पूर्वम्: १।१।२९
अनन्तरम्: १।१।३१
 
प्रथमावृत्तिः

सूत्रम्॥ द्वन्द्वे च॥ १।१।३०

पदच्छेदः॥ द्वन्द्वे ७।१ ३१ २८ सर्वादीनि १।३ २६ सर्वनामानि १।३ २६

अर्थः॥

द्वन्द्वे समासे सर्वादीनि सर्वनामसंज्ञकानि न भवन्ति।

उदाहरणम्॥

पूर्वापराणाम्। दक्षिणोत्तरपूर्वाणाम्। कतरकतमानाम्।
काशिका-वृत्तिः
द्वन्द्वे च १।१।३१

द्वन्द्वे च समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। पूर्वापराणाम्। कतरकतमानाम्।
न्यासः
द्वन्द्वे च। , १।१।३०

बाल-मनोरमा
द्वन्द्वे च २२२, १।१।३०

तदाह--द्वन्द्वे उक्तेति। सर्वनामसंज्ञा नेत्यर्थः। वर्णाश्रमेतराणामिति। "वर्णाश्रमेतराणां नो ब्राऊहि धर्मानशेषतः" इति याज्ञवल्क्यस्मृतिः। वर्णाश्चाअश्रमाश्च इतरे चेति द्वन्द्वः। अत्र सर्वनामत्वाऽभावादामि सर्वनाम्न इति न सुट्। समुदायस्यैवेति। द्वन्द्वे विद्यमानानि यानि सर्वादीनि तानि सर्वनामानि न स्युरिति नाऽर्थः, विद्यतिक्रियाध्याहारे गौरवात्। किन्तु द्वन्द्वे सर्वनामसंज्ञा न भवतीति प्रधानभूतया निषेध्यवनक्रिययैव द्वन्द्वस्याधारतयाऽन्वयः। द्वन्द्वाधारा सर्वनामसंज्ञा न भवतीत्यक्षरार्थः। द्वन्द्वस्य सर्वनामसंज्ञा नेति फलितम्। वर्णाश्रमतरेत्यादिसमुदायस्यैव द्वन्द्वता नतु तदवयवानाम्। एवंच वर्णाश्रमेतरेत्यादिसमुदायस्यैव सर्वनामत्वनिषेधो नतु तदवयवानामिति वस्तुस्तितिकथनम्। ननु द्वन्दावयवानां सर्वनामत्वनिषेधाऽभावे वर्णाश्रमेतरशब्दे इतरशब्दस्य सर्वनामतया ततः परस्यामः सुटि वर्णाश्रमेतरेषामिति स्यात्। नच अवर्णान्तात्सर्वनाम्नोऽह्गात्परस्यामः सुड्विधीयते। ततश्च वर्णाश्रमेतरशब्दस्य समुदायस्य द्वन्द्वतया सर्वनामत्वनिषेधेऽपि तदवयवस्य इतरशब्दस्य सर्वनामतया तदन्ताङ्गात्परत्वादामः स#उट् स्यात्। न चैवं सति द्वन्द्वस्य तन्निषेधात्। इतरशब्दस्तु सर्वनामसंज्ञकः,न ततो विहित आम्, आमः समुदायादेव विधानात्। अतो न सुडिति भावः। "अवर्णान्तादङ्गात्सर्वनाम्नो विहितस्यामः सु"डिति व्याख्याने तु येषां तेषामित्यत्राऽव्याप्तिः। अतोऽवर्णान्तादङ्गात्परस्य सर्वनाम्नो विहितस्यामः सुडित्येव व्याख्येयम्।

तत्त्व-बोधिनी
द्वन्द्वे च १८७, १।१।३०

द्वन्द्वे च। समुदायस्येति। तत्रैव द्वन्द्वशब्दस्य मुख्यत्वात्। न च "द्वन्द्वे यानि सर्वादीनी"ति संबन्धः, कारकाणां क्रिययैवान्वयात्। न च "द्वन्द्वे विद्यमानानि यानी"ति संबन्धः, विद्यतिक्रियाध्याहारे गौरवात्, निषेध्याया भवतिक्रियाया एव प्राधान्येन तदन्वयस्यैव न्याय्यत्वाच्चेति भावः।

सुट्प्रसङ्ग इति। न च "द्वन्द्वे चे"ति निषेधसामथ्र्यात् "वर्णाश्रमेतराणा"मित्यादौ सुण्न प्रसज्यत इति वाच्यम्, अनङ्गस्य त्रतसिलादेव्र्यावृत्त्या तत्सामथ्र्यस्योपक्षीणत्वात्।