पूर्वम्: १।१।३६
अनन्तरम्: १।१।३८
 
प्रथमावृत्तिः

सूत्रम्॥ तद्धितश्चासर्वविभक्तिः॥ १।१।३७

पदच्छेदः॥ तद्धितः १।१ असर्वविभक्तिः १।१ अव्ययम् १।१ ३६

समासः॥

नोत्पद्यते सर्वाः विभक्तीः यस्मात् सः असर्वविभक्तिः तद्धितः, बहुव्रीहिः

अर्थः॥

असर्वविभक्तिः तद्धितप्रत्ययान्तः शब्दः अव्ययसंज्ञकः भवति।

उदाहरणम्॥

ततः, यतः, यत्र, तत्र, तदा, यदा, सर्वदा, सदा, विना, नाना।
काशिका-वृत्तिः
तद्धितश् च असर्वविभक्तिः १।१।३८

तद्धितान्तः शब्दो ऽसर्वविभक्तिः अव्ययसंज्ञो भवति। यस्मात् न सर्वविभक्तेरुत्पत्तिः सो ऽसर्वविभक्तिः। ततः, यतः, तत्र, यत्र, तदा, यदा, सर्वदा, सदा। तद्धितः इति किम्? एकः, द्वौ, बहवः। असर्वविभक्तिः इति किम्? औपगवः, औपगवौ, औपगवाः।
न्यासः
तद्धितश्चासर्वविभक्तिः। , १।१।३७

प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणं भवतीत तद्धितान्त स्य संज्ञा विज्ञायत इत्याह "तद्धितान्तः शब्दः"इति। "यस्मान्न सर्व" इत्यादि। अत्रावयवकात्र्स्न्यवृत्तिः सर्वशब्दः। सर्वा निरवशेषा येषां त्रयाणां वचनानां विभ- क्तिरिति संज्ञा कृता। तानि सर्वाणि यतो नोपत्पद्यन्त इत्यर्थः। "ततः,यतः" इति। तद्- यच्छपब्दात् पञ्चमीसमर्थात् "पञ्चम्यास्तसिल्" ५।३।७इति तसिल्, "सुपो धातुप्रा तिपदिकयोः" २।४।७१ इति सुब्लुक्;"प्राग्दिशो विभक्तिः" ५।३।१ इति विभक्तित्वात् त्यदाद्यत्वम्; "अतो गुणे" ६।१।९४, पररूपत्वम्। "तत्र यत्र "इति। "सप्तम्यास्त्रल्" (५।३।१०० इति त्रल्। "तदा, यदा, सर्वदा" इति। "सर्वैकान्यकिंयत्तदः काले दा" ५।३।१५। सर्वे एते-ततः प्रभृतयः विभक्त्यर्थप्रधानाः। स च विभक्तयर्थः प्रातिपदिकार्थः सम्पन्न इति प्रातिपदिकार्थे प्रथमैव भवति। सापि संख्याविशेषाभावान्न सर्वा। किं तर्हि? एकवचनमेव; तस्योत्सर्गत्वात्। तथा चोक्तम्- "एकवचनमुत्सर्गतः करिष्यते" इति। तस्य "अव्ययादाप्सुपः" २।४।८२ लुक्। "एकः" इति। अत्रासर्वविभक्तिकत्वमस्ति; एकत्वे द्वित्वायोगात्। अतद्धितत्वान्न भवति। "औपगवः" इति। अत्र तद्धितान्तस्य सर्वविभक्तियोगान्न भवति॥
बाल-मनोरमा
तद्धितश्चाऽसर्वविभक्तिः ४४२, १।१।३७

अथ स्वरादिचादिभिन्नान्यव्ययान्याह--तद्धितश्चासर्व। असर्वविभक्तिरिति बहुर्वीहिः। तत्र सर्वा विभक्तयो यस्मान्न भवन्तीति बहुवचनान्तविग्रहो न संभवति, अव्ययेभ्यः सप्तानां विभक्तीनामुत्पत्त्यभ्युपगमात्। तथाहि "तद्धितश्चे"ति प्रकृतसूत्रे भाष्ये तावत् "द्व्येकयोर्द्विवचनैकवचने" "बहुषु बहुवचन"मिति सूत्रविन्यासं भङ्क्त्वा "एकवचनं" "द्वयोर्द्विवचने""बहुषु बहुवचन"मिति सूत्रन्यासं कृत्वा एकवचनमुत्सर्गतः करिष्यते, द्विबह्वोरर्थयोस्तस्य द्विवचनबहुवचने बाधके इत्यादि स्थितम्। ततश्च एकवचन"मित्यनेन ङ्याप्प्रातिपदिकादेकवचनं भवतीति सामान्यविधिना द्वित्वबहुत्वाऽभावे एकवचनमिति लभ्यते। एवं च द्विबहुत्वाऽभावे सति एकत्वे तदभावे च एकवचनमिति फलति। तत्र द्वित्वबहुत्वयोर्द्विवचनबहुवचनोक्त्यैव ततोऽन्यत्र एकवचनस्य सिद्धत्वात् "एकवचनम्" इति सूत्रं कर्मत्वाद्यभावेऽपि प्रापणार्थं संपद्यते। तथाच अलिङ्गसंख्येभ्योऽव्ययेभ्य एकवचनं प्रवर्तमानं विनिगमनाविरहात्सर्वविभक्त्येकवचनं भवति। अत एव "अव्ययादाप्सुपः" इत्यत्र प्रत्याहारग्रहणमर्थवत्। तस्मात्सर्वा विभक्तियो यस्मादिति न विग्रहः, किन्तु सर्वशब्दोऽत्र सर्व पटो दग्ध इतिवदवयवकार्त्स्न्ये वर्तते। एवंच सर्वा वचनत्रयात्मिका विभक्तिर्यस्मान्नोत्पद्यते। किन्त्वेकवचनान्येवोत्पद्यन्ते, स तद्धितान्तोऽव्ययसंज्ञः स्यादिति फलतीत्यभिप्रेत्याह--यस्मादिति। सर्वेति। वचनत्रयात्मिकेत्यर्थः। नोत्पद्यत इति। "किन्त्वेकवचनान्येवोत्पद्यन्ते" इति शेषः। स्यादेतत्-तिङ्श्चे-त्यनुवृत्तौ "प्रशंसायां रूप"मिति रूपप्प्रत्यये "ईषदसमाप्तौ कल्प"बिति कल्पप्प्रत्यये च पचतिरूपं पचतिकल्पमिति रूपम्। प्रशस्तं पचति, ईषत् पचतीत्यर्थः। अत्राप्यव्ययत्वं स्यात्, अरुआवविभक्तितद्धितान्तत्वात्। किञ्च उभयशब्देऽतिव्याप्तिः, तस्याप्यसर्वविभक्तितद्धितान्तत्वादित्यत आह-परिगणनमिति। वार्तिकमेतत्। तसिलादय इति। "पञ्चम्यास्तसिल्" इत्यारभ्य "द्वित्र्योश्च धमु"ञित्यर्थः। शस्प्रभृतय इति। "बह्वल्पार्था"दित्यरभ्य "अव्यक्तानुकरणा"दिति डाजन्ता इत्यर्थः। अम् आमिति। "अमु च च्छन्दसी"त्यम्, "किमेत्तिङव्यये"त्यमा च गृह्रते। कृत्वोऽर्था इति। "सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्", "द्वित्रिचतुभ्र्यःसुच्", "विभाषा बहोर्थे"ति त्रय इत्यर्थः। तसिवती इति। "तेनैकदिक्", "तसिश्च" इति तसि#ः "तेन तुल्यम्" इत्यादिविहितो वतिश्च गृह्रते। "प्रतियोगे पञ्चम्यास्तसिः" इत्यस्य तु शस्प्रभृतित्वादेव सिद्धम्। एवं च स्वरादिषु वदित्यस्य प्रयोजने चिन्त्यम्। नानाञाविति। "निनञ्भ्यां नानाञौ न सहे"ति विहातौ नानाञौ। इति परिगणनंकर्तव्यमित्यन्वयः। परिगणनेनैव सिद्धे "तद्धितश्चे"ति सूत्रं न कर्तव्यमिति भावः।

तत्त्व-बोधिनी
तद्धितश्चाऽसर्वविभक्तिः ३९९, १।१।३७

तद्धितश्चासर्वविभक्तिः। सर्वेति। वचनत्रयात्मिकेत्यर्थः। नोत्पद्यत इति। किं त्वेकवचनमेवोत्पद्यत इति भावः। तद्धितः किम्(), एकः। द्वौ। त्रयः। असर्वेत्यादि किम्()। औपगवः। ननु पञ्चालाः गदौ वरणा इत्यादावतिप्रसङ्गः। न च "लुब्योगाप्रख्याना"दितचि वदता नैषां तद्धितान्तत्वमङ्गीकृतमिति [नातिप्रसङ्ग इति] वाच्यम्, एवमपि "पचतिकल्पं""पचतिरूप"मित्यादावतिव्याप्तेर्दुर्वारत्वादित्याशङ्क्याह--परिगणनं कर्तव्यमिति। तसिलादय इति। "पञ्चम्यास्तसि"लिति विहितो यस्तसिल् तदादयो "याप्ये पाश"बिति विहितपाशप्प्रत्ययपर्यन्ताइत्यर्थः। शस्प्रभृतय इति।"बह्वल्पार्थात्--"इति विहितो यः शस्, तदादयः "समासान्ताः"इति सूत्रपर्यन्ताः। कृत्वोर्था इति। "सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु"जिति विहिताः कृत्वसुजादयस्त्रयः। तसिवती इति। न च तसेः परिगणनं व्यर्थं, शस्प्रभृतित्वादेव "प्रतियोगे पञ्चम्यास्तसिः"इत्यस्य लाभादिति वाच्यम्, तेनैकदिक्" "तसिश्चे"त्येतदर्थतया तस्यावश्यकत्वात्। "तेन तुल्य"मिति वतिः। नानाञाविति। "विनञ्भ्यां नानाञौ न सहे"ति विहितौ। पचतिकल्पमिति। अव्ययसंज्ञायां हि सत्यां सुपो लुक् स्यादिति भावः।