पूर्वम्: १।१।३
अनन्तरम्: १।१।५
 
प्रथमावृत्तिः

सूत्रम्॥ न धातुलोप आर्धधातुके॥ १।१।४

पदच्छेदः॥ धातुलोपे ७।१ आर्धधातुके ७।१ इकः ६।१ गुणवृद्धी १।२

समासः॥

धात्ववयवः धातुः, धातोः लोपः यस्मिन् तदिदं धातुलोपम्, तस्मिन् धातुलोपे, उत्तरपदलोपी-बहुव्रीहिसमासः

अर्थः॥

आर्धधातुकनिमित्ते धातुलोपे इकः स्थाने ये गुणवृद्धी प्राप्नुतः, ते न भवतः

उदाहरणम्॥

लोलुवः पोपुवः। मरीमृजः, सरीसृपः।
काशिका-वृत्तिः
न धातुलोप आर्धधातुके १।१।४

धात्वेकदेशो धातुः, तस्य लोपो यस्मिन्नार्धधातुके तदार्धधातुकं धातुलोपं, तत्र ये गुणवृद्धी प्राप्नुतः, ते न भवतः। लोलुवः। पोपुवः। मरीमृजः। लोलूयाऽदिभ्यो यङन्तेभ्यः पचाऽद्यचि विहिते यङो ऽचि च २।४।७४ इति यङो लुकि कृते तम् एव अचम् आश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः। धातुग्रहणं किम्? लूञ्, लविता। रेडसि। पर्णं न वेः। अनुबन्धप्रत्ययलोपे मा भूत्। रिषेर्हिसार्थस्य विच्प्रत्ययलोप उदाहरणं रेटिति। आर्धधातुके इति किम्? त्रिधा बद्धो वृषभो रोरवीति इति। सार्वधातुके मा भूत्। इकः इत्येव अभाजि, रागः। बहुव्रीहिसमाश्रयणं किम्? क्नोपयति, प्रेद्धम्।
न्यासः
न धातुलोप आर्धधातुके। , १।१।४

उक्तपरिमाणस्य शब्दस्य धातुसञ्ज्ञा कृता। तस्य सर्वस्य लोपे कृते यत्र गुणवृद्धी प्राप्नुतस्तदार्धधातुकेन सम्भवत्येव, तत् किं प्रतिषेधेन? तस्मात् प्रतिषेधविधानसामथ्र्याद्धात्वेकदेशे धातुशब्दो वर्तत इति मत्वाह- "धात्वेकदेशो धातुः" इति। "धातुलोपे"इति। यद्ययं धातोर्लोपो धातुलोप इति तत्पुरूषः, तत आर्धधातुकग्रहणं गुणवृद्धिविशेषणं वा स्यात्- "धा४तुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः" इति। लोपविशेषणं वा स्यात्-" आर्धधातुकनिमित्ते धातुलोपे सति गुणवृद्धी न भवतः" इति? पूर्वस्मिन् "क्नोपयति"इत्यत्र प्रतिषेधः प्राप्नोति। तत्र प्रतिविधानं कर्तव्यम्। द्वितीये तु न भवत्येष दोषः। न हि "क्नोपयति" इत्यत्रार्धधातुकनिमित्तलोपः, किं तर्हि, कतवल्निमित्तकः। किन्तु द्वितीये पक्षे प्रेद्धमित्यत्र प्राप्नोति। अस्ति ह्रत्रार्धधातुकनिमित्तो लोपः। ननु चेग्लक्षणयोर्गुणवृद्धयोरयं प्रतिषेधः; न चात्रेग्लक्षणो गुणः? नैतदस्ति; अत्रापीग्लक्षण एव गुणो यो ह्रुभयोः स्थाने भवति, लभते सोऽन्तयतरव्यपदेशम्। तथा हि- "मातुः, पितुः" इत्यत्रोभयोः स्थाने भवन् रपरोऽण् भवति। तस्माल्लोपविशेषणपक्षेऽपि तत्पुरुषे प्रतिविधानं कत्र्तव्यमेव। बहुव्रीहौ तु न किञ्चित् प्रतिविधेयमिति मन्यमानो बहुव्रीहिरयमिति दर्शयन्नाह- "तस्य" इत्यादि। एतेन लोपविशेषणमार्धधातुकमित्येतद्दर्शितं भवति। एवं चार्धधातुके सम्भवति यदि तत्तस्य निमित्तं भवति, ततश्च क्नोपयतीत्यत्रातिप्रसङ्गो नावतरति। "तत्र" इत्यादि। नापि गुणवृद्ध्योरार्धधातुकं निमित्त्वेन विशेषणमित्या- ख्यातम्। ततश्च प्रेद्धमित्यत्राप्यतिप्रसङ्गो न भवति, न ह्राद्गुण आर्धधातुक- निमित्तः। "ये ते" इति। स्त्रीलिङ्गनिर्देशः "गुणवृद्धी"इत्यनेन स्त्रीलिङ्गेन सामानाधिकरण्यात्। अस्य तु स्त्रीलिङ्गता "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः" २।४।२६ इत्यतिदेशात्। अर्थस्य च सोऽतिदेश इति यत्तदोरपि तत्रार्थे वर्तमानयोः स्त्रीलिङ्गता भवति। ननु च नियमस्य प्रकृतत्वात् तस्यैवायं प्रतिषेधो युक्तः, तत् किमित्येवमाह-"तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवतः" इति। तयोः प्राधान्यात्। तत् पुनर्नियमेनोपक्रियमाणत्वात्, नियमस्य तु तादथ्र्यादप्राधान्यम्। तस्माद्()गुणवृद्धयोरेवायं प्रतिषेधो न्याय्यः। "लोलुवः, पोपुवः" इति। "लूञ् छेदने" (धा।पा।१४८३), "पूञ् पवने (धा।पा।१४८२)इत्येताभ्यां "धातोरेकाचः" ३।१।२२ इत्यादिना यङ्, "सन्यङो" ६।१।९ इति द्विर्वचनम्, "गुणोयङलुकोः" ७।४।८२ इत्यभ्यासस्य गुणः, यङन्तात् पचाद्यचि "यङोऽचि च" २।४।७४ इति लुकि तन्निमित्तगुणप्रतिषेधः, तस्मिन् सति "अचि श्नुधातुकभ्रुवाम्" (६।४। ७७) इत्यादिनोवङ। "मरीमृजः" इति। "मृजू शुद्धौ" (धा।पा।१०६६), पूर्ववद्यङ, द्विर्वचनम्, उरदत्त्वम्, ७।४।६६ "हलादिः शेषः" ७।४।६० "रीगृदुपधस्य च" ७।४।९०इति रीगागमः। लोलूयादिभ्य इत्यादिशब्देन "पोपूय, मरीमृज्य" इत्येतयोग्र्रहणम्। "लूञ्- लविता" इति। यावदेव धातुसञ्ज्ञा न भवति तावदेव "सर्वविधिभ्यो लोपविधिर्बलीयात्" (व्या।प।७०) इति ञकारस्य लोपो भवति, पश्चाल्लू इत्येतस्य धातुसञ्ज्ञा, तेन ञकारलोपो धातुलोपो न भवतीति भवति प्रत्युदाहरणम्। "रेड् " इति। "रिष रुष हिंसायाम्" (धा।पा।१२३२,१२३०), "अन्येभ्योऽपि दृश्यन्ते"३।२।७५ इति विच्, इकारचकारौ "वेरपृक्तस्य"६।१।६५ इत्यत्र सामान्यग्रहणाविघातार्थो, वकारस्य चानेनैव लोपः, "पुगन्तलघूपध्स्य च" ७।३।८६ इति गुणः। "झलां जशोऽन्ते" ८।२।३९ इति षकारस्य डकारः। ननु च द्वयङ्गविकले द्वे अपि एते प्रत्युदाहरणे, तथैव ह्रत्र धातुलोपो न भवति, एवमार्धधातुकनिमि-त्तोऽपि न भवति, नैतदस्ति; सति हि धातुग्रहणे पदद्वयसान्निध्याद्बहुव्रीहिर्लभ्यते। त()स्मश्च सत्यार्धधातुकनिमत्तत्वं लोपस्य। असति हि धातुग्रहणे "न लोप आर्धधातुके" इत्युच्यमाने "आर्धधातुकाश्रये ये गुणवृद्धी प्रतिषेधः स्यात्। "रोरवीति" इति। " रु शब्दे" (धा।पा। १०३४) इत्यस्माद्यङ, "बहुलं छन्दसि" २।४।७३ इति यङो लुक्, लट्,तिप्, शप्। अदादित्वाच्छपो लुक् (२।४।७२(,"यङो वा"()७।३।९४) इतीट्। अत्र सार्वधातुकनिमित्तो गुणो न प्रतिषिध्यते। ननु च द्वयङ्गविकलमेवेदम्, यथैव ह्रार्धधातुकनिमित्तो गुणो न भवत्येवं लोपोऽपि? नैतदस्ति; सति ह्रार्धधातुकग्रहणेऽन्यपदार्थत्वे न तस्याश्रयणात् तन्निमित्तो लोपो लभ्यते, त()स्मश्च सति "न धातुलोपे" इतीयत्युच्यमाने "ये केचन गुणवृद्धी ते च लोपे सति भवतः" इत्येष वाक्यार्थः स्यात्। ततश्चाविशेषितत्वाल्लोपस्य लोपमात्रे प्रतिषेधो विज्ञायते। "अभाजि" इति। "भञ्जो आमद्र्दने" (धा।पा। १४५३),लुङ्, च्लिः, "चिण् भावकर्मणोः"३।१।६६ इति चिण्, "इणो लुक्" ६।४।१०४इति तशब्दस्य लुक्, "भञ्जेश्च चिणि" ६।४।३३ इत्यनुनासिकलोपः। "रागः" इति। अत्रापि "घञि च भावकरणयोः" ६।४।२७ इति नलोपः। "रञ्ज रागे" (धा।पा।११६७), भावे घञ्। यद्यप्यत्र रुआवमस्ति तथापीक इत्यत्रानुवृत्तेरिह चेकोऽसम्भवात् " अत उपधायाः" ७।२।११६ इति वृद्धेः प्राप्तायाः प्रतिषेधो न भवति। "क्नोपयति" इति। "क्नूयी शब्दे" (धा।पा।४८५), "हेतुमति च" ३।१।२६ इति णिच्, "अर्त्तिह्यी" गुणः। "प्रेद्धम्" इति। "ञीन्धी दीप्तौ" (धा।पा।१४४८), क्तः, "अनिदिताम्" ६।४।२४ इत्या-दिनानुनासिकलोपः, "झषस्तर्थोर्घोऽधः" ८।२।४० इति तकारस्य धत्वम्। "झलां जश् झशि"८।४।५२ इति धातुधकारस्य दकारः, प्रगतमिद्धमिति "कुगतिप्रादयः" २।२।१८ इति समासः।
तत्त्व-बोधिनी
न धातुलोप आद्र्धधातुके ४१३, १।१।४

ज्वर रोगे। ञित्वरा संभ्रमे। अत्र वृत्तौ "झलादौ क्ङिती"त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह-- क्ङितीति नानुवर्तत इति। अवतेस्तुनीति। "ज्वरत्वरे"त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः। ज्वरादेरुदाहरणं क्विपि जूः। जुरौ। जुरः। झलादौ तु-- जूर्तिः। जूर्णः। जूर्णवान्। त्वर-- तूः। तुरौ। तुरः। तूर्तिः। तूर्णः। तूर्णवान्। रिउआवि- स्रूः। रुआउवौ। रुआउवः। रुआऊतिः। अवि-- ऊः। उवौ। उवः।ऊतिः। मव-- मूः। मुवौ। मूतः। मूतिः। मामोषीत्यादि। ईट्पक्षे मामवीषि। मामवीमि। मामवीतु। अमामवीत्। अमामवीरिति बोध्यम्। राल्लोपः। "च्छ्वोः शू"डित्तश्च्छ्वोरित्यनुवर्तते। क्वावुदाहरणं--तूः। तुरौ तुरः। धुर्वी-- धूः। धुरौ। धुरः। मुच्र्छा--मूः। मुरौ। मुरः।