.. संस्कृत व्यवहार साहस्री ..
अनुक्रमणिका = Contents
१ . शिष्टाचारः = Common formulas (Good practices)
२ . मिलनम् = Meeting
३ . सरल वाक्यानि = Simple sentenes
४ . सामान्य वाक्यानि = Ordinary sentences
५ . मित्र मिलनम् = Meeting the friends
६ . प्रयाणम् = Journey
७ . प्रवासतः प्रतिनिवर्तनम् = On Arrival
८ . छात्राः = Students
९ . परीक्षा = Examination
१० . चलनचित्रम् = Film
११ . शिक्षकः = Teacher
१२ . स्त्रियः = Women
१३ . पाकः = cooking.
१४ . वेषभूषणानि = Dress, jewellery
१५ . कार्यालयः = Office
१६ . आरोग्यम् = Health
१७ . समयः = Time
१८ . दूरवाणी = Telephone
१९ . वाणिज्यम् = Commerce
२० . वातावरणम् = Weather
२१ . गृहसम्भाषणम् = Domestic
२२ . पितरः पुत्राः च = Fathers/sons/mothers
२३ . मातापितरः = Parents
२४ . सुताः = Children
२५ . सङ्कीर्ण वाक्यानि = Miscellaneous sentences
२६ . अतिथिः = Guests
२७ . शुभाशयाः = Greetings
संस्कृत व्यवहार साहस्री
One Thousand Sentences for Conversation in Sanskrit Please send corrections to S . V . Ganesan (deepa@tiac.net) or
to C . S . Raghavendra (csr@wipinfo.soft.net).
The book sa.nskR^ita-vyavahAra-sAhasrI is published and copyrighted by Pallava Prakashan,
Bangalore, India . For more details contact Aksharam, 8th Cross,
Girinagar, Bangalore 560 085 INDIA Ph: 080-6613052, 080-6617276
१ . शिष्टाचारः = Common formulas (Good practices)
हरिः ॐ != Hello !
सुप्रभातम् .* = Good morning.
नमस्कारः/नमस्ते . = Good afternoon/Good evening.
शुभरात्रिः . = Good night.
धन्यवादः . = Thank You.
स्वागतम् . = Welcome.
क्षम्यताम् . = Excuse/Pardon me.
चिन्ता मास्तु . = Dont worry.
कृपया . = Please.
पुनः मिलामः . = Let us meet again.
अस्तु . = All right./O.K.
श्रीमन् . = Sir.
मान्ये/आर्ये . = Lady.
साधु साधु/समीचीनम् . = Very good.
२ . मिलनम् = Meeting
भवतः नाम किं ?= What is your name? (masc.)
भवत्याः नाम किम् ?= What is your name? (fem.)
मम नाम fill. = My name is fill
एषः मम मित्रं fill. = This is my friend fill
एतेषां विषये श्रुतवान् = I have heard of them
एषा मम सखी fill. = This is my friend fill (fem.).
भवान् किं (उद्योगं)करोति ?= What do you do? (masc.)
भवती किं (उद्योगं)करोति?= What do you do? (fem.)
अहं अध्यापकः अस्मि . = I am a teacher (masc.)
अहम् अध्यापिका अस्मि . = I am a teacher.(fem.)
अधिकारी = Officer;
उट्टङ्ककः = Typist
तंत्रज्ञः = Engineer;
प्राध्यापकः = Professor
लिपिकः = Clerk
न्यायवादी = lawyer
विक्रयिकः = Salesman;
उपन्यासकः = Lecturer
अहं यन्त्राकारे कार्यं करोमि . = I work in a factory.
कार्यालये = in an office;
महाविद्यालये = in a college
वित्तकोषे = in a bank;
चिकित्सालये = in a hospital
प्रौढशालायां = in a high school;
यन्त्राकारे = in a factory
भवान्/भवती कस्यां कक्ष्यायां पठति ?= Which class are you in?
अहं नवमकक्ष्यायां पठामि . = I am in Std.IX.
अहं . कक्ष्यायां पठामि . = I am in I/II/III/B.Sc . class.
भवतः ग्रामः ?= Where are you from?
मम ग्रामः fill. = I am from fill
कुशलं वा ?= How are you ?
कथमस्ति भवान् ?= How are you ?
गृहे सर्वे कुशलिनः वा ?= Are all well at home?
सर्वं कुशलम् . = All is well.
कः विशेषः ?(का वार्ता ?)= What news?
भवता एव वक्तव्यम् . = You have to say.
कोऽपि विशेषः ?= Anything special?
भवान् (भवती)कुतः आगच्छति ?= Where are you coming from?
अहं शालातः,गृहतः,....तः = I am coming from school/house/....
भवान्/भवती कुत्र गच्छति ?= Where are you going?
भवति वा इति पश्यामः . = Let us see if it can be done.
ज्ञातं वा ?= Understand ?
कथं आसीत् ?= How was it?
अङ्गीकृतं किल ?= Agreed?
कति अपेक्षितानि ?= How many do you want?
अद्य एव वा ?= Is it today?
इदानीं एव वा ?= Is it going to be now?
आगन्तव्यं भोः . = Please do come.
तदर्थं वा ?= Is it for that ?
तत् किमपि मास्तु . = Dont want that.
न दृश्यते ?= Cant you see?
समाप्तं वा ?= Is it over?
कस्मिन् समये ?= At what time?
तथापि = even then
आवश्यकं न आसीत् . = It was not necessary.
तिष्ठतु भोः . = Be here for some more time.
स्मरति किल ?= Remember, dont you?
तथा किमपि नास्ति . = No, it is not so.
कथं अस्ति भवान् ?= How are you?
न विस्मरतु . = Dont forget.
अन्यच्च = besides
तदनन्तरम् = then
तावदेव किल ?= Is it only so much?
महान् सन्तोषः . = Very happy about it.
तत् तथा न ?= Is it not so?
तस्य कः अर्थः ?= What does it mean?
आं भोः . = Yes, Dear, Sir.
एवमेव = just
अहं देवालयं/कार्यालयं/विपणिं गच्छामि = I am going to temple/office/market.
किं चिराद् दर्शनं ?= What is the matter ? You are not seen these days.
भवन्तं कुत्रापि दृष्टवान् .= I remember to have seen you somewhere.
भवान् सम्भाषणशिबिरं आगतवान् वा ?= Have you come to the conversation camp ?Note:In the place of yushhmad.h shabdaH (tvam.h), here bhavat.h
shabdaH (bhavAn.h/bhavatI) is used for the convenience of Samskrita
conversation learning . (The verb used for bhavAn.h/bhavatI is III Person
Singular instead of II Person singular).
तर्हि कुत्र दृष्टवान् ?= In that case where have I seen you?
तर्हि तत्रैव दृष्टवान् .= I must have seen you there in that case.
३ . सरल वाक्यानि = Simple sentenes
तथैव अस्तु . = Let it be so/so be it.
जानामि भोः . = I know it.
आम्,तत् सत्यम् . = Yes,that is right.
समीचीना सूचना . = A good suggestion indeed.
किंचित् एव . = A little.
किमर्थं तद् न भवति ?= Why cant that be done ?
भवतु नाम . = Leave it at that.
ओहो !तथा वा ?= Oh! Is that so ?
एवमपि अस्ति वा ?= Is it like this ?
अथ किम् ?= Then ?
नैव किल != No
भवतु != Yes
आगच्छन्तु . = Come in.
उपविशन्तु . = Please sit down.
सर्वथा मास्तु . = Definitely no.
अस्तु वा ?= Can that be so ?
किमर्थं भोः ?= Why ?
प्राप्तं किल ?= You have got it, havent you ?
४ . सामान्य वाक्यानि = Ordinary sentences
प्रयत्नं करोमि . = I will try.
न शक्यते भोः . = No, I cant.
तथा न वदतु . = Dont say that.
तत्र कोऽपि सन्देहः नास्ति . = There is no doubt about it.
तद् अहं न ज्ञातवान् . = I didnt know that.
कदा ददाति ?= When are you going to give me ?
अहं कथं वदामि कदा इति ?= How can I say when ?
तथा भवति वा ?= Can that be so ?
भवतः समयावकाशः अस्ति वा ?= Are you free ?
अद्य भवतः कार्यक्रमः कः ?= What are your programmes for today ?
अरे !पादस्य / हस्तस्य किं अभवत् ?= Oh! What happened to your legs/arms?
बहुदिनेभ्यः ते परिचिताः . = I have known him for long ( shouldnt bethem for him? May be pluralte is used for a VVIP))
तस्य कियद् धैर्यं/धार्ष्ट्यम् ?= How dare he is ?
भवान् न उक्तवान् एव . = You have not told me ..
अहं किं करोमि ?= What can I do ?
अहं न जानामि . = I dont know.
यथा भवान् इच्छति तथा . = As you wish/say.
भवतु,चिन्तां न करोतु = Yes, dont bother.
तेन किमपि न सिध्यति . = There is no use/nothing hppenns on account of that.
सः सर्वथा अप्रयोजकः . = He is good for nothing.
पुनरपि एकवारं प्रयत्नं कुर्मः . = Let us try once more.
मौनमेव उचितम् . = Better be quiet.
तत्र अहं किमपि न वदामि . = I do not want to say anything in this regard/No comments, please/I must think before I say anything.
तर्हि समीचीनम् . = O.K . if that is so.
एवं चेत् कथम् ?= How to get on, if it is so ?
मां किञ्चित् स्मारयतु . = Please remind me.
तं अहं सम्यक् जानामि . = I know him well.
तदानीमेव उक्तवान् किल ?= Havent I told you already ?
कदा उक्तवान् भोः ?= When did you say so ?
यत्किमपि भवतु . = Happen what may.
सः बहु समीचीनः = He is a good fellow.
सः बहु रूक्षः . = He is very rough.
तद्विषये चिन्ता मास्तु . = Dont worry about that.
तथैव इति न नियमः . = It is not like that.
कर्तुं शक्यं,किञ्चित् समयः अपेक्षते . = I/We can do it, but require time.
एतावत् अपि कृतवान् != At least he has done this much !
द्रष्टुं एव न शक्यते . = Cant see it.
तत्रैव कुत्रापि स्यात् . = It may be somewhere there.
यथार्थं वदामि . = I am telling the truth.
एवं भवितुं अर्हति . = This is O.K./all right.
कदाचित् एवमपि स्यात् . = It may be like this sometimes.
अहं तावदपि न जानामि वा ?= Dont I know that much ?
तत्र गत्वा किं करोति ?= What are you going to do there ?
पुनः आगच्छन्तु . = Come again.
मम किमपि क्लेशः नास्ति . = It is no trouble (to me).
एतद् कष्टं न . = This is not difficult.
भोः,आनीतवान् वा ?= Have you brought it ?
भवतः कृते कः उक्तवान् ?= Who told you this ?
किञ्चिदनन्तरं आगच्छेत् . = He/It may come sometime later.
प्रायः तथा न स्यात् . = By and large, it may not be so.
चिन्ता मास्तु,श्वः ददातु . = It is no bother, return it tomorrow.
अहं पुनः सूचयामि . = I will let you know.
अद्य आसीत् वा ?= Was it today ?
अवश्यं आगच्छामि . = Certainly, I will come.
नागराजः अस्ति वा ?= Is Nagaraj in ?
किमर्थं तत् एवं अभवत् ?= Why did it happen so ?
तत्र आसीत् वा ?= Was it there ?
किमपि उक्तवान् वा ?= Did you say anything ?
कुतः आनीतवान् ?= Where did you bring it from ?
अन्यत् कार्यं किमपि नास्ति . = Dont have any other work.
मम वचनं शृणोतु . = Please listen to me.
एतत् सत्यं किल ?= It is true, isnt it ?
तद् अहं अपि जानामि . = I know it myself.
तावद् आवश्यकं न . = It is not needed so badly.
भवतः का हानिः ?= What loss is it to you ?
किमर्थं एतावान् विलम्बः ?= Why are you late ?
यथेष्टं अस्ति . = Available in plenty.
भवतः अभिप्रायः कः ?= What do you say about it ?/What is your opinion ?
अस्य किं कारणम् ?= What is the reason for this ?
स्वयमेव करोति वा ?= Do you do it yourself ?
तत् न रोचते ?= I dont like it.
उक्तं एव वदति सः . = He has been repeating the same thing.
अन्यथा बहु कष्टम् . = It will be a big botheration if it is not so.
किमर्थं पूर्वं न उक्तवान् ?= Why didnt you say it earlier ?
स्पष्टं न जानामि . = Dont know exactly.
निश्चयः नास्ति . = Not sure.
कुत्र आसीत् भवान् ?= Where were you ?
भीतिः मास्तु . = Dont get frightened.
भयस्य कारणं नास्ति . = Not to fear.
तदहं बहु इच्छामि = I like that very much.
कियत् लज्जास्पदम् ?= What a shame ?
सः मम दोषः न . = It is not my fault.
मम तु आक्षेपः नास्ति . = I have no objection.
सः शीघ्रकोपी . = He is short-tempered.
तीव्रं मा परिगणयतु . = Dont take it seriously.
आगतः एषऽवराकः . = Camped here.(?)
युक्ते समये आगतवान् . = you have come at the right time.
बहु जल्पति भोः . = He talks too much.
एषा केवलं किंवदन्ती . = It is just gossip.
किमपि न भवति . = Nothing happens.
एवमेव आगतवान् . = Just came to call on you.
विना कारणं किमर्थं गन्तव्यम् ?= Why go there unnecessarily ?
भवतः वचनं सत्यम् . = You are right.
मम वचनं कः शृणोति ?= Who listens to me ?
तदा तद् न स्फुरितम् . = It did not flash me then.
किमर्थं तावती चिन्ता ?= Why so much botheration ?
भवतः किं कष्टं अस्ति ?= Tell me, what your trouble is ?
छे,एवं न भवितव्यं आसीत् . = Tsh,it should not have happened.
अन्यथा न चिन्तयतु . = Dont mistake me.
५ . मित्र मिलनम् = Meeting the friends
नमोनमः . = Good morning/afternoon/evening
किं भोः,दर्शनमेव नास्ति != Hello, didnt see you for long !
नैव,अत्रैव सञ्चरामि किल != No, I have been moving about right here !
किं भोः,वार्ता एव नास्ति ?= Hello, not to be seen for a long time !
किं भोः,एकं पत्रं अपि नास्ति ?= Hey, You havent even written a letter !
वयं सर्वे विस्मृताः वा ?= You have forgotten us all, Havent you ?
कथं विस्मरणं भवति भोः ?= How can I forget you ?
भवतः सङ्केतं एव न जानामि स्म . = I didnt know your address.
महाजनः संवृत्तः भवान् != you have become a big man !
भवान् एव वा !दूरतः न ज्ञातम् . = Is it you ? I couldnt recognise you from a distance.
ह्यः भवन्तं स्मृतवान् . = I remembered you yesterday.
किं अत्र आगमनम् ?= What made you come here ?
अत्रैव किञ्चित् कार्यं अस्ति . = I have some work here.
त्वरितं कार्यं आसीत् . अतः आगतवान् . = I am here as I have some urgent work.
बहुकालतः प्रतीक्षां करोमि . = I have been waiting for you for a long time.
यानं न प्राप्तं,अत एव विलम्बः . = Could not get the bus,hence late.
आगच्छतु भोः,गृहं गच्छामः . = Come, let us go home.
इदानीं वा,समयः नास्ति भोः . = Now? No time, you know.
श्वः सायं मिलामः वा ?= Shall we meet tomorrow evening ?
अवश्यं तत्रैव आगच्छामि . = Ill come there without fail.
इदानीं कुत्र उद्योगः ?= Where do you work now ?
यन्त्राकारे उद्योगः . = I work in a factory.
ग्रामे अध्यापकः अस्मि . = I am a teacher in a village.
इदानीं कुत्र वासः ?= Where are you put up ?
एषः मम गृहसङ्केतः . = This is my address.
यानं आगतं,आगच्छामि . = Bus has come, bye, bye.
अस्तु,पुनः पश्यामः . = OK . Let us meet again.
पुनः अस्माकं मिलनं कदा ?= When shall we meet again ?
पुनः कदा मिलति भवान् ?= When are you going to meet me ? (again)
तद्दिने किमर्थं भवान् न आगतवान् ?= Why didnt you come that day ?
वयं आगतवन्तः एव . = We have already arrived.
भवतः समीपे संभाषणीयं अस्ति . = I have something to talk to you about.
भवान् अन्यथा गृहीतवान् . = You have mistaken me.
भवन्तं बहु प्रतीक्षितवान् . = I very much expected you.
बहुकालतः तस्य वार्ता एव नास्ति . = No news from him for days.
भवतः पत्रं इदानीं एव लब्धम् . = I have just received your letter.
किञ्चिद्दूरं अहमपि आगच्छामि . = I will walk with you for some distance.
मिलित्वा गच्छामः . = Let us go together.
तिष्ठतु भोः,अर्धार्धं काफी पिबामः . = Wait, lets have a by-two coffee (It appears to mean sharing one cup of coffee between two persons)
अस्तु,पिबामः . = Fine, let us have it.
स्थातुं समयः नास्ति . = No time to stay.
गमनात् अनुक्षणमेव पत्रं लिखतु . = Write as soon as you reach there.
पुनः कदाचित् पश्यामि . = Meet you again.
यदा कदा वा भवतु,अहं सिद्धः . = I am ready any day.
तेषां कृते मम शुभाशयान् निवेदयतु . = Convey my good wishes to them/*him(Only if that person is a VIP).
किं भोः,एवं वदति ?= Hey, why do you say so ?
किञ्चित् कालं तिष्ठतु . = Please wait for some time.
भवान् एव परिशीलयतु . = Think about it, yourself.
अत्र पत्रालयः कुत्र अस्ति ?= Where is the post office, here ?
कियद्दूरे अस्ति ?= How far is it ?
वित्तकोषः कियद्दूरे अस्ति ?= How far is the bank ?
किमर्थं एवं त्वरा (संभ्रमः)?= Why so much of confusion ?
इतोऽपि समयः अस्ति किल ?= There is still time, isnt it ?
सर्वस्य अपि मितिः भवेत् . = There should be some limit for everything.
कियद् इति दातुं शक्यम् ?= How much can I give him ?
कस्मिन् समये प्रतीक्षणीयम् ?= When shall I expect ?
गृहे उपविश्य किं करोति ?= What are you going to do by sitting at home ?
भवतः परिचयः एव न लब्धः . = Could not recognize you.
किं भोः,बहु कृशः जातः ?= Hey, You have become very weak.
अवश्यं मम गृहं आगन्तव्यम् . = Please do call on us.
सः सर्वत्र दर्वीं चालयति . = He pokes his nose everywhere.
यथा भवान् इच्छति . = I am game for whatever you say.
परिहासाय उक्तवान् भोः . = I said it in fun, You know.
एषः भवतः अपराधः न . = It is not your fault.
नैव,चिन्ता नास्ति . = No, no trouble/botheration.
वयं इदानीं अन्यद्गृहे स्मः . = We live in a different home now/Changed our residence.
भवान् मम अपेक्षया ज्येष्ठः वा ?= Are you elder to me ?
ओहो,मम अपेक्षया कनिष्ठः वा ?= Younger to me, is it ?
भवान् विवाहितः वा ?= Are you married ?
नैव,इदानीमपि एकाकी . = No, still a bachelor.
भवतः पिता कुत्र कार्यं करोति ?= Where does your father work ?
सः वर्षद्वयात् पूर्वमेव निवृत्तः . = He retired two years ago.
सः वृद्धः इव भाति . = He looks aged.
भवन्तः सर्वे सहैव वसन्ति वा ?= Do all of you live together ?
नैव,सर्वे विभक्ताः = No, we live separately.
भवतः वयः कियत् ?= How old are you ?
भवन्तः कति सहोदराः ?= How many brothers are you ?
वयं आहत्य अष्टजनाः . = We are eight.
भवान् एव ज्येष्ठः वा ?= Are you the eldest ?
मम एकः अग्रजः अस्ति . = I have an elder brother.
सः इदानीमपि बालः . = He is still a boy.
भवतः अनुजायाः कति वर्षाणि ?= How old is your younger sister ?
भवान् मा ददातु,मा स्वीकरोतु . = Neither give, nor take anything.
अन्यं कमपि न पृच्छतु . = Dont ask anyone except me.
तर्हि सर्वं दायित्वं भवतः एव . = In that case the entire responsibility is yours.
सर्वत्र अग्रे सरति . = He takes the initiative in everything.
भवन्तं गृहे एव पश्यामि . = I will see you in your house.
सः निष्ठावान् . = He is very orthodox.
यावदहं प्रत्यागच्छामि,तावद् प्रतीक्षां करोतु . = Wait till I come.
द्वयोः एकः आगच्छतु . = Either of the two come.
तस्य कृते विषयः निवेदितः वा ?= Have you informed him about the news?
तस्य कृते सः अत्यन्तं प्रीतिपात्रम् . = He is closely related to him.
भवता एतद् न कर्तव्यम् . = You should not do this.
यदि सः स्यात्.. . . = Had he been here ...
अवश्यं आगन्तव्यं,न विस्मर्तव्यम् . = Dont forget, please do come.
कियत् कालं तिष्ठति ?= How long will you be here?
एषा वार्ता मम कर्णमपि आगता . = I have heard of this news.
सः स्तोकात् मुक्तः . = He escaped narrowly.
भवन्तं द्रष्टुं सः पुनः आगच्छति किल ?= He is going to come back to see you . Isnt he ?
अहं किमर्थं असत्यं वदामि ?= Why should I tell a lie ?
भवान् अपि एवं वदति वा ?= Of all the people are you going to say this ?
भवान् एवं कर्तुं अर्हति वा ?= Can you do this ?
भवान् गच्छतु,मम किञ्चित् कार्यं अस्ति . = You proceed, I have some work.
वृथा भवान् चिन्तां करोति . = You just worry unnecessarily.
दैवेच्छा तदा आसीत्,किं कुर्मः ?= It was Gods will . What shall we do ?
अहं अन्यद् उक्तवान्,भवान् अन्यद् गृहीतवान् . = I told you one thing . You understood it differently.
एतावद् अनृतं वदति इति न ज्ञातवान् . = I never expected that he would tell a lie.
प्रमादतः संवृत्तम्,न तु बुद्ध्या . = I did not do it purposely . It was just accidental.
एषः एकः शनिः . = This fellow is a bugbear.
भवदुक्तं सर्वमपि अङ्गीकर्तुं न शक्यम् . = I cannot agree with all you say.
अहं गन्तुं न शक्नोमि . = I cannot go.
विषयस्य वर्धनं मास्तु . = Dont escalate the matter.
सर्वेऽपि पलायनशीलाः . = All these fellows take to their heels in the face of danger.
असम्बद्धं मा प्रलपतु . = Dont talk foolishly.
सर्वस्य अपि भवान् एव मूलम् . = You are the root cause of all these.
सुलभेन तस्य जाले पतितवान् . = He fell into his trap easily.
अस्माकं मिलनानन्तरं बहु कालः अतीतः . = It is a long time since we met.
इदानीं आगन्तुं न शक्यते . = I cannot come now.
भवान् अपि अङ्गीकरोति वा ?= Do you agree ?
भवान् अपि विश्वासं कृतवान् ?= Did you believe that ?
सः विश्वासयोग्यो वा ?= Is he trustworthy ?
किञ्चित् साहाय्यं करोति वा ?= Would you mind helping me a bit ?
समयः कथं अतिशीघ्रं अतीतः != How quickly the time passed !
युक्ते समये आगतवान् . = You have come at the right time.
एक निमेषं विलम्बः चेत् अहं गच्छामि स्म . = I would have left if you were late by a minute.
अहमपि भवता सह आगच्छामि वा ?= Shall I come with you ?
किञ्चित् कालं द्विचक्रिकां ददाति वा ?= Would you mind lending me your bicycle for a few minutes ?
इदानीं मया अपि अन्यत्र गन्तव्यम् . = I have to go somewhere now.
भवान् स्वकार्यं पश्यतु . = You mind your business.
शीघ्रं प्रत्यागच्छामि . = Ill be back in a short while.
आवश्यकं चेत् श्वः आनयामि . = If you want it, I shall bring it tomorow.
मास्तु इत्युक्तेऽपि सः न शृणोति . = I said no,but he doesnt listen to me.
६ . प्रयाणम् = Journey
चीटिकां कुत्र क्रीणामि ?. = Where shall I buy a ticket ?
शीघ्रं आगच्छतु,यानं गच्छति . = Come quickly, the bus is about to start.
इदानीं एव एकं यानं गतम् . = A bus left just a few minutes ago.
अहं भवतः पार्श्वे उपविशामि . = Ill sit beside you.
किञ्चित् समञ्जनं कुर्मः . = Let us adjust a bit.
महान् जनसम्मर्दः . = Terrible rush.
परिवर्तं ददातु . = Give me the change.
अग्रे गच्छतु . = Go forward.
कदा वा निर्गच्छति ?. = What time does it start ?
शीघ्रं अवतरतु . = Get off quickly.
अग्रिमं निस्थानं अस्माकं वा ?. = Is the next station ours ?
मल्लेश्वरयानस्य का संख्या ?. = Which bus (Route No.) goes to Malleswaram?
किंसंख्याकं यानं जयनगरं गच्छति ?. = Which bus goes to Jayanagar ?
फलकमपि नास्ति,किमपि नास्ति . = No signboard, nothing.
अये,पादपथे आगच्छतु . = Hey, walk on the footpath.
मल्लेश्वरं गन्तुं कः मार्गः ?. = Which is the way to Malleswaram ?
बहुदूरे अस्ति वा ?. = Is it very far ?
एषः सङ्केतः कुत्र इति जानाति वा ?. = Could you possibly tell me where this address/place is ?
इतः केवलं दशनिमेषाणां गमनम् . = It is just ten minutes walk from here.
यानं न लब्धम् . = Missed the bus.
यानस्य निर्गमनाय इतोऽपि अर्धघण्टा अस्ति . = It is still half an hour before the bus starts.
यानं दशवादने आगच्छति . = The bus arrives at 10 0clock.
पञ्चवादने एकं यानं अस्ति . = There is a bus at 5 0clock.
यानं तदानीं एव आगत्य स्थितम् . = Bus has already arrived at the platform.
आरक्षणं नास्ति . = No reservation, please.
एवमेव अग्रे गच्छन्तु . = Go just along this road.
अत्रैव कुत्रचित् स्यात्,अन्वेषणं कुर्मः . = It will be somewhere here . Let us search for it.
तत्रैव अस्ति . तत्रैव स्यात् . = It is there./It might be there.
अहं न जानामि,अन्यं पृच्छतु . = I dont know, ask someone else, please.
भवान् शीघ्रं न गच्छति चेत् यानं न मिलति . = If you do not walk faster, you will miss the bus.
एषः मार्गः कुत्र गच्छति ?. = Where does this path lead to ?
भवान् आरक्षणं कृतवान् वा ?. = Have you reserved your seat ?
सर्वं स्वीकृतवान् किल ?. = You have taken everything, havent you ?
कृपया सर्वबन्धकं स्वीकरोतु . = Please take your hold-all.
स्यूतम् = the bag.
एतद् = this.
चीटिकाम् = the ticket.
यानस्यूतम् = the air bag.
यानपेटिकाम् = the suitcase.
वनितास्यूतम् .= the vanity bag.
धनविषये जागरूको भवतु . = Be careful with your money.
ततः आगन्तुं एतावान् विलम्बः वा ?. = Such a long time to come here from there ?
एकं अपि यानं न आगतम् . = Not a single bus has come.
षष्टिसंख्याकं यानं गतं वा ?. = Has Route 60 bus gone ?
अहं इदानीं एव आगतवान् . = I have just arrived.
कीदृशः मार्गः अयम् !. = What a road !
७ . प्रवासतः प्रतिनिवर्तनम् = On Arrival
कदा आगतवान् ?= When did you come ?
अद्य प्रातः आगतवान् वा ?= Did you come this morning ?
कथं आसीत् प्रवासः ?= How was the journey ?(cf . my remarks on the heading)
प्रवासे व्यवस्था समीचीना आसीत् वा ?= How were all the arrangements during the tour?
कति दिनानाम् ?= How many days ?
एकाकी गतवान् वा ?= Did you go alone ?
एकाकी किमर्थम् ?परिवारसमेतः गतवान् = . Why alone ? I went with my family.
दिनत्रयं तत्र स्थितवान् . = I stayed there for three days.
मार्गमध्ये अपघातः अभवत् . = There was an accident on the road.
विशेषतया कोऽपि न व्रणितः ?= No one was seriously injured ?
वस्तूनि तावन्ति एव वा ?= Only so much luggage ?
बहुधा श्रान्तः अस्मि भोः . = Very tired, you know.
त्रिचक्रिका किमर्थम् ?= Why rickshaw ?
लोकयानेन गच्छामः . = Lets go by bus.
लोकयानेन = By bus
त्रिचक्रिकायाम् = In a rickshaw
सुखयानेन = By luxury bus
पादाभ्याम् = On foot
सामिसुखयानेन = By semi-luxury bus
संलपन्तः = talking
कः प्रतीक्षते भोः ?= Who waits for ?
त्रिचक्रिकायां एव गच्छामः . = Lets go by rickshaw only.
किमर्थं वृथा व्ययः इति ?= Why waste money unnecessarily ?
बहुकालतः प्रतीक्षां करोमि . = I have been waiting for long.
कदा प्रस्थितः ?= When did you start ?
काशीं रामेश्वरं सर्वं दृष्टवान् वा ?= Have you visited Kashi and Rameshvar ?
कियत् सुन्दरं अस्तीति जानाति वा ?= Do you know how nice it is ?
महद् अद्भुतम् . = Fantastic.
८ . छात्राः = Students
अत्रैव कलाशालायां पठामि . = Studying in a college here.
सिद्धता कथम् अस्ति ?= How is your preparation ?
पाठ्यभागः एव न समाप्तः . = Portions have not been completed.
गणितश्रवणमात्रेण मम शिरोवेदना . = Mathematics is a head-ache to me.
गाढं अभ्यासः वा ?= Studying very hard ?
अद्य किमपि न पठितवान् एव . = Couldnt read much today.
मम अक्षराणि न सुन्दराणि . = My handwriting is not good.
एतां कादम्बरीं पठितवान् वा ?= Have you read this novel ?
बहु सम्यक् अस्ति . = It is very interesting.
बहु पूर्वमेव पठितवान् . = I read it long ago.
शीघ्रं पठित्वा ददामि भोः . = Ill return it early after reading.
अद्य उत्थाने विलम्बः सञ्जातः . = Got up a bit late today.
अहं गृहे एव त्यक्त्वा आगतवान् . = I have left it at home.
अद्य तु विरामः . = Today is a holiday, anyway.
भवतः वर्गशिक्षकः कः ?= Who is your class teacher ?
अद्य समवस्त्रेण गन्तव्यं वा ?= Do we have to go in our uniforms today ?
यावत् शालां गतवान् तावत् घंठा ताडिता . = The bell went by the time I reached school.
श्रीमन्,अन्तः आगच्छामि वा ?= May I come in, sir ?
श्रीमन्,विशेषकक्ष्यां स्वीकरोति वा ?= Are you going to take a special class,sir ?
लेखनीं एकवारं ददाति वा ?= May I borrow your pen ?
टिप्पणीं किञ्चित् ददाति वा ?= Would you kindly lend me your notes ?
ह्यः एव गिरीशः स्वीकृतवान् . = Girish borrowed it yesterday.
अहं तद्दिने वर्गं न आगतवान् आसम् . = I did not attend the class that day.
आगच्छतु भोः,क्रीडामः . = Come on, lets play.
पठनीयं बहु अस्ति भोः . = I have a lot to read, you know.
किं मम पठनीयं नास्ति वा ?= Do you think I dont have anything to read ?
पदवी अशीतितमे वर्षे समापिता वा ?= Did you take your degree in the year 1980 ?
सम्यक् न स्मरामि भोः . = I do not remember exactly.
तिष्ठतु,अहं स्मरामि तत् . = Wait, I know it.
श्वः आरभ्य सहाध्ययनं कुर्मः . = Let us do combined study from tomorrow.
९ . परीक्षा = Examination
परीक्षारम्भः कदा इति ज्ञातः वा ?= Do you know when is the examination going to begin ?
प्रवेशपत्रं स्वीकृतं वा ?= Have you taken the admission ticket ?
परीक्षा अग्रे गता . = The examination is postponed.
वेलापत्रिका आगता वा ?= Has the examination time table come ?
परीक्षा कथं आसीत् ?= How was the exam . ?
प्रश्न पत्रिका किञ्चित् क्लिष्टा आसीत् = The question paper was a bit tough.
अतीव सुलभा आसीत् . = It was very easy.
अहं प्रथमश्रेण्यां उत्तीर्णः . = I have passed in I class.
ह्यः फलितांशः प्रकटितः . = The result was announced yesterday.
अङ्कद्वयेन प्रथमश्रेणी न लब्धा . = I missed I class by two marks.
प्रश्नेषु विकल्पः एव नासीत् . = There was no choice at all.
फलितांशः श्वः ज्ञातः भविष्यति . = The result will be announced tomorrow.
रमेशः उत्तीर्णः वा ?= Has Ramesh passed ?
एकं पत्रं अवशिष्टं इति उक्तवान् . = He has told me that he has to complete one paper yet.
पठितं किमपि न स्मरामि भोः . = Dont remember what I have read, you know.
दशवारं पठितवान्,तथापि न स्मरामि . = I read it ten times, even then I do not remember.
प्रायशः द्वितीयश्रेणी लभ्येत . = Most probably, I will pass in II class.
अस्माकं गणे सर्वेऽपि उत्तीर्णाः . = Everyone passed in our batch.
प्रतिशतं कति अङ्काः प्राप्ताः ?= What is the percentage ?
१० . चलनचित्रम् = Film
मासे कति चित्राणि पश्यति ?= How often do you go to films in a month ?
द्विवारं त्रिवारं वा ?= Twice or three times.
चित्रमन्दिरं पूर्णं आसीत् . = It was house-full.
महान् सम्मर्दः आसीत् . = There was a lot of rush.
चीटिका न लब्धा वा ?= couldnt you get a ticket ?
चित्रं कथं आसीत् ?= How was the film ?
करमुक्तं इति दृष्टवान् . = I just saw that it is tax-free.
कः निर्देशकः ?= Who is the director ?
तर्हि समीचीनं एव स्यात् . = In that case it should be good.
संवादः/कथा समीचीना अस्ति . = The dialogue/story is good.
एतद् द्वितीयवारं पश्यन् अस्मि . = I am seeing it for the second time.
एकमपि चित्रं सम्यक् नास्ति . = Not a single film is good.
परह्यः एव दृष्टवान् अहम् . = I saw it the day before yesterday.
केवलं निस्सारं,जामिता भवति . = Just bogus, terribly boring.
तर्हि किमर्थं द्रष्टव्यम् ?= Why should you see it then ?
मयापि एकवारं द्रष्टव्यम् . = I must see it once myself.
सर्वे मिलित्वा गतवन्तः वा ?= Did you all go together ?
केवलं धनं व्यर्थम् . = Just waste of money.
११ . शिक्षकः = Teacher
भवतः वेतनश्रेणी का ?= What is your scale of pay ?
इदानीं सर्वत्र समाना किल ?= Now it is uniform everywhere, isnt it ?
प्राचार्यस्य आदेशं दृष्टवान् वा ?= Have you seen the Principals memo (orders) ?
अहो!तत्तु सामान्यम् . = Oh!leave it . It is common.
अधिवेतनं लब्धं वा ?= Got your increment ?
लिपिकं दृष्टवान् वा?= Have you seen the clerk ?
एवं चेत् कथं जीवामः ?= How to live in that case ?
महान् कोलाहलः इति श्रुतवान् . = I heard, there was a lot of noise.
पत्रिका पठिता वा ?वेतनं वर्धितम् . = Read the newspaper . A rise in pay is announced.
कदा आरभ्य अन्वयः ?= When does it come into effect ?
इदानीं कक्ष्या अस्ति वा ?= Do you have classes now ?
अद्य कक्ष्यां न स्वीकरोमि,इति सूचयतु . = Tell them, I am not going to take classes today.
प्राचार्यः आगतः वा ?= Has the Principal come ?
अस्मिन् मासे कति विरामः ?= How many holidays (are there) this month ?
परश्वः विरामः अस्ति वा ?= Is there a holiday, the day after ?
प्रश्नपत्रिका सज्जीकृता वा?= Is the question paper ready ?
अस्मिन् वर्षे फलितांशः कथम् ?= How is the result this year ?
एतावन्तः अङ्काः कथं लब्धाः इति ?= How did he manage to get such high marks ?
परीक्षकाणां औदार्यम् . = Examiners large heartedness.
परीक्षा अन्या,योग्यता अन्या != Examination is one thing, ability another.
मौल्यमापनार्थं गच्छति वा ?= Are you going for valuation ?
मौल्यमापनं कुत्र ?= Where is valuation going to be ?
अस्वस्थः अपि आगतवान् . = I am here in spite of being ill.
इदानींतन बालास्तु != The students of the present day !
अये अत्र आगच्छतु != Hey, come here.
गणितस्य अध्यापकः अस्ति वा पश्यतु . = See, if the mathematics teacher is there.
ते तु बालाः किल != After all they are students.
किं भोः सम्यक् पठति किल != You are studying well, arent you ?
संशयः अस्ति चेत् पृच्छन्तु != Ask if you have any doubts !
ज्ञातं किल != Understand !
पुनः एकवारं वदतु . = Beg your pardon (This means please repeat).
एकं अपि गणितं न कृतवान् वा ?= Havent you worked out a single sum ?
एवं चेत् परीक्षायां किं करोति ?= At this rate how are you going to face examination?
सेवकं किञ्चित् आह्वयतु . = Please call the peon.
घण्टा नादिता वा ?= Has the bell gone ?
टिप्पणीं लिखन्तु . = Please take the notes.
एकोऽपि न जानाति वा ?= Does not even one know the answer ?
भवान् ज्ञातवान् वा ?वदतु किञ्चित् . = Have you understood? Come on . Repeat.
अद्य एतावदेव पर्याप्तम् . = Enough for today.
अस्य अनुच्छेदस्य अन्ते समापयामः . = Let us stop at the end of this paragraph.
श्वः एतद् सम्यक् पठित्वा आगन्तव्यम् . = Read this well when you come tomorrow.
गृहे किमपि पठन्ति वा ?= Do you read anything at home ?
किं भोः कोलाहलः . = Whaat is the noise there about ?
ह्यः कियत् पर्यन्तं पाठितवान् ?= Where did we stop yesterday ?
१२ . स्त्रियः = Women
गृहकार्यं सर्वं समाप्तं वा ?= Finished your household work ?
समाप्तप्रायम् . = Yes, finished for all practical purposes.
किं द्वित्रीणि दिनानि न दृष्टा != Not seen for two or three days ?
अहं मातृगृहं गतवती . = I had been to my mothers house.
एषु दिनेषु विमला मिलितवती वा ?= Have you met Vimala recently ?
कार्यालयतः तस्य आगमन समयः एषः . = It is time he comes from the office.
ममापि बहु कार्यं अस्ति . = I have a lot of work to do myself.
अतिथयः आगताः सन्ति . = Guests have come.
किञ्चित् शर्करां ददाति वा ?= Would you kindly lend me some sugar ?
शर्कराम् = sugar
क्षीरम् = milk
काफीचूर्णम् = coffee powder
सुपिष्टम् = wheat flour
पृथुकम् = beaten rice
चालनीम् = sieve
भवतः मातः किं करोति स्म ?= What was your mother doing ?
अद्य प्रातः आरभ्य बहु कार्याणि = Ive had a lot of work since morning.
तेषां पुत्र्याः विवाहः निश्चितः इति श्रुतवान् = Their daughters marriage is fixed, I think.
वरः विदेशे अस्ति . = The bridegroom is in a foreign country.
कन्यायाः कृते किं किं आभरणं दास्यन्ति ?= What jewellery are they going to give the bride ?
मृत्तैलं लब्धं वा ?= Got kerosene ?
मृत्तैलं विक्रीयते इति श्रुतवती . = I heard, they are selling kerosene.
१३ . पाकः = cooking.
पाकः समाप्तः वा ?= Finished cooking ?
अद्य कः पाकः ?= What cooked today ?
भोजनं अभवत् वा ?= Have you had lunch ?
भवत्याः गृहं कश्चिद् आगत इव . = It seems someone has come to your house.
अन्यत् किमपि नास्ति केवलं सारः . = Nothing ewxcept soup.
अस्मत् गृहे एकैकस्य एकैका रुचिः . = In our house every one has his/her different tastes.
१४ . वेषभूषणानि = Dress, jewellery
भवत्याः शाटिका नूतना वा ?= Is your saree new ?
नैव,गतवर्षे एव क्रीतवती = No, it was brought last year.
तथापि नूतनं इव प्रतिभाति = Still it appears to be new.
एतादृशी शाटिका मम समीपे अपि अस्ति . = I have one saree like this.
अहं नूतनशाटिकां क्रीतवती = I have bought a new saree.
अञ्चलः बहु सम्यक् अस्ति . = The border is very beautiful.
इमां कुत्र क्रीतवती ?= Where did you buy this ?
अस्याः शाटिकायाः अनुरूपः चोलः न लब्धः . = I could not get a matching blouse for this saree.
वलयस्य विन्यासः आकर्षकः अस्ति . = The style of the bangles is really attractive.
शाटिकया सा प्रौढा इव दृश्यते . = This saree makes her look taller.
परिणाहः बहु न्यूनः . = Width is less.
अहं अपि एकां क्रेतुं इच्छामि . = I would like to buy one.
बहु सुन्दरं अस्ति किल एतद् ?= It is very good, isnt it ?
भ्वत्याः एतद् युज्यते . = This suits you well.
कियद् दत्तवती . = How much did you pay ?
मुम्बईतः मम अग्रजः आनीतवान् . = Brother brought it from Bombay.
१५ . कार्यालयः = Office
भवान् कति दिनानि विरामं स्वीकरोति ?= How many days of leave are you taking ?
एषु दिनेषु महान् कार्यभारः . = Of late the weight of work is unbearable.
इमां सूचनाफलके स्थापयतु . = Put this up on the notice board.
अत्र हस्तांकनं करोतु . = Sigh here, please.
सः विरामं स्वीकृतवान् . = He is on leave.
अस्मिन् विषये पुनः अपि चिन्तयामि . = I will think about this again.
आगामि सप्ताहे मां पश्यतु . = See me next week.
अस्मिन् विषये अनन्तरं वदामि . = Ill tell you about it later.
एतत् अहं अवश्यं स्मरामि . = Ill certainly remember this.
भवदुक्तं सर्वं ज्ञातवान् भोः . = I have understood what you said.
अत्र तस्य एव सर्वाधिकारः . = He is all in all here.
मम कृते काऽपि दूरवाणी आगता वा ?= Any phone calls for me ?
भवतः कृते दूरवाणी आगता आसीत् . = There was a phone call for you.
भवान् कस्मिन् स्थाने नियुक्तः अस्ति ?= Which post do you occupy in the office ?
एषः सर्वदा आगत्य पीडयति . = He troubles me always.
इदानीं समयः अतीतः . = It is getting late.
कृपया श्वः आगच्छतु . = Come tomorrow,please.
सः आगतवान् इति स्मरामि . = I remember, he came here.
पञ्चवादनपर्यन्तं अत्रैव आसीत् . = He was here till 5-00-
मां आहूतवान् वा ?= Did you call me?
तद् व्यवस्थां अहं करोमि . = I will see to that arrangement.
कार्यालयस्य समाप्तिः कदा ?= When does your office close ?
एतद्विषये श्वः पुनरपि स्मारयतु . = Remind me about this tomorrow.
तं अत्र आगन्तुं सूचयतु . = Ask him to come here.
किमर्थं इदानीं अपि कार्यं न आरब्धम् ?= Why hasnt the work begun ?
अन्येषां उपहासेनैव कालं यापयति . = He spends time criticizing othere.
मया किं करणीयं,वदतु . = Tell me what I should do.
अहं किं करोमि भोः ?= What shall I do ?
अस्तु,परिशीलयामः . = Be it so, let us see.
आगच्छतु,किञ्चित् काफीं पिबामः . = Come, lets have a cup of coffee.
भवान् शीघ्रं प्रत्यागच्छति वा ?= Are you going to be back soon ?
कृपया उपविशतु . = Please, sit down.
पञ्चनिमेषेषु एतद् कृत्वा ददामि . = Ill get it done in five minutes.
अद्य सः अत्र नास्ति किल . = As you know, he is not here today.
सः एकसप्ताहाभ्यन्तरे आगच्छेत् . = He may be back in a weeks time.
१६ . आरोग्यम् = Health
मम आरोग्यं समीचीनं नास्ति . = I am not well.
महती पादवेदना . = Terrible leg pain.
सामान्यतः शिरोवेदना तदा तदा आगच्छति . = Generally I get headache now and then.
किञ्चित् ज्वरः इव . = Feel a little feverish ...
वैद्यं पश्यतु . = Consult a doctor.
मम वमनशङ्का . = I feel like vomitting.
वैद्यस्य निर्देशनं स्वीकरोतु . = Get a doctors advice.
किमर्थं कण्ठः अवरुद्धः ?= Why is there the blocking of the throat ?
अहं अतीव श्रान्तः . = I am very tired.
तस्य आरोग्यं कथं अस्ति ?= How is his health ?
अद्य किञ्चित् उत्तमा (देहस्थितिः ). = A bit better today.
प्रातः आरभ्य लघु शिरोवेदना . = Slight head-ache since morning.
आरोग्यं तावत् सम्यक् नास्ति . = Somehow, my health is not good.
वैद्यं कदा दृष्टवान् ?= When did you see the doctor last ?
उत्साहः एव नास्ति भोः . = Dont feel active, you know.
ह्यः तु स्वस्थः आसीत् . = He was all right yesterday.
किं अद्य अहं भोजनं करोमि वा ?= Shall I have my meals today ?
अद्य ज्वरः कथं अस्ति ?= How is the fever today ?
यथावत् . = As usual.
तदा तदा उदरवेदना पीडयति किल ?= You get stomach-ache now and then, dont you ?
ज्वरपीडितः वा?कदा आरभ्य ?= Fever ? Since when ?
अय्यो!रक्तं स्रवति != Oh! Blood is coming out.
अपघाते सः जीवितः इत्येव विशेषः . = It is a miracle, he survived the accident.
सः चिकित्सालये प्रवेशितः . = He is admitted to the hospital.
मम शिरः भ्रमति इव . = I feel giddy.
१७ . समयः = Time
कः समयः ?= What is the time?
सपादचतुर्वादनम् . = A quarter past four.
द्विवादने अवश्यं गन्तव्यं अस्ति . = I must leave at 2-
त्रिवादने एकं यानं अस्ति . = There is a bus at three.
पादोन षड्वादने भवान् मिलति वा ?= Will you meet at a quarter to six ?
सार्धपञ्चवादने अहं गृहे तिष्ठामि . = I will be at home at half past five.
पञ्च ऊन दशवादने मम घटी स्थगिता . = My watch stoppped at 5 minutes to 10 oclock.
संस्कृतवार्ताप्रसारः सायं दशाधिक षड्वादने . = The Sanskrit news bulletin is at 6-10 p.m.
सार्धं द्विघण्टात्मकः कार्यक्रमः . = It is a programme for two and a half hours.
षड्वादनपर्यन्तं तत्र किं करोति ?= What are you going to do there till six oclock ?
शाला दशवादनतः किल ?= The school is from 10 oclock, isnt it ?
इतोऽपि यथेष्टं समयः अस्ति . = Still there is a lot of time.
सः षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति . = He does Yogasana from 6 A.M . to 7 A.M.
मम घटी निमेषद्वयं अग्रे सरति . = My watch goes two minutes fast every day.
समये आगच्छतु . = Come in time.
अरे!दशवादनम् != Oh! it is 10 oclock.
भवतः आकाशवाणी समयः वा?= Is yours the radio time ?
इदानीं यथार्थः समयः कः ?= What is the exact time now ?
किमर्थं एतावान् विलम्बः ?= Why (are you) so late ?
इदानीं भवतः समयावकाशः अस्ति वा ?= Are you free now? (Can you spare a few minutes for me ?)
रविवासरे कः दिनाङ्कः ?= What date is Sunday ?
रविवासरे चतुर्विंशतितमदिनाङ्कः ?= Sunday is 24th ?
पञ्चदशदिनाङ्के कः वासरः ?= Which/What day is 15th ?
भवतः शाला कदा आरब्धा ?= When did your school begin ?
जून प्रथम दिनाङ्के . = On 1st June.
भवतः जन्मदिनाङ्कः कः ?= Which/What is your date of birth ?
अष्टादश दश षडशीतिः . = 18-10-63 (Should be 18-10-86).
१८ . दूरवाणी = Telephone
हरिः ओम् . = Hello
प्रतिष्ठानस्य कार्यालयः वा ?= Is it the Pratishthana office ?
राजुमहोदयस्य गृहं वा ?= Is it Mr . Rajus house ?
एषा षट् शून्य शून्य शून्य चत्वारि वा ?= Is it 60004 ?
कः तत्र ?(कः संभाषणं करोति ?)= Who is speaking, please ?
अहं कृष्णः . = I am Krishna, speaking.
कः अपेक्षितः ?= Whom do you want to speak to ?
कृष्णः गृहे अस्ति वा ?= Is Mr . Krishna at home ?
क्षम्यतां,सः गृहे नास्ति . = Sorry, he is not at home.
कृपया एतत् कृष्णं सूचयतु . = Would you kindly pass this on to Mr . Krishna ?
कृपया तं आह्वयति वा ?= Would you please call him ?
अस्तु,एकक्षणं तिष्ठतु . = Yes, wait a minute, please.
कः दूरवाणीं कृतवान् इति वदामि ?= Who shall I say phoned him up ?
सः श्वः आगच्छेत् . = He may be back, tomorrow.
अस्तु,श्वः पुनः दूरवाणीं करोमि . = O.K . I will ring him up again tomorrow.
किं,इदानीमपि न आगतवान् वा ?= What ? Hasnt he come yet ?
तस्य दूरवाणी संख्या का ?= What is his phone number ?
गृहे मिलेत् वा ?= Will he be available at home ?
मद्रासतः इदानीमपि न आगतवान् . = Not yet returned from Madras.
अवश्यं सूचयामि . = Certainly I will inform him.
स्थापयामि वा ?= Shall I put down the phone ? (Shall I hang up ?).
किञ्चित् उच्चैः वदतु . = Speak louder, please.
१९ . वाणिज्यम् = Commerce
रूप्यकस्य कति फलानि ?= How many a rupee ?
एकैकस्य पञ्चविंशतिपैसाः . = 25 paise each, please.
रूप्यकस्य पञ्च . = Five per rupee.
शुद्धं नवनीतं ददातु . = Give me good butter, please.
पुस्तकानि समाप्तानि . = The book is out of stock.
एतद् पुस्तकं नास्ति वा ?= Dont you have this book ?
तण्डुलः सम्यक् नास्ति . = The rice is not good.
दशपैसाः न्यूनाः सन्ति . = The amount is short by 10 paise.
मम व्यवहारं समापयतु . = Please settle my account.
भवतः परीवृत्तिः कथमस्ति ?= How is your business ?
तत्र गमनं मास्तु भोः,सः बहुमूल्यं वदति . = He is very expensive, let us not go to him.
कृपया देयकं / प्राप्तिपत्रं ददातु . = Please give me the bill/receipt.
विंशतिरूप्यकाणि वा ?तर्हि मास्तु . = Is it Rs.20 ? Then I dont want it.
आवश्यकं आसीत्,परन्तु भवान् मूल्यं अधिकं वदति . = I wanted it, but you quote a very high price.
भवतः कृते इति न्यूनमूल्येन ददामि . = I am selling it at a lower price to you.
पार्श्वापणे पृच्छतु . = Please enquire at the next shop.
एतावत् न्यूनमूल्येन अन्यत्र कुत्रापि न मिलति . = You cant get it cheaper anywhere else.
एकपञ्चाशत् रू/ स्वीकुर्वन्तु . = Please take Rs.51-
नैव,तत्र विवादः एव नास्ति . = No, no haggling, please.
एतद् वस्त्रं कुत्र क्रीतवन्तः ?= Where did you buy this cloth ?
भवान् अधिकं (मूल्यं)दत्तवान् . = You paid more.
किलो कृते कति ?= How much is this per kilo ?
फेनकस्य मूल्यं कियत् ?= How much does this soap cost ?
किलो दालस्य कृते कति रूप्यकाणि ?= How much is the pulse per kilo ?
दन्तफेनः अस्ति वा ?= Have got toothpaste ?
तिष्ठतु,ददामि . = Please wait, Ill give you.
कति/कियत् ददामि ?= How much shall I give you ?
इदानीं मास्तु,अनन्तरं आगच्छामि . = Not now, I will come later.
एतद् समीचीनं अस्ति वा ?= Is it good ?
२० . वातावरणम् = Weather
वायुः एव नास्ति . = The wind is still.
आरात्रि वृष्टिः आसीत् . = It rained for the whole night.
घर्मो घर्मः . = Very hot indeed.
किं भोः !क्लिन्नः अस्ति != You have perspired all over.
प्रातः आरभ्य एवमेव वृष्टिः . = It has been raining like this since morning.
अद्य वृष्टिः भवति वा ?= Is it going to rain today ?
किं एषा उष्णता भोः != What sultry weather, you know.
शैत्यं अहो शैत्यं != It is very cold indeed.
महती वृष्टिः . = Heavy rain.
वृष्टितः एव भयम् . = I am frightened only of the rain.
दिने दिने शीतं अधिकं भवति . = The cold is increasing day by day.
यद्वा तद्वा वृष्टिः . = Too much rain/It is raining cats and dogs.
वायुरहो वायुः . = Too much of wind/Too windy.
अत्र वायुः सुष्ठु वाति . = Nice breeze here.
बहु औष्ण्यं किल ?= It is very hot, isnt it ?
अद्य किञ्चित् शैत्यं अधिकम् . = It is a bit colder today.
भवतः प्रदेशे वृष्टिः कथम् ?= Have you had rains in your place ?
कुत्रापि वृष्टिः नास्ति . = No sign of rain anywhere.
२१ . गृहसम्भाषणम् = Domestic
अद्य प्रातराशः का ?= What have you cooked for breakfast ?
अद्य पाको नाम पाकः (अद्यतन पाकः बहु सम्यक् अस्ति . = Todays cooking is really grand.
किमर्थं अद्य रुचिरेव नास्ति . = Why dishes are not tasty today ?
रुचिकरं नास्ति वा ?= Arent they tasty, really ?
लवणं एव नास्ति . = No salt at all.
व्यञ्जने लवणं न्यूनम् . = This curry has no salt at all.
अन्नं बहु उष्णम् . = The rice is very hot.
तद् किञ्चित् परिवेषयतु . = Serve the other dish a bit more.
जलं पूरयतु . = Get me some water, please.
एकचषकं जलं आनयतु . = Get me a glass of water, please.
किञ्चित् व्यञ्जनं परिवेषयतु . = Get me some dry curry.
अन्नं = rice
क्वथितम् = Sambar
तक्रम् = buttermilk
व्यञ्जनम् = dry curry
सारः = soup
उपदंशम् = pickle
तैलम् = oil
उपसेचनम् = Chutney
लवणम् = salt
घृतम् = ghee
पर्पटम् = Pappadam
किं,न रोचते वा ?= Arent they tasty ? Dont you like them ?
लवणं किञ्चित् अधिकम् = A bit too much of salt in it.
किं अम्ब,प्रतिदिनं सारः एव ?= Dear, why, only soup/Rasam every day ?
अद्य अपि सारः एव ?= Just soup today also ?
किं अम्ब !कियत् परिवेषितवती ?= Dear, you have served a bit too much.
कियद् अस्ति तत् ?= Oh ! That is not much.
अम्ब !किञ्चित् उपदंशं परिवेषयतु . = Mummy, get me some pickles, please.
अम्ब !अद्य कदा वा भोजनम् ?= Mummy, What time are you going to serve lunch/dinner today ?
सावधानं परिवेषयतु . = Serve slowly, please.
अद्य भूरि भोजनम् . = Today we have a grand meal.
अधिकं जलं मा पिबतु,शीतं भवति . = Dont drink too much water . You will catch a cold.
अनेन व्यञ्जनं करणीयं आसीत् . = You should have cooked dry curry with this vegetable.
तेमनं न परिवेषितवती एव . = You have not served curd sambar at all.
पुनः एकवारं पायसं परिवेषयतु . = May I have a second helping with payasam ?
उत्तिष्ठतु,भोजनं कुर्मः . = Get ready, please, let us have meals.
इदमिदानीं भोजनं समाप्तम् . = I have just had meals, thank you.
अहं रोटिकां न खादामि . = I do not eat chapathis.
रोटिका अस्ति चेत् समीचीनं (अभविष्यत्). = It would have been wonderful had there been chapatis.
किं भोः,भोजनमेव न करोति ?= Why dear, you do not eat anything ?
अन्ने केवलं पाषाणाः . = A lot of stones in the rice.
दध्यन्नं परिवेषयामि वा ?= Shall I serve curd-rice ?
तक्रं न इच्छति वा ?= Dont you want buttermilk ?
भोजनं सम्यक् करोति चेत् क्रीडनकं ददामि . = Eat well, please . I will give a doll.
तेषां गृहे किं खादितवान् ?= What did you eat in their house ?
शीघ्रं भोजनं करोतु,विलम्बः अभवत् . = It is getting late, eat quickly.
इदानीं मास्तु,अनन्तरं ददामि . = Not now, I will give it to you later.
किञ्चित् वा दध्यन्नस्य भोजनं करोतु . = Eat at least a little curd-rice.
अद्य मधुरभक्ष्यं किम् ?= What sweets have you prepared today ?
बहु मधुरम् . = It is too sweet.
अम्ब,बुबुक्षा भवति . = Mummy, I am hungry.
मम तु इदानीं अतीव बुबुक्षा . = I am very hungry.
भोजनं सिद्धं वा ?शालायाः विलम्बः भवति . = Have you finished eating? It is getting late for school.
भोजनं कृत्वा निद्रां करोतु . = Have a nap after meals.
अस्तु,परिवेषणं करोमि . = Yes, I am going to serve in a minute.
किञ्चित् स्वीकरोतु . = Take a little.
मास्तु,अधिकं भवति . = No, thank you . It is too much for me.
परिवेषणार्थं कियान् विलम्बः ?= Dear, how long do you take to serve ?
यावद् रोचते तावदेव स्वीकरोतु . = Eat only what you can.
सर्वे मिलित्वा भोजनं कुर्मः . = Let us eat together.
अय्यो,घृतं एव न परिवेषितवती अहम् . = My goodness ! I havent served ghee at all.
भवता वक्तव्यं आसीत् किल ?= Shouldnt you have told me that ?
कियान् विलम्बः भोः,शीघ्रं आगच्छतु . = How long do you take,come quickly.
सः इदानीं अपि न आगतवान् वा ?= Hasnt he come yet ?
स्थालिका स्थापिता वा ?= Have you laid the table ? (Have you set the plates for meals ?)
स्थालिका एव न स्थापिता != You havent laid the table yet !
लवणं किञ्चित् योजयतु,सम्यक् भवति . = Add some salt . It will be O.K.
हस्तं प्रक्षाल्य उपविशतु . = Wash (the hand ) before you come for meals.
मास्तु,यथेष्टं अभवत् . = No, thank you, I have had enough.
सङ्कोचः मास्तु,आवश्यकं चेत् पृच्छतु . = Please feel at home . Ask for anything you want.
न,मम सङ्कोचः एव नास्ति . = No, I do not have any reservations.
किञ्चित् . = A little more.
अम्ब,अत्र किञ्चित् परिवेषयतु . = Mummy, get me some more.
कः लवणं आवश्यकं इति उक्तवान् ?= Who has asked for salt ?
क्वथितापेक्षया सारः एव रुचिकरः . = The soup is tastier than the sambar.
एकैकशः वदतु नाम . = Speak one at a time, please.
विना शब्दं भोजनं कुर्वन्तु नाम . = Eat without making too much noise.
प्रथमः कः ?सः वा भवान् वा ?= Who is first ? He or you ?
पाकः शीतलं भवति . = Dishes are getting colder.
पाकः तदानीं एव सिद्धः . = Lunch/Dinner is ready.
व्याघरणं कृतं चेत् पाकः सिद्धः . = Everything is ready . I have to season the curry, that is all.(?)
शाकः नास्ति,अहं किं करोमि ?= No vegetables, what can I do ?
भवती पक्तुं एव न जानाति अम्ब != Mummy, you do not know how to cook.
ह्यस्तनं व्यञ्जनं कियत् रुचिकरं आसीत् != How tasty was yesterdays dry curry !
कतिवारं उक्तवान् एतद् मह्यं न रोचते इति ?= How many times did I tell you that I dont like it.
तथा चेत् श्वः भवान् एव पाकं करोतु . = In that case you cook the food yourself tomorrow.
अस्य रुचिं पश्यतु . = Taste this, please.
क्षीरं दूषितम् .= Milk has become sour.
तूष्णीं भोजनं करोतु वा ?= Will you eat without comments ?
पुनः पुनः चर्वणं कृत्वा खादतु . = Chew the food well before you swallow it.
परिवेषणं कृतं,शीघ्रं आगच्छतु . = Food is already served . Come quickly.
भवान् किमपि न खादितवान् ?= You havent eaten anything.
पुनः परिवेषयतु . = Serve again.
२२ . पितरः पुत्राः च = Fathers/sons/mothers
एतावत्पर्यन्तं कुत्र गतवान् ?= Where had you been so long ?
कुत्रापि न,अत्रैव आसम् . = I was just here.
पठनं किमपि नास्ति वा ?= Nothing to read ? (Dont you have anything to read ?)
वक्ता प्रष्टा कोऽपि नास्ति वा ?= Is there no one to keep you under check ?
सहस्रवारं उक्तं,श्रुतवान् वा ?= I told you a thousand times . Did you listen to me ?
मम गृहपाठः बहु अस्ति . = I have a lot of homework to do.
अद्य एव शुल्कं दातव्यं अस्ति . = I have to pay the fees right today.
अन्तिमदिनाङ्कः कदा ?= Which is the last date for payment of fees ?
अद्य एव दातव्यं वा ?= Have to pay it right today ?
किं,अद्य दातव्यं वा ?= What, do we have to pay it today ?
अम्ब,एकं नवीनं युतकं आवश्यकम् . = Mummy, I would like to have a new shirt.
गोविन्द,आपणं गत्वा आगच्छति वा ?= Govind, will you go to the shop to get something ?
अम्ब,वेणीबन्धं करोतु,शालायाः विलम्बः भवति . = Mummy, twine my plait, it is getting late for school.
कः समयः इति जानाति वा ?= Do you know what time it is now ?
किमर्थं विलम्बः ?= Why are you late ?
पितरं एकवारं आह्वयतु . = Please ask daddy to come here.
भवतः कृते कथनापेक्षया स्वयं करणं वरम् . = Better do the work myself rather than asking you to do it.
भवती अनन्तरं उपविशतु . = You sit down a little later.
तस्य कृते चत्वारि दत्तवती,मम कृते तु त्रीणि एव != You gave him four, only three to me.
सर्वं भवान् एव खादितवान् वा ?= Have you eaten everything yourself ?
एकं कार्यं कतिवारं वक्तव्यम् ?= How often should I tell you about that ?
कुत्रापि स्थापयति,अनन्तरं मां पृच्छति . = You misplace it somewhere and come and ask me.
भोजनसमये आह्वयामि,इदानीं गच्छतु . = I will call you during meal time, off you go now.
तेन सह न गच्छतु इति दशवारं उक्तवती . = I have asked you ten times not to go in his company.
पार्श्वगृहं गत्वा पत्रिकां आनयतु . = Get me the newspaper from our neighbour.
अहं सर्वं व्यवस्थितं स्थापयितुं,सः व्यस्तं कर्तुम् . = I keep things in order and he throws everything away.
अम्ब,किञ्चित् सीवनं करोतु . = Mummy, stitch this up, please.
कृपया एतद् बहिः क्षिपतु . = Please, throw this away.
शाकं किञ्चित् कर्तयित्वा ददातु . = Cut the vegetables, please.
एकवारं एव सर्वं वदतु भवती . = Tell me everything at one go.
भवान् धीमान्/कुशलः बालः . = You are a good boy.
अम्ब,अत्र किञ्चित् वेदना अस्ति . = Mummy, it pains me here.
निद्रां करोतु,सम्यक् भविष्यति . = Sleep well, you will be all right.
रात्रौ कषायं करोमि . = Ill make some concoction (medicine) at night.
पीत्वा शयनं करोतु . = You may drink it and then sleep.
इदानीं गत्वा किञ्चित् पठतु . = Go and read now.
किं,इदानीम् एव निद्रा वा ?= What ! feeling sleepy so early ?
गणिते दश अङ्काः एव इति स्मरति वा ?= Do you remember, you have secured only 10 marks in Mathematics ?
अम्ब,तान् अन्यत्र पठितुं वदतु . = Mummy, ask them to read in separate rooms.
एतावत् धनं न पर्याप्तम् . = This much money is not enough.
शिरसि तैलसमुक्षणं करोतु . = Please apply oil to my head.
निद्रया आन्दोलनं करोति,पश्यतु . = See, he is dozing.
शिशुः रोदिति . = The child is crying.
संमार्जनं कृतवती वा ?= Have you swept the floor ?
इदानीं अपि रङ्गवल्लीं न लिखितवती वा?= Havent you yet drawn designs in front of the house ?
कतिवारं वक्तव्यम् ?= How often should I tell you ?
कुत्र गतवान् ?गृहे नास्ति वा ?= Where has he gone ? Isnt he at home ?
प्रत्युत्तरं न वदतु . = Dont answer back.
उक्तं न श्रुतवान् वा ?= Havent you listened to what I told you ?
अद्यतन पत्रिकां ददातु . = Give me todays newspaper.
सः आगतवान्,एषः प्रस्थितवान् . = He has arrived and this fellow has started/departed.
कटं प्रसारयतु . = Spread the mat.
रजकः वस्त्रं नीतवान् वा ?= Has the washerman taken the clothes?
वस्त्राणि शुष्कयितुं प्रसारयतु . = Spread the clothes for drying.
गत्वा शयनं करोतु . = Go to bed and sleep.
एकं आसन्दं आनयतु . = Bring me a chair.
इदानीम् अपि निद्रा न आगता वा ?= Havent you slept yet ?
पश्यतु,कः शब्दं करोति ?= see, who is making that noise ?
किमिदं,सर्वत्र अवकरः ?= What is this ? It is dirty everywhere.
द्वारं पिदधातु (द्वारपिधानं करोतु). = Close the door, please.
एतद् किञ्चित्कालं गृह्णातु . = Hold it for some time.
मध्ये सम्भाषणं न करोतु . = Dont butt in when I speak.
कोलाहलं मा करोतु . = Dont make noise, be quiet.
दीपान् ज्वालयतु . = Put on the lights, please.
दीपान् निर्वापयतु . = Put off the lights, please.
व्यजनं चालयतु . = Put on the fan,please.
बहिः अन्धकारः,करदीपं गृहीत्वा गच्छतु . = It is dark outside, take the torch with you.
अवहितमनसा करणीयम् . = Do it with some interest, please.
श्रद्धया करणीयम् . = Do it with your heart in it, please.
तं यानं आरोप्य आगच्छतु . = Please see him on to the bus.
पाणिपादं प्रक्षालयतु . = Have a wash,please (Wash your hands and feet).
कुड्मान् योजयतु . = Button your shirt, please.
आरोग्यं निर्लक्ष्य मा पठतु . = Dont read too much and spoil your health.
इतः परं एवं न कर्तव्यम् . = Dont do this again.
द्राविडप्राणायामेन न वदतु,साक्षात् वदतु . = Dont go on beating about the bush, speak plainly.
सम्यक् दन्तधावनं करोतु . = Brush your teeth well.
विना कारणं कुप्यति . = You get angry and shout unnecessarily.
वृथा कालहरणं करोति . = You are wasting time.
मां न कोपयतु . = Dont enrage me.
हठं मा करोतु . = Dont be arrogant.
किमर्थं भवान् क्षुभ्यति ?= Why are you shouting ?
प्रथमं शिरोमार्जनं करोतु . = Dry your hair first.
आर्द्रवस्त्रं न धारयतु . = Dont put on wet clothes.
शीघ्रं स्नानं कृत्वा आगच्छतु . = Have your bath quickly.
भाण्डे जलं अस्ति वा ?= Is there water in the barrel ?
आकाशवाणीं चालयतु . = Put on the radio, please.
विविधभारतीं योजयतु . = Switch on to Vividhabharathi, please.
वार्ता समाप्ता वा ?= Is the news over ?
२३ . मातापितरः = Parents
अद्य किञ्चित्पूर्वं आगच्छन्ति वा ?= Will you come back home a bit early today, dear ?
किमर्थं ?कः विशेषः ?= Why? anything special ?
सायं आगमनसमये शाकं आनयन्ति वा ?= Bring home some leafy vegetable, will you ?
रविवासरे तान् आह्वयामः वा ?= Shall we invite them on Sunday ?
बालिका किमपि आवश्यकं इति वदति स्म . = The girl was asking for something.
अवश्यं स्मृत्वा आनयन्तु . = Please bring it without fail.
किमर्थं प्रतिदिनं विलम्बेन आगच्छन्ति ?= Why do you come late everyday ?
कस्मिन् समये आगच्छन्ति अद्य ?= What time will you be back today ?
कुञ्चिकां पार्श्वगृहे दत्वा गच्छामि . = I will leave the key with our neighbours.
किमिति पदे पदे आह्वयन्ति ?= Why are you calling me again and again ?
सर्वं तत्रैव अस्ति,किञ्चित् पश्यन्तु . = Everything is there . Look for them a bit more carefully, please.
भोजनार्थं कोऽपि विशेषः ?= Any special arrangement for meals ?
अद्य अस्माकं कृते काफी अस्ति वा ?= Is there going to be some coffee for us ?
इदानीम् अपि स्नानं न कृतम् ?= No bath yet ?
भवन्तः किल मास्तु इति उक्तवन्तः . = It is you who said you did not want it.
समये एकमपि/किमपि न मिलति . = You do not get anything when you need it badly.
वेतनं लब्धं वा ?= Got your salary ?
क्षीरार्थं अद्य एव दातव्यं अस्ति . = We have to pay the milk-man today.
ते सर्वदा कलहं कुर्वन्ति . = They always quarrel.
तथा किमर्थं वदति ?= Why do you say so ?
तत्र अस्ति वा नास्ति वा इति प्रथमं एव द्रष्टव्यम् . = You have to see first if it is there or not.
अहं कार्यालयं गच्छामि . = I am going to my office.
अस्य जतुलेपं कारयन्तु . = Get this vessel gilted.
मार्गे सौचिकं विचार्य गच्छन्तु . = Look up the tailor on your way.
२४ . सुताः = Children
मम लेखनीं स्वीकृतवान् वा ?= Have you taken my pen ?
पिता अस्ति,तूष्णीं उपविशन्तु . = Daddy is in, be quiet.
कृपया मनसि पठतु . = Read silently, please.
भगिनि,मम कृते गणितं पाठयति वा ?= Sister dear, will you teach me mathematics ?
मम शिक्षकः एवं एव पाठितवान् .= My teacher has taught one just this way.
भवतः लेखनी कुत्र ?= Where is your pen ?
मम छत्रं भवान् किमर्थं स्वीकृतवान् ?= Why did you take my umbrella ?
तस्य कृते किमर्थं दत्तवान् ?= Why did you give it to him ?
तत्कारणतः इदानीं अनुभवतु . = Now you suffer on account of that.
न,अहं पितरं सूचयामि . = No, I am going to tell daddy.
पठनं नास्ति,किमपि नास्ति,केवलं अटति . = Doesnt read at all, just roams about.
भवतः सर्वं अहं जानामि . = I know all your secrets.
भवती बहु पठति,जानामि . = You read a lot,I know.
अद्य भवतः मित्रं मार्गे मिलितः . = I met your friend on the way.
भवतः मित्रं अहं मिलितवान् = I met your friend.
सः किमपि उक्तवान् वा ?= Did he say anything ?
परीक्षा कदा इति स्मरति किल ?= You remember when your examination commences, dont you ?
रमेशः भवन्तं आह्वयति . = Ramesh is calling ypou.
पश्यतु,नासिका स्रवति . = Look, you have a running nose.
नासिकां स्वच्छं कृत्वा आगच्छतु . = Clean your nose, will you ?
वक्तव्यं आसीत्,करोमि स्म . = You should have told me, I would have done it.
अङ्कन्या मास्तु,लेखन्या लिखतु . = Write with your pen, not with a pencil.
तिष्ठतु,युतकं परिवर्त्य आगच्छामि . = Wait, I will just change the shirt.
एतद् युतकं बहु सम्पृक्तम् . = This shirt is a bit too small.
अपरं युतकं एवं नास्ति . = The other shirt is not so.
२५ . सङ्कीर्ण वाक्यानि = Miscellaneous sentences
उच्चत्या उभावपि समानौ . = Both are of the same height.
अस्माकं गृहे सर्वे अस्वस्थाः . = Everyone is ill in my house.
मशको मशकः != Too many mosquitoes.
मत्कुणो मत्कुणः . = Too many bugs.
मशकजालः कुत्र ?= Where is the mosquito net ?
अन्तः कोऽपि नास्ति वा ?= Isnt there any one at home ?
दूषितः कालः . = Times have changed for the worse.
कर्मकराः एव दुर्लभाः . = You dont get labourers at all.
महती घोरिका भोः महारावस्य . = This big fellow snores loudly.
२६ . अतिथिः = Guests
पानीयं किं ददामि ?= What would you like to have for a drink ?
तर्हि पानकं आनयामि . = O.K . I will bring juice.
भवान् काफीं पिबति उत चायम् ?= Do you prefer coffee or tea ?
किञ्चित् विश्रान्तिं अनुभवतु . = Have some rest, please.
अद्यैव गन्तव्यं वा ?= Do you have to leave right now ?
भोजनान्तरं गच्छतु . = Go after lunch.
दिनद्वयं तिष्ठतु भोः . = Stay for two days.
रात्रौ निद्रा सम्यक् आसीत् . = I had sound sleep last night.
रात्रौ निद्रा एव नास्ति भोः . = I did not have even a wink of sleep last night.
बहिः गतवान्,इदानीं आगच्छति . = He has gone out, will be back in a few minutes.
२७ . शुभाशयाः = Greetings
दीपावली शुभाशयाः . = Wish you a happy Deepavali.
युगादि शुभाशयाः . = Wish you a happy New Year.
मकरसङ्क्रमणस्य/पोङ्गल् शुभाशयाः . = Wish you a happy Sankranti/Pongal.
नववर्षस्य शुभाशयाः . = Hearty greetings for a happy New Year.
नववर्षं नवचैतन्यं ददातु . = Let the new year bring a new life.
भवतः वैवाहिकजीवनं शुभमयं भवतु . = Wish you a very happy married life.
नवदम्पत्योः वैवाहिकजीवनं सुमधुरं भूयात् . = Wish the couple a very happy married life.
सफलतायै अभिनन्दनम् . = Hearty congratulations on your success.
भवदीयः समारम्भः यशस्वी भवतु . = Wish the function a grand success.
शतं जीव शरदो वर्धमानाः . = May you live for one hundred years.
शुभाः ते पन्थानः . = Good bye (God be with you)
इति The End
Please send corrections to S . V . Ganesan (deepa@tiac.net) or
to C . S . Raghavendra (csr@wipinfo.soft.net).
The book sa.nskR^ita-vyavahAra-sAhasrI is published and copyrighted by Pallava Prakashan,
Bangalore, India . For more details contact Aksharam, 8th Cross,
Girinagar, Bangalore 560 085 INDIA Ph: 080-6613052, 080-6617276
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:(sanskrit at cheerful dot c om)