सूत्रम्॥ तरप्तमपौ घः॥ १।१।२१
पदच्छेदः॥ तरप्तमपौ १।२ घः १।१
समासः॥
अर्थः॥
उदाहरणम्॥
किमेत्तिङव्यय। "आमु" इति छेदः। उकार उच्चारणार्थः। किम्, एते, तिङ्, अव्यय--एषां चतुर्णां द्वन्द्वः। "किमेत्तिङव्ययप्रकृतिको घः" इति मध्यमपदलोपी समासः। फलितमाह--किम एदन्तादित्यादिना। एभ्य इत्यर्थः। किन्तमामिति अत्यन्तस्वार्थिकोऽयं तमप्, नत्वतिशायने। एषामतिशयेनाढ() इतिवदेषामतिशयेन क इति विग्रहस्याऽसंभवात्। जातिगुणक्रियासंज्ञाभि समुदायादेकदेशस्य पृथक्करणं हि निर्धारणम्। प्राह्णे तमामिति। प्राह्ण=पूर्वाह्णः। "प्राह्णाऽपराह्णमध्याह्नाः त्रिसन्ध्य"मित्यमरः। अतिशयिते पूर्वाह्णे इत्यर्थः। पूर्वावयवगतप्रकर्षादह्नः प्रकर्षो बोध्यः। अत्र अहर्न द्रव्यम्, सूर्योदयादारभ्य सूत्रास्तमयावधिकस्यैव कालस्य अहन्शब्दार्थत्वात्। तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः। पचतितमामिति। अतिशयिनता पाकक्रियेत्यर्थः, तिङन्तेषु क्रियाविशेष्यकबोधस्यैव "प्रशंसायां रूप"विति सूत्रभाष्ये प्रपञ्चितत्वात्। अतोऽत्र क्रियाया एवन प्रकर्षो नतु द्रव्यस्येति भावः। उच्चैस्तमामिति। "आशंसती"त्यध्याहार्यम्। अतिशयेन उच्चैराशंशनादिक्रियेत्यर्थः। अत्रापि क्रियाया एव प्रकर्षो न तु द्रव्यस्य। उच्चैस्तमस्तरुरिति। अतिशेन उच्चैस्तरुरित्यर्थः। अत्र उच्चैस्त्वप्रकर्षस्य तरौ द्रव्ये भानादाभ्यनेत्यर्थः। "किंतमा"मित्यादौ "यस्येति चे"ति लोपं परत्वाद्बाधित्वा ह्यस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम्। सति तु तस्मिन् "निरनुबन्धकग्रहणे न सानुबन्धकस्ये"ति परिभाषया नुड्विधावस्य न ग्रहणमित्यादि "आमि सर्वनाम्नः" इति सूत्रभाष्ये प्रपञ्चितम्।