पूर्वम्: १।१।१३
अनन्तरम्: १।१।१५
 
प्रथमावृत्तिः

सूत्रम्॥ निपात एकाजनाङ्॥ १।१।१४

पदच्छेदः॥ निपातः १।१ १५ एकाच् १।१ अनाङ् १।१ प्रगृह्यम् १।१ ११

समासः॥

एकश्च असौ अच्च एकाच् कर्मधारयसमासः।
न आङ् अनाङ् नञ्तत्पुरुषः

अर्थः॥

एकाच् यः निपातः, तस्य प्रगृह्यसंज्ञा भवति, आङं वर्जयित्वा।

उदाहरणम्॥

अ अपेहि, अ उपक्राम। इ इन्द्रं पश्य। उ उत्तिष्ठ॥
काशिका-वृत्तिः
निपात एकाजनाङ् १।१।१४

एकश्च असावच्च एकाच्, निपातो य एकाचाङ्वर्जितः स प्रगृह्यसंज्ञो भवति। अ अपेहि। इ इन्द्रं पश्य। उ उत्तिश्ठ। आ एवं नु मन्यसे। आ एवं किल तत्। निपातः इति किम्? चकारत्र। जहारात्र। एकाचिति किम्? प्राग्नये वाचमीरय। अनाङिति किम्? आ उदकान्तात्, ओदकान्तात्। ईषदर्थे त्रियायोगे मर्याऽदाभिविधौ च यः। एतमातं ङितं विद्याद् वाक्यस्मरणयोरङित्।
लघु-सिद्धान्त-कौमुदी
निपात एकाजनाङ् ५५, १।१।१४

एकोऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः॥अवाक्यस्मरणयोरङित्; आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ; आ ईषदुष्णम् ओष्णम्॥
न्यासः
निपात एकाजनाङ्। , १।१।१४

एकाजिति बहुव्रीहिर्वाऽयं स्यात्,कर्मधारयो वा? यदि बहुव्रीहिः, प्रशब्द- स्यापि प्रगृह्रसञ्ज्ञा स्यात्। ततश्च "प्रोपाभ्याम्" १।३।४२ इति निर्देशो नोपप- द्येत, प्राग्नय इति च प्रत्युदाहरणम्। तस्मात् कर्मधारयोऽयमिति मनसि कृत्वाह- "एकश्चासावच्छेत्येकाच्" इति। "अ अपेहि" इत्यादीनि त्रीणि च्छान्दसान्युदाहरणानि; इतरत् तु लौकिकम्। तत्र "आ एवं नु मन्यसे" इत्यत्राकारो वाक्यापरिपूरणार्थः। "आ एवं किल तत्" इत्यत्र तु स्मरणार्थः। "चकारात्र" इति। करोतेर्लिट्। "परस्मैपदानाम्" ३।४।८२ इत्यादिना तिपो णल्, वृद्धिः, रपरत्वम्। "द्वर्वचनेऽचि" १।१।५८ इति स्थानिवद्भावेन द्विर्वचनम्। उरत्त्वम् ७।४।६६। "कुहोश्चुः" ७।४।६२ इति चुत्वम्। भवत्ययं णलकार एकाच्, न तु निपातः। "प्राग्नये" इति। प्रशब्दो भवति निपातः, न त्वेकाच्। तेन "प्लुतप्रगृह्रा अचि" ६।१।१२१ इति प्रकृतिभावो न भवति। "अकः सवर्णे" ६।१।९७ इति दीर्घत्वं तु भवत्येव। आकारोऽत्र हि ङिद्विशिष्ट उपात्तः, तस्य न ज्ञायते- क्व च ङित्त्वम्, क्व च नेति। अतो ङित्त्वाङित्त्वयोर्विषयविभागप्रदर्शनार्थमाह- "ईषदर्थे" इत्यादि। तत्रेषदर्थे-आ-उष्णम्- ओष्णमिति।ईषदुष्णमित्यर्थः। क्रियायोगे उपसर्गसञ्ज्ञायां ङिद्विशिष्ट एव पठ()ते। प्रपरापसमन्ववनिर्दुव्र्याङन्यधयोऽप्यतिसूदभयश्च। प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र॥ इति। आ इहि- एहि। आ अत्ति= आत्ति। मर्यादाभिविध्योरपि ङिद्विशिष्ट एव पठ()ते, "आह मर्यादाभिविध्योः" (२।११३) इति। मर्यादा= ,सीमा; अवधिः। आ उदकान्तात्= ओदकान्तात् प्रियं प्रोधमनुव्रजेत्। अभिविधिः = अभिव्याप्तिः। आ अहिच्छत्रात्, आहिच्छत्रं वृष्टो देवः। अहिच्छत्रं गृहीत्वा वृष्टो देव इत्यर्थः। ङिद्विशिष्टस्य "अनाङ" इति प्रगृह्रसञ्ज्ञाप्रतिषेधात् स्वरसन्धिर्भवति। अथ "एतमातम्" इत्यत्रैतदः "द्वितोयाटौस्त्वेनः" (२।४।३५) इत्येनादेशः कस्मान्न भवति? "अन्वादेशे" इति तत्रानुवत्र्तते। अस्ति चेहान्वादेश इत्यस्ति प्राप्तिः? यथा न भवति तथा तत्रैव प्रकरणे वृत्तिकारः स्वयमेव वक्ष्यतीति(का।१६२) पुनरिह नोच्यते। "आतम्" इति। आकारे तकारो मुखसुखार्थः। ये तु पुरेतमाङमिति ङकारसहितमाकारं पठन्ति तेषां ङितं विद्यादिति वचनमनर्थकं स्यात्; ङकारसहितस्य पाठादेव ङित्त्वविज्ञानात्। तस्मात् तकारपर एवायमाकारः पठितव्यः। " वाक्यस्मरणयोः" इति। वाक्यशब्देन वाक्यार्थ उक्तः; अबिधेयेऽभिधानोपचारात्। प्रक्रान्तं हि वाक्यार्थं किञ्चिदपेक्ष्येदं प्रयुज्यते- "आ एवं नु मन्यसे" इति। एवमयं वाक्यार्थो विज्ञायत इत्य्रथः। पूर्वप्रक्रान्तवाक्यार्थप्रदर्शनपरोऽयमाकारः प्रयुक्तः। अथ वा- पूर्वप्रक्रान्तवाक्यार्थस्यान्यथाकरणमिदं प्रयुज्यते, "आ एवं नु मन्यसे" इति, नैवं पूर्वममंस्थाः, सम्प्रति त्वेवं मन्यस इति। अथ वा- वाक्याशब्देन वाक्यमेवोच्यते, वाक्यावयवो निरर्थक एवाकारः प्रयुज्यत इति। स्मरणं स्मृतिः, तत्र य आकारो वत्र्तते स्मृतिसूचकः,स ङिन्न भवति। "आ एवं किल तत्", एवमिदं विज्ञातमित्यर्थः। ज्ञातं स्मृतमेव। अथ वा- स्मत्र्तव्यार्थविषयः पूर्वमाकारः प्रयुज्यते। "आ" इति स्मतेरुत्तरकालमर्थ आख्यायते। "आ" इत्येतस्यैवं किल तदिति भवत्ययमर्थ इत्यर्थः। वाक्यस्मरणयोराकारस्य प्रगृह्रसञ्ज्ञास्त्येवेति "प्लुतप्रगृह्रा अचि" ६।१।१२१ इति प्रकृतिभावः। तेन "वृद्धिरेचि" ६।१।८५ इति वृद्धिर्न भवति।
बाल-मनोरमा
निपात एकाजनाङ् १०४, १।१।१४

निपात एकाच्। "प्रगृह्र"मित्यनुवर्तते, पुँल्लिङ्गतया च विपरिणम्यते। एकाश्चासावच्चेति कर्मधारयः। तदाह--एकोऽजित्यादिना। इ विस्मये इति। इ इति चादित्वान्निपातः। स च आश्चर्ये वर्तत इत्यर्थः। इ इन्द्रः। उ उमेशः। इ इति उ इति निपातः। सम्बोधने उभयोरपि एकाच्त्वान्निपातत्वाच्च प्रगृह्रत्वान्न सन्धिः। "अना"ङित्यत्र ङकारानुबन्धस्य प्रयोजनमाह - अनाङित्युक्तेरिति। आ एवमिति। पूर्व प्रक्रान्तवाक्यार्थस्याऽन्यथात्वद्योतकोऽयमाकारः। पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः। आ एवमिति। स्मरणद्योतकोऽयमाकारः। इहोभयत्रापि आकारस्य ङित्त्वाऽभावान्न पर्युदासः। ङित्त्विति। ङित्तु आकारः प्रगृह्रो न भवति, अनाङिति पर्युदासादित्यर्थः। ओष्णमिति। आ-उष्णमित्यत्र आकारस्य ङित्त्वात्प्रगृह्रत्वाऽभावे सति आद्गुणः। ननु प्रयोगदशायां ङकारस्याऽश्रवणाविशेषान्ङिदङिद्विवेकः कथमित्यत आह-वाक्येति। प्रक्रान्तवाक्यार्थस्यान्यथात्वे स्मरणे च अङित्। अन्यत्र=ईषदाद्यर्थे गम्ये, ङिदिति विवेकः--भेदोऽवगन्तव्य इत्यर्थः।

तथाच भाष्यम्-"ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातांङितं विद्याद्वाक्यस्मरणयोरङित्॥" इति॥ "एकोऽच् यस्ये"ति बहुव्रीहिस्तु नाश्रितः, तथा सति "प्रेद"मित्यादाबतिप्रसङ्गात्।

तत्त्व-बोधिनी
निपात एकाजनाङ् ८४, १।१।१४

निपात एकाच्। निपातः किम्?। अततेर्डः। अः। "हे अ आगच्छ"। अत्र प्रगृह्रसंज्ञा मा भूत्। एकग्रहणाऽभावे "येन विधि"रिति सूत्रात्तदन्तलाभे "प्रेद"मित्यत्र स्यादत उक्तम्--एक इति। "एका"जिति तु न बहुव्रीहिः, उक्तातिप्रसङ्गतादवस्थ्यात्। अतः "पूर्वकालैके"ति कर्मधारय एव। ननु "निपातोऽना"तित्युक्ते हलन्तस्य सत्यपि प्रगृह्रत्वे प्रयोजनाऽभावादजन्ते प्राप्ते अज्ग्रहणसामथ्र्यादज्रूपस्यैव निपातस्य प्रगृह्रत्वे सिद्धे किमेकग्रहणेन?। न च "पुरोऽस्ती"त्यादौ हलन्तस्य संज्ञायां सत्यां प्रकृतिभावादतो रोरितिरोरुत्वं न स्यादतोऽज्ग्रहणसामथ्र्यमुपक्षीणमित्येकग्रहणमावश्यकमिति वाच्यम्; प्रगृह्रसंज्ञां प्रति रुत्वस्याऽसिद्धतया रेफान्त[स्यैत]स्य प्रगृह्रसंज्ञाऽभावेन दोषाऽप्रसक्तेः। न च सान्तस्य कृता प्रगृह्रसंज्ञा एकदेशविकृतन्यायेन रेफान्तस्यापि स्यादेवेति प्रकृतिभावादुत्वाऽभावप्रसङ्गस्तदवस्थ इति वाच्यम्; प्रगृह्रसंज्ञां प्रतीव प्रकृतिभावं प्रत्यपि रुत्वस्याऽसिद्धत्वात्प्रकृतिभावाऽप्रवृत्तेः। सकारान्तस्य तु न किंचिदपि सिद्धकाण्डस्थं प्रयोजनं प्राप्नोति यत्प्रकृतिभावेन व्यावर्त्त्येत। न चाज्ग्रहणसामथ्र्यादजन्तस्यैव प्र परा अपेत्यादिनिपातस्य प्रगृह्रसंज्ञा स्यान्न त्वज्रूपनिपातस्यैति वैपरीत्यशङ्कानिवारणार्थमेकग्रहणमिति वाच्यम्; अनाङ्ग्रहणवैयथ्र्यापत्तेः , "व्याहरति मृग" इत्यादिनिर्देशविरोधाच्चोक्तशङ्काया अप्रवृत्तेः। किंच "निपातोऽजना"ङित्युक्तेऽप्यनाङिति प्रतिषेधसामथ्र्यान्निपातस्य विशेषणत्वाभ्युपगमे तदन्तविध्यप्रवृत्त्या निपातरूपो योऽच्स प्रगृह्र इत्यर्थलाभादज्रूपस्यैव निपातस्य प्रगृह्रत्वं सिद्धमिति नास्त्येव प्रयोजनमेकग्रहणस्य। नन्वेवमपि समुदायनिवृत्त्यर्थमेकग्रहणमावश्यकमेव। अन्यथा "ऐउ अपेही"त्यत्रैकाज्द्विर्वचनन्यायेन समुदायस्यैव संज्ञा स्यान्नाऽवयवानामिति चरमस्यैव प्रकृतिभावः स्यान्न तु पूर्वयोरिति चेन्न; "अ"जित्येकत्वस्य विवक्षयैव समुदायनिराससंभवात्समुदायसंज्ञयाऽवयवानामननुग्रहेणैकाज्द्विर्वचनन्यायस्याऽप्यप्रवृत्तेः। एकस्मिन्निपाते संज्ञाविधानसंभवेन निपातसमुदायस्य निपातग्रहणेनाऽग्रहणाच्च। अत्राहुर्भाष्यकाराः-"अच्समुदायग्रहणशङ्कनिरासार्थमेकग्रहणं कुर्वन् ज्ञापयति वर्णग्रहणेषु व्यक्तिसङ्ख्या न विवक्ष्यते किंतु जातिरेव निर्दिश्यते" इति। तेन "हलन्ताच्चे"ति सनः कित्त्वात् "दम्भ इच्चे"तीत्त्वे "धिप्सती"त्यादि सिद्धम्। हल्ग्रहणस्य व्यक्तिपरत्वे तु योऽत्रेकः समीपो हल् नकारो, न ततः परः सन्, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्त्वं न स्यात्, ततश्च नलोपो न स्यात्। वस्तुतस्तु अपृक्तसंज्ञायामेकग्रहणमुक्तार्थज्ञापकमित्याश्रित्य प्रकृतसूत्रे एकाज्ग्रहणं त्यक्तुं शक्यम्।?त #एव मनोरमायामनाङिति पर्युदासादेवाऽज्रूषनिपाते लब्धे निपातग्रहणमुत्तरार्थं सत्स्पष्टप्रतिपत्त्यर्थमिहैव कृतमिति निपातग्रहणस्यैव प्रयोजनमुक्तं न त्वेकाज्ग्रहणस्य। अत्र नव्याः--यदुक्तं मनोरमायाम्-"अनाङिति पर्युदासा"दित्यादि, तच्चिन्त्यम्, "ओत्"सूत्रे भाष्यकारैः प्सज्यप्रतिषेधस्यैवाङ्गीकृतत्वात्। नच लभ्यभेदाऽभावात्प्रौढिवादमात्रं भाष्यमिति वाच्यम्;-अस्मादेव भाष्यवचनाल्लक्ष्यभेदोऽप्सतीति सुवचत्वात्। तथाहि-अततेर्डः-अः। "अकारो वासुदेवः स्या"दिति वचनाद्रूढिशब्दो वा। अनेन "अ" शब्देन सह "अङ्भर्यादाभिविध्योः" इति आङोऽव्ययीभावे सवर्णदीर्घे "अव्ययीभावश्चे"ति नपुंसकत्वाद्ध्रस्वत्वे सोरम्यमि पूर्वे च कृते "अ"मिति रूपं भाष्यकृत्संमतम्। तथा इणो निष्ठायामितः, वेञस्तु निष्ठायां संप्रसारणे उतः। अम् इतः-एतः, अम् उतः-ओतः" इत्यासमुद्रक्षिति-वत्समासे रूपं च तत्संमतम्। तत्र पर्युदासपक्षे अमि पूर्वो गुणश्च न सिध्यति। अशब्दस्याङ्()भिन्नत्वात्स्थानिवद्भावेन निपातत्वाच्च प्रगृह्रत्वात्। प्रसज्यप्रतिषेधाश्रये तु सिध्यति, तस्याङ्()त्वेन प्रगृह्रत्वनिषेधात्। न चैतादृशप्रयोगोऽप्रामाणिक इति वक्तुं युक्तम्, प्रकृतभाष्यस्यैव प्रमाणत्वात्। अन्यथा हि भाष्यकारेङ्गितमात्रावलम्बनेन तत्र प्राचां ग्रन्थानामधिक्षेपाय भवतां प्रवृत्तयो व्याहन्योरन्नित्याद्याहुः। आङ्वर्ज इति। प्रतिषेधपक्षे तु प्रगृह्रः स्यादित्येतदुत्तरमिदं द्रष्टम्। वज्र्यत इति वर्जः। वृजेण्र्यन्तात्कर्मणि घञ्। वर्जनीय इत्यर्थः। आङो न भवतीति यावत्। आ एवमिति। पूर्वप्रक्रान्तवाक्यार्थस्य अन्यथात्वद्योतकोऽयमाकारः। पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः। आ एवं किलेति। स्मरणद्योतकोऽयमाकारः। वाक्यस्मरणयोरित्यादि। अत्रायमाशयः-"ईषदर्थे क्रियायोगेमर्यादाभिविधौ च यः। एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्।" इति भाष्यस्याऽङिल्लक्षण एव तात्पर्यं, लाघवात्। अन्यस्य ङित्त्वं त्वर्थसिद्धम्। "ईषदर्थ#ए-"इत्यादिस्त्वेकदेशानुवादः। एवंच "अभ्र आँ अप"इत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य ङित्त्वात् "आङोऽनुनासिकश्छन्दसी"ति प्रवर्तत इति।