पूर्वम्: ८।४।५८
अनन्तरम्: ८।४।६०
 
सूत्रम्
तोर्लि॥ ८।४।५९
काशिका-वृत्तिः
तोर् लि ८।४।६०

तवर्गस्य लकारे परतः परसवर्णादेशो भवति। अग्निचिल्लुनाति। सोमसुल्लुनाति। भवाम्̐ल्लुनाति। महाम्̐ल्लुनाति।
लघु-सिद्धान्त-कौमुदी
तोर्लि ६९, ८।४।५९

तवर्गस्य लकारे परे परसवर्णः। तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वांल्लिखति। नस्यानुनासिको लः।
न्यासः
तोर्लि। , ८।४।५९

बाल-मनोरमा
तोर्लि ११८, ८।४।५९

तोर्लि। "अनुस्वारस्य ययी"त्यतः "परसवर्णः" इत्यनुवर्तते। तदाह--तवर्गस्येत्यादिना। तल्लय इति। तस्य-लय इति विग्रहः। तदा-लय इति स्थिते दस्य परसवर्णः=परनिमित्तभूतलकारसवर्णो भवति, स च लकार एव, अन्यस्य तत्सावण्र्याऽभावात्। अत्र नकारस्येति। विद्वान्-लिखतीत्यत्र विद्वान् लिखतीति स्थिते नकारस्य स्थानिनोऽनुनासिकस्य परसवर्णो लकारो भवन्नान्तर्यादनुनासिक एव लकारो भवतीत्यर्थः।