पूर्वम्:
अनन्तरम्: १।१।२
 
प्रथमावृत्तिः

सूत्रम्॥ वृद्धिरादैच्॥ १।१।१

पदच्छेदः॥ वृद्धिः १।१ आदैच् १।१

समासः॥

आत् च ऐच् च आदैच्, समाहारद्वन्द्वसमासः॥

अर्थः॥

आत् = आ, ऐच् = ऐ, औ। आ ऐ औ इति एतेषां वर्णाणां वृद्धिसंज्ञा भवति॥

उदाहरणम्॥

भागः, त्यागः, यागः॥ नायकः, चायकः, पावकः, स्तावकः, कारकः, हारकः, पाठकः, पाचकः॥ शालायां भवः = शालीयः, मालीयः॥ उपगोरपत्यम् = औपगवः, औपमन्यवः॥ ऐतिकायनः, आश्वलायनः, आरण्यः॥ अचैषीत्, अनैषीत्, अलावीत्, अपावीत्, अकार्षीत्, अहार्षीत्, अपाठीत्॥
व्याख्या (काशिका)
वृद्धिशब्दः संज्ञात्वेन विधीयते, प्रत्येकम् आदैचां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च। तपरकरणम् ऐजर्थम् तादपि परः तपरः इति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्ग-निवृत्तये। आश्वलायनः। ऐतिकायनः। औपगवः। औपमन्यवः। शालीयः। मालीयः। वृद्धिप्रदेशाः -- {सिचि वृद्धिः परस्मैपदेषु (७।२।१)} इत्येवम् आदयः॥
काशिका-वृत्तिः
वृद्धिरादैच् १।१।१

वृद्धिशब्दः संज्ञात्वेन विधीयते, प्रत्येकम् आदैचां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च। तपरकरणम् ऐजर्थम् तादपि परः तपरः इति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्ग। निवृत्तये। आश्वलायनः। ऐतिकायनः। औपगवः। औपमन्यवः। शालीयः। मालीयः। वृद्धिप्रदेशाः सिचि वृद्धिः परस्मैपदेषु ७।२।१ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
वृद्धिरादैच् ३२, १।१।१

आदैच्च वृद्धिसंज्ञः स्यात्॥
न्यासः
वृद्धिरादैच् , १।१।१

वृद्धिः,आत् ऐच्()- इति केचित् त्रिपदमिदं सूत्रं वर्णयन्ति। अन्ये तु, आच्च, ऐच्च् इति आदैजिति समाहारे द्वन्दोऽयमिति मत्वा वृद्धिः, आदैच् इति द्विपदम्। इतरेतरयोगे हि बहुत्वाद्बहुवचनं स्यात्। ननु च समाहारेऽपि "द्वन्द्वाच्चुदषहान्ता- त्"५।४।१०६इति टच् समासान्तः स्यात्; समासान्तविधेरनित्यत्वान्न भविष्यति। अनित्यत्वं षष्ठे ज्ञापयिष्यते। अथ "चोः कुः" (८।२।३०) इति कुत्वं कस्मान्न भवति? "अय- स्मयादीनि च्छन्दसि" १।४।२० इति भसञ्ज्ञकत्वात्। आदिशब्दस्य प्रकारवाचित्वादैच्छ- ब्दोऽयमयस्मयादिषु द्रष्टव्यः। ननु तत्र च्छन्दसीत्युच्यते, न चेदं छन्दः, तत्कुतो भसञ्ज्ञा? "छन्दोवत् सूत्राणि भवन्ति" इत्यदोषः। इहेदं सूत्रमनर्थकं वा स्याद्यथाकथञ्चिदुदात्तादिवचनवत्? साध्वनुशासनार्थवा, वृद्धिशब्दस्यादैचाञ्चानेन साधुत्वमाख्यायत इति? प्रयोगनियमार्थं वा, आदैच पर एव वृद्धिशब्दः प्रयोक्तव्य इति? आदेशार्थवा, आदैचां वृद्धिशब्द आदेशो भवति ते वा तस्येति? आगमागमिसम्बन्धार्थं वा, आदैचां वृद्धिशब्द आगमो भवति, ते वा तस्येति? विशेषणविशेष्यभावप्रसिद्ध्यर्थं वा, आदैचां वृद्धिशब्दो विशेषणम्, ते वा, तस्येति?एकविभक्तिकत्वं ह्रत्र दृष्टम्, दृष्टश्चैकविभक्तिकयोर्विशेषणविशेष्यभावः, तद्यथा नीलमुत्पलमिति; सञ्ज्ञासञ्ज्ञिसम्बन्धार्थं वा? दृश्यते हि सोऽप्येकविभक्तिकयोः, तद्यथा "अयं पनसः" इति? तत्र तावदाद्यः पक्षो नोपपद्यते। सगषिगतज्ञानातिशयो ह्राचार्यः परहितप्रतिपन्नः समाहितचेताः शिष्याणां कृतरक्षासंविधानो मङ्गलपूर्वकं महता प्रयत्नेन सूत्राणि प्रणीतवान्। तत्राशक्यमेकेन वर्णनाप्यनर्थकेन भवितुम, किं पुनरियता सूत्रप्रबन्धेन!नापि शक्यं वृद्धिशब्दस्यादैचां च साधुत्वमनेन विधीयत इति विज्ञातुम्, लक्षणान्तरेण विहितत्वात् तेषां साधुत्वस्य। तथा हि वृद्धिशब्दोऽयम- विशेषेणचोपदिष्टः। "वृधु वृद्धौ" (धा।पा।७५९) इत्यतः क्तिन्प्रत्ययः "स्त्रियां क्तिन्"३।३।९४ इति, "झषस्तथोर्धोऽधः"८।२।४० इति धत्वम्, "झलां जश् झशि" (८।४। ५३)इति धकारस्य दकारः। आदैचोऽप्यक्षरसमाम्नाय उपदेशात्। ऐचोऽक्षरसमाम्नाय उपदेशः, नाकारस्येति चेत्? अवर्णजातेरुपदेशात् सोऽपि गृह्रत इत्यदोषः। अथाप्यकारव्यक्तेरुपदेशः? एवमप्यदोषः। "अणुदित्सवर्णस्य चाप्रत्ययः"१।१।६८ इत्यकारेण गृह्रमाणेनाकारस्यापि ग्रहणात्। प्रयोगनियमार्थमप्येतन्नार्हति भवितुम। प्रयोगनियमार्थे ह्रेतस्मिन्? "सिचि वृद्धिः" ७।२।१ मृजेर्वृद्धिः" ७।२।११४ इत्यादावनादैच्परस्य वृद्धिशब्दस्य प्रयोगो नोपपद्यते। कथं हि नाम स्वयमेव नियमं कृत्वा तमनादैच्परं प्रयुञ्जीत! अन्यस्तु प्रयोगनियमार्थमेतन्न भवतीति प्रतिपादयितुमाह- नह च प्रयोगनियमा- र्थमारभ्यत इति। ननु चायं प्रयोगनियमार्थमेवारभ्यते "ते प्राग धातोः" (१।४।८०) इति? ते गत्यपसर्गसञ्ज्ञका धातोः प्रागेव प्रयोक्तव्याः इति परेण चोदिते परिहारमाह- " प्रत्याख्यायते स योगः, न वा, तथानिष्टदर्शनात्" इति। न हि प्रपचतीति प्रयोक्तव्ये कश्चित् पचति प्र इति प्रयुङ्कते। अथापि न प्रत्याख्यायेत, एवमपि न दोषः, यतः सञ्ज्ञानियमोऽयं न प्रयोगनियमः, ते प्रादयो धातोः प्राक् प्रयुज्यमाना एव गत्युपस-र्गसञ्ज्ञका भवन्तीति। अथापि प्रयोगनियमार्थं स्यात्, एवमपि न दोषः, लौकिकानां शब्दानामर्थे प्रयुक्तानां प्रयोगनियम आरभ्यते, आदैच्छब्दश्च लौकिकः, तस्य किं प्रयोगनियमार्थेन वचनेनेति? तत्र यदुक्तं "प्रत्याखायायते स योगः" इति, तदयुक्तम्। न हि सार्थकस्य प्रत्याख्यानं युक्तम्। निरर्थकः स इति चेत्? अत्राप्यनर्थकत्वाशङ्काप्रसङ्गः। यदि ह्रनर्थकान्यपि कानिचित् सूत्राणि प्रणीतवान् सूत्रकार इत्येषोऽ- ध्यवसायः स्यात्। तस्मात तस्य प्रामाण्यमभ्युपगच्छता सर्वं तत्प्रणीतं येन केनचित् प्रकारेण सार्थकमभ्युपेयम्। योऽपि सञ्ज्ञानियमपक्षमाश्रित्य परिहार उक्तः, सोऽपि वृत्त्या विरुध्यते। "ते गत्युपसर्गसञ्ज्ञका धातोः प्राक् प्रयोक्तव्याः" इत्यनेन हि वृत्तिग्रन्थेन प्रयोगनियम एवाश्रित इति स्पष्टमेवाख्यातम्। न च वृतिं()त व्याख्यातुमुद्यतस्य तद्विरुद्धं व्याख्यानं युज्यते कर्तुम। यदप्युक्तं "लौकिकानां शब्दानाम्" इत्यादि, तदपि न प्रयोगनियमार्थता- शङ्कापनोदायालम्। तथा हि "विभाषा सुपो बहुच् पुरस्तातु५।३।६८, "अव्ययसर्व- नाम्नामकच् प्राक् टेः" ५।३।७१, "कृञ्चानुप्रयुज्यते लिटि" ३।१।४० इत्यलौकिकानामपि बहुजादीनं शास्त्रे प्रयोगनियमो दृश्यते, तत्र भवितव्यमेवाशङ्क्या, किमेतत् प्रयोगनियमार्थम्, अथान्यार्थमित्यलमतिप्रसङ्गेन। तस्मात् पूर्वोक्त एव परीहारो युक्तः। आदेशार्थमप्येतच्छक्यते न विज्ञातुम्। यदि ह्रादैचामनेन वृद्धिशब्द आदेशो विधीयेत, य एते निर्देशाः "याति वाति द्राति प्साति" ८।४।१७ इति, यश्च "रायो हलि"७।२।८५ इति, यश्च "नावो द्विगोः" ५।४।९९ इति, ते नोपपद्येरन्। अथ वृद्धिशब्द- स्यादैच आदिश्येरन्(), एवमपि "इद्()वृद्धौ"६।३।२७, "वृद्धिनिमित्तस्य च तद्धितस्य" ६।३।३८इत्येवमादयो निर्देशा न सम्भवेयुः। अत एवागमार्थमप्येतन्नोपपद्यते। न ह्रादैचां वृद्धिशब्द आगमे विहिते तस्य वा तेषु पूर्वोक्ता निर्देशा उपपद्यन्ते। अन्यस्त्वाह- आदेशविधाने स्थान्यादेशसम्बन्धे षष्ठ()आ भवितव्यम्, आगमविधानेप्यवयवावयविसम्बन्धे, न चेह षष्ठी विद्यते, तस्मात् षष्ठ()आ अभावान्नेदमादेशार्थम्, नाप्यागमार्थम् इति। एतच्चासम्यक्। विनाऽपि षष्ठ()आ "हल्ङ्याग्भ्यो दीर्घात् सुतिस्यपृक्तं हल्" ६।१।६६, "अनिते"८।४।१९, "अन्तः"८।४।१९, "उभौ साभ्यासस्य" ८।४।२० इत्यावेशविधानदर्शनात्। आगमविधानस्यापि "न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्" ७।३।३ इति षष्ठीमन्तरेणापि दर्शनात् विशेषणविशेष्यभावप्रसिद्ध्यर्थमप्येतन्न् सम्भाव्यते। तथा हि सम्भवव्यभिचारे च सति विशेषणविशेष्यभावो भवति, नीलोत्पलवत्। न चेहादैचां वृद्धिशब्दे तस्य वा तेषु सम्भवः। ननु च यथोत्पलशब्दःसर्वत्रोत्पलार्थे वर्तमानो नीलशब्देनार्थान्तराद्वयवच्छिद्यत इति व्यवच्छिद्यमानो विशेष्यो भवति, नीलशब्दस्तु व्यवच्छिन्दन् विशेषणम्, तथानयोरपबि यो वयवच्छेद्यः स विशेष्यो भवति, यस्तु व्यवच्छेदकः स विशेषणमिति? नैतदस्ति। उभयोर्हि सार्थकत्वे सत्येतदुपपद्यते, नीलोत्पलशब्दवत्। न चादैचोऽर्थवन्तः। भवतु नामानयोर्विशेषणविशे- ष्यभावः, तथापि नैतत्सिद्ध्यर्थमिदं युक्तम्; निष्प्रयोजनत्वात्, तत्पुनः प्रकृतानुपयोगित्वात्। शब्दानुशासने हि शास्त्रे प्रकृते यग्नाम शब्दसंस्कारानुपयोगिवचनं तत्सर्वमप्रयोजनम्। शब्दसंस्कारानुपयोगित्वं त्वेतत्प्रतिपदितेन विशेषणविशेष्यभावेनवृद्धिशब्दस्यादैचां वा स्वरविशेषस्य वा रुपविशेषस्य वा संस्कारस्यासिद्धेः। विशेषणविशेष्यभाव एव तेषां संस्कार इति चेत्? यद्येवम्, अत्यल्पमिदमुच्यते"वृद्धिरादैच्" १।१।१इति। नीलोत्पलमित्यद्पि हि वक्तव्यम्, नीलोत्पलादिशब्दानां विशेषणविशेष्यभावप्रसिद्धये। न चोक्तम्, अतो नैष संस्कारोऽभिमत इति नास्य तादथ्र्यं सम्भाव्यते। ननु तुल्यविभक्तिकानां तद्गुणसमाध्यारोपोऽपि दृष्टः, तद्यथा "सिंहो माणवकः" इति, तस्मात् तदर्थमेतद्भविष्यतीति यत्पक्षान्तरमेके परिकल्पयाम्बभूवुः, तदर्थम- प्येतन्न भवति, तद्गुणसमाध्यारोपस्य सतोऽप्यत्र प्रकृतानुपयोगित्वेनानर्थकत्वात्। तस्मात् पारिशेष्यात् सञ्ज्ञासञ्ज्ञिसम्बन्धार्थमेवैतदित्यालोच्याह-"वृद्धिशब्दः सञ्ज्ञात्वेन" इत्यादि। भवतु नाम परिशेष्यात्तदर्थम्। एतत् कुतो लभ्यते? वृद्धि- शब्दः सञ्ज्ञा, आदैचः सञ्ज्ञिनः इति। विपर्ययः कस्मान्न भवति,आदैचः सञ्ज्ञा, वृद्धिशब्दः सञ्ज्ञी इति? नार्हति विपर्ययो भवितुम्। तथा हि, लघ्वर्थत्वात् सञ्ज्ञाकरणस्य, यस्मिन्नुच्चार्यमाणे प्रदेशेषु लाघवं भवति तस्य सञ्ज्ञार्थत्वेन भाव्यम्। वृद्धिशब्दे च विभक्तिकेऽप्युच्चार्यमाणे लाघवं भवति, नादैक्षु; यस्माद्()वृद्धिशब्द उच्चार्यमाणे चतस्त्रो मात्रा भवन्ति, आदैक्षु तु पञ्च। न चादैचां प्रत्येकं सञ्ज्ञाभावाल्लाघवं भवतीति शक्यं परिकल्पयितुम्, प्रयोजनविशेषमन्तरेणैकस्थाने- सञ्ज्ञाविधानस्य निष्फलत्वात्। किञ्चावर्तिभ्यः सञ्ज्ञा भवन्ति। वृद्धिशब्दश्चावर्तते, नादैच्छब्दः तस्मान्न भवति विपर्ययः "वृद्धिशब्दः" इति। शब्दग्रहणमर्थव्यवच्छे- दार्थम्। असति हि तस्मिन् शब्दादर्थावगतेरर्थस्यैव सञ्ज्ञात्वं विज्ञायेत। यद्यपि प्रागेव सञ्ज्ञा विहिता, तथापि शिष्यप्रशिष्यप्रबन्धाद्युपरमाद्विधीयत इतिवर्तमान प्रयत्वेन् निर्देशः। यत्र समुदास्य कार्यमिच्छति तत्र उभेपदग्रहणं करोति, यथा "उभे अभ्यस्तम्" ६।१।५ इति, अन्वर्थां वा महतीं सञ्ज्ञाम्, "हलोऽन्तराः संयोगः"१।१।७ इति। तत्र हि महती सञ्ज्ञैवमर्था क्रियते, समुदायस्यैषा सञ्ज्ञायथा स्यादिति। एतच्चोत्तरत्र व्यक्तीकरिष्यामः। इह तु न किञ्चित्तथाविधं वचनमस्ति यतः समुदायस्यै- षा सञ्ज्ञा स्यात्। तस्मादेकैकस्यैषा सञ्ज्ञेति मनसि कृत्वाह "प्रत्येककम्" इति। ननु चेहापि लाघवार्थमेकाक्षरायां सञ्ज्ञायां कर्तव्यायां वृद्धिरिति महत्याः सञ्ज्ञायाःकरणं समुदायस्य सञ्ज्ञा यथा स्यादित्येवमर्थम्? नैतदस्ति। मङ्गलार्थत्वा- दस्याः सञ्ज्ञायाः। अत एवास्याः प्रागुच्चारणम्। अन्यथा सञ्ज्ञायाः सतः कार्यिणः कार्येण भवितव्यमिति, यथा "अदेङ्गुणः"१।१।२ इत्यादौ पूर्वसञ्ज्ञीनिर्दिष्ट-, तथेहापि निर्दिशेत्। आकारस्य गुणान्तरयुक्तयोश्चैचोः प्रत्याहारेऽसन्निवेशान्नामी वर्णा इति कस्यचिन्मन्दधियो भ्रान्तिः स्यात्, अतस्तन्निराकरणायाह-"वर्णानाम्" इत्यादि। प्रत्यासत्तेस्तद्भावितानामेवैषां सञ्ज्ञा स्यादिति कस्यचिद्विपर्ययः स्यात्, अतस्तमपाकर्तुमाह-"सामान्येन" इति। व्याप्तेन्र्यायादित्यभिप्रायः। सामान्येनेत्यस्यार्थं विस्पष्टीकर्तुमाह- "तद्भावितनाम्" इत्यादि। ते तद्भाविताः ये वृद्धिशब्देनोत्पादिताः, ततोऽन्येऽतद्भाविताः। आदिति तपरकरणम्-"तपरस्तत्कालस्य"१।१।६९ इति गुणान्तरभिन्नानामपि तुल्यकालानां ग्रहणार्थं वा स्यात्, भिन्न- कालानां ग्रहणनिवृत्त्यर्थं वा? तत्र् पूर्वः पक्षस्तावन्नोपपद्यते; अभेदकत्वादिहोदात्तादीनां शास्त्रे गुणानाम। कुत एतत्? "लुङलङलृङक्ष्वडुदात्तः"६।४।७१ इत्युदात्तग्रहणात्, अन्यथा ह्रुदात्तगुणयुक्तमेवाटमुच्चारयेत्। द्वितीयोऽपि नोपपद्यते। यदि ह्राकारः सवर्णानां ग्राहकः स्यात्, ततस्तेन भिन्नकालस्याप्यवर्णस्य ग्रहणे सति तस्यापि सञ्ज्ञा मा भूदिति भिन्नकालानां ग्रहणनिवृत्त्यर्थं तपरकरणमुपपद्यते। न चासौ सवर्णानां ग्राहकः, अनण्त्वात्, तस्य पुनरक्षरसमाम्नायेऽसन्निवेशात्। तस्मादनर्थकं तपरकरणम्। ततो न कर्तव्यमेवेत्यत आह- "तपरकरणम्" इत्यादि। एचोरर्थः प्रयोजनं यसय् तत् तथोक्तम्। ननु च जातौ पदार्थे प्लुतस्यापि ग्रहणं भवति, तत्राप्यवर्णजातेः समवयात्, तत्रासति तपरकरणे तस्यापि सञ्ज्ञा स्यत्, तस्मात् तन्निवृत्तय तपरकरणं भवदाकारार्थमप्युपपद्यत एव, तत्किमुच्यते "एजर्थम्" इति? एवं मन्यते- जातिपक्षसमाश्रयणेऽपि हि दीर्घोच्चारणसामथ्र्याद्()द्विमात्रा एवावर्णव्यक्तयः समाश्रिता इति गम्यते, इतरथा हि लाघवार्थम्? "अद्()" इत्येवाभिदध्यात्। न च ह्यस्वनिवृत्त्यर्थं दीर्घोच्चारणमिति शक्यते परिकल्पयितुम्, दीर्घोच्चारणेऽपि ह्यस्व- ग्रहणं प्राप्नोत्येव, तत्राप्यवर्णजातेः सम्भवादिति। न चासन्देहार्थम् "आत्" इत्युक्तम्, वर्णान्तरासाधारणत्वात्, असंहितया वा सन्देहाभावादिति। ननु च "तपरस्तत्काल- स्य" १।१।६९इत्यत्र तः परो यस्मादिति बहुव्रीहिराश्रितः, न चात्रैच् तपरः, तत्कथं तपरकरणमैजर्थं भवतीत्यत आह- "तावपि परस्तपरः" इति। न केवलं तः परो यस्मात् स तपर इति, अपि तु तादपि यः परः सोऽपि तपर इति अपिशब्देन दर्शयति। एतदुक्तं भवति, न केवलं बहुव्रीहिरेव तत्राश्रीयते, किं तर्हि? पञ्चमीतत्पुरुषोऽपि। यता चैतदुभयमा- श्रीयते तथा तत्रैवोपपादयिष्यामः। इति करणो हेतौ यत एवं तादपि परस्तपरः, तेन तपरकरणमैजर्थमित्यर्थः।"खट्वैडकादिषु" इत्यादिना तदेवैजर्थत्वं तपरकरणस्य स्पष्टीकरोति। वृक्ष एलका "वृक्षैलका"। अक्रियमाणे ह्रत्र तपरकरणे त्रिमात्रिकस्याकारैकारसमुदाय स्यस्थाने वृद्धिरेचि"६।१।८५ इति वृद्धिरान्तरतम्यात् त्रिमात्रिक एवैकारः स्यात्यदि तस्यापि वृद्धिसञ्ज्ञा स्यात्। खट्वा ओदनं खट्वौदनम्, खट्वा एलका खट्वैलका इत्यत्रापि पूर्वोत्तरसमुदाययोश्चतुर्मात्रायोश्चतुर्मात्रावकारैकारौ स्याताम्,तन्मा भूदेष दोष इति त्रिमात्रचतुर्मात्राणामैचां वृद्धिसञ्ज्ञानिवृत्तये तपरकरणं क्रियते। आ()आलायनः, ऐतिकायनः" इति। अ()आलेतिकशब्दाभ्यां "नडादिभ्यः फक्()" ४।१।९९, "यस्येति च" ६।४।१४८ इति लोपः, "किति च"७।२।११८ इत्यादिवृद्धिः। "औपगवः" इति। उपगुशब्दात् "प्राग्दीव्यतोऽण्"४।१।८३। "औपमन्यवः" इति। उपमन्युशब्दात "अनृष्यानन्तर्ये बिदादिभ्योऽञ्" ४।१।१०४इत्यञ्, उभयत्रापि "ओर्गुणः"६।४।१४६, अवादेशः ६।१।७५, " तद्धितेष्वचामादेः" ७।२।११७ इति वृद्धिः। एतानि चत्वार्यपि तद्भावितो- दाहरणानि। ननु येऽत्र त्रयः सञ्ज्ञिनस्तेषामाद्यैस्त्रिभिर्विषयो दर्शितः, किमर्थ- श्चतुर्थोपन्यासः? केचिदाहुः- वद्धिनिमित्तभेदात्, आद्ययोरुदाहरणयोः कित्तद्धितो वृद्धेर्निमत्तम्, तृतीयेऽपि णित्, तचुर्थेऽपि ञित् इति। एतच्चायुक्तम्। तथा हि "इको गुणवृद्धी" १।१।३ इत्यत्र"अकार्षीत्" इत्युदाह्मत्य "अहार्षीन्" इत्युदाह्मतम्", न च तत्र वृद्धिनिमित्तभेदोऽस्ति। तथा "न धातुलोप आर्धधातुके" १।१।४ इत्यत्र लोलुवः इत्युदाह्मत्य "पोपुवः, मरीमृजः" इत्यधिकोदाहरणोपन्यासः कृतः। न च तत्र लोपनिमित्तभेदः; प्रतिषेधनिमित्तभेदो वा अधिकोदाहरणोपन्यासस्य हेतुर्विद्यते। प्रायेणा- न्यष्वेपि च सामान्यलक्षणेषु विनापि निमित्तभेदानाधिकोदाहरणोपन्यास उपलभ्यते। योऽप्याह "ओपगव इत्यनेनैच औकारस्य विषये दर्शितेऽपि स्वरभेदादौपमन्यव इत्येतदधिकमुदाहरणमुपन्यस्तम्" इति, तस्यापि तदयुक्तम्, अत एवानन्तरोक्ताद्धेतोर्वेदितव्यम्।। यदि निमित्तभेदः, स्वरभेदो वा सर्वत्राधिकोदाहरणोपन्यासो वेदितव्यः। "शालीयः, मालीयः" इति। अतद्भावितस्योदाहरणे। अत्र हि वृद्धिसञ्ज्ञायां वृद्धिर्यस्या चामादिस्तद्वृद्धम्" १।१।७२ इति वृद्धसञ्ज्ञाफं छप्रत्ययोपन्यासस्तस्या एव फलभूताया अभिव्यक्त्यर्थः। वृद्धसञ्ज्ञायां हि सत्यां " वृद्धाच्छः" ४।२।११३ इति जातादावर्थे छो विधीयते। ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं नात्र दर्शितम्, एतदनुसरसार- णैव गम्यमानत्वात्। आकारस्यातद्भावितस्य वृद्धिसञ्ज्ञायाः कार्ये दर्शिते, तयोरपि तदेव कार्यमिति तन्मुखेनैव गम्यत एव। के पुनसत्योरुदाहरणे? "रैमयम्, नौमयम्" इति। आत्रैकारौकारयोर्वृद्धिसञ्ज्ञायां सत्यां पूर्ववद्()वृद्धसञ्ज्ञा। तस्यां च सत्यां रायो विकारः, नावो विकार इति "नित्यं वृद्धशरादिभ्यः" ४।३।१४२ इति मयड्()भवति।
बाल-मनोरमा
वृद्धिरादैच् १८, १।१।१

इदानीं संज्ञान्तराणि विधास्यन् वृद्धिसंज्ञां तावदाह--वृद्धिरादैच्। यद्यपि पाणिनीयाष्टाध्याय्यामिदमादिमं सूत्रं, तथापि नेदमादावुपन्यस्तम्, अस्य सूत्रस्य तपरकरणेन प्रत्याहारगर्भितत्वेन ग्रहणकशास्त्रनियमार्थतपरसूत्रप्रत्याहारसूत्रप्रवृत्त्युत्तरप्रवृत्तिकतया प्रत्याहरशास्त्रप्रपञ्चनिरूपणात्प्रागुपन्यासनर्हत्वात्। न च सूत्रकृता अयमेव पाठकमः कुतो नाद्रियत इति वाच्यम्। स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वात्। आच्च ऐच्चेति समाहारद्वन्द्वः। "द्वन्द्वाच्चुदषहान्तात्" इति समासान्तस्तु न, अत एव निर्देशेन समासान्तविधेरनित्यत्वात्। "चोः कुः" इति पदान्ते विहितं कुत्वमपि न। "अयस्मयादीनि छन्दसि" इति भत्वात्। "वृद्धिरादैजदेङ" इति संहितापाठपक्षे चकारस्य "झलां जशोऽन्ते" इति पदान्ते विहितजश्त्वं तु भवत्येव, "उभयसंज्ञान्यपि छन्दसि दृश्यन्ते" इति वचनात् , "छन्दोवत्सूत्राणि भवन्ति" इति छान्दसविधीनां सूत्रेष्वपि प्रवृत्तेः। नचैवमपि पदत्वात्कुत्वं भत्वाज्जश्त्वाऽभावश्च कुतो न स्यादिति वाच्यम्, "छन्दसि दृष्टानुविधिः" इति वचनादित्यलम्।आच्च ऐच्चेतीतरेतरयोगद्वन्द्वो वा। तथा सति सौत्रमेकवचनम्। आचार्यपारंपर्योपदेशसिद्धसंज्ञाधिकारात् संज्ञेति लभ्यते। तदेतदाह--आदैच्चेत्यादिना।

तत्त्व-बोधिनी
वृद्धिरादैच् १७, १।१।१

वृद्धिरादैच्। आच्च ऐच्चेति इतरेतरयोगद्वन्द्वः, "सुपां सुलु" गिति औङः सुर्लुग्वा। यद्वा समाहारद्वन्द्वः। नचैवं "द्वन्द्वाच्चुदषहान्तात्समाहारे" इति टच्स्यादिति वाच्यम्, समासान्तविधेरनित्यत्वात्। तत्र च प्रमाणं समासेषु वक्ष्यामः। अथवा "आ"दित्यसमस्तमेवास्तु, वृद्धिशब्दस्तन्त्रेणावृत्त्यां वा योजनीयः।?यस्मयादित्वेन भत्वाच्चोः कुर्न। "ऐ"जिह द्विमात्र एव, तात्परत्वात्, तेन "कृष्णैकत्व"मित्यत्र त्रिमात्रो न। वृद्धिप्रदेशाः-"वृद्धिरेचि"त्यादयः।