्लोपे षत्वे वारयिषेत्येव रूपम्। तत्र यथेष्टं नामधातुषवित्येकैकस्य एकाचो द्वित्वे विवारयिषतीत्यादिरूपत्रयमित्यर्थः। बाढंसिसाधयिषतीति। बाढमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे णिजादि पूर्ववत्। "अन्तिकबाढयो"रिति साधादेशः। तत्र सकारस्यादेशत्वाऽभावान्न षत्वम्। तदाह-- षत्वं तु नास्तीति। बोभूयिषयिषतीत्यत्र प्रक्रियां दर्शयति-- यङिति। "भूधातो" रिति शेषः। द्वित्वे बोभूयेति स्थितम्। सन्निति। इटि अतो लोपे षत्वे बोभूयिषेति स्थितम्। ण्यन्तात्सन्निति। बोभूयिषेत्यस्माद्धेतुमण्णिचि अतो लोपे बोभूयिषि इति स्थितम्। तस्मात् सनि इटि णिचो गुणाऽयादेशयोः षत्वे बोभूयिषयिषेति स्थितम्। ततो लटस्तिपि शपि पररूपे बोभूयिषयिषतीति रूपम्। "अनभ्यासस्ये"त्युक्तेर्न पुनर्द्वित्वम्। अथ बोभूययिषयतीत्यत्र प्रक्रियां दर्शयति-- यङिति। "भूधातो"रिति शेषः। द्वित्वे बोभूयेति स्थितम्। णिजिति। बोभूयेत्यस्माद्धेतुमण्णौ अतो लोपे बोभूयि इति स्थितम्। सन्नन्ताण्णिजिति। बोभूयि इत्यस्मात्सनि इटि णिचो गुणाऽयादेशयोः ष्तवे बोभूययिषेति स्थितम्। तस्माद्धेतुमण्णिचि अतो लोपे बोभूययिषि इत्यस्माल्लटस्तिपि शपि गुणाऽयादेशयोर्बोभूययिषयतीति रूपं सिद्धम्।

प्रत्ययमाला समाप्ता।

अथ पूर्वकृदन्तप्रकरणम्।

तत्त्व-बोधिनी
अणोऽप्रगृह्रस्यानुनासिकः ५९२, ८।४।५६

अणोऽप्रगृह्रस्य। अण इति किम्?, हर्तृ कर्तृ। अच्सन्धिरिति। कुत्वं श्चुत्वं वाऽत्र न कृतं, स्पष्टप्रतिपत्त्यर्थम्। अत एवानुस्वारस्याप्यच्त्वादित्यादिनिर्देशोऽप्युपपन्नः।

इति प्रकृतिभावप्रकरणम्॥

इति तत्त्वबोधिन्यामच्सन्धिप्रकरणम्॥

--------------------------

अथ तिङन्ते प्रत्ययमाला।

प्रथमस्येति। अजादेस्तु द्वितीयस्य द्वित्वे प्राप्ते इत्यपि ज्ञेयम्। प्राचा तु "यथेष्टं नामाधातुषु" इति प्राप्ते "कण्ड्वादेस्तृतीयस्येत्युक्त"मित्यवतारितं, तदयुक्तम्, नामधातुत्वस्य निराकृतत्वात्। अत एव मूले नामधाथून् समाप्य कण्ड्वादयः पृथगेवोक्ताः। द्रीशब्दयिशब्दयोरिति। नकारस्य त्वचः परत्वाद्द्वत्वं नेति भाव-। पिप्रापयिषतीति। णाविष्ठवद्भावेन प्रियशब्दस्य "प्रियस्थिरे"त्यादिना प्रादेशः। ततो द्वित्वादि। सिसाधयिषतीति। इष्टवद्भावादिह "अनतिकबाढयो"रिति साधादेशः। सादिधयिषति। साधयियिषति। षत्वं तु नास्तीति। आदेशावयवत्वादिति भावः। बोभयिषयिषतीति। इह यङ् निमित्तद्वित्वे कृतेऽपि सन्निमित्तद्वत्वे कृतेऽपि सन्निमित्तद्वित्ववारणाय "लिटि धातो"रिति सूत्रे "अनभ्यासस्ये" त्येतदवश्यं वर्तव्यम्। एवं च "लक्ष्ये लक्षमं सकृदेव प्रवर्तते" इति अनभ्यासग्रहणं तत्र माऽस्त्विति भाष्यस्थं प्रत्याख्यानं प्रौढिवादमात्रमिति भावः।

अथ पूर्वकृदन्तप्रकरणम्।