पूर्वम्: १।१।४७
अनन्तरम्: १।१।४९
 
प्रथमावृत्तिः

सूत्रम्॥ षष्ठी स्थानेयोगा॥ १।१।४८

पदच्छेदः॥ षष्ठी १।१ ५४ (स्थाने)योगा १।१ ५०

समासः॥

स्थाने योगः अस्याः सा इयं स्थानेयोगा, बहुव्रीहिः। अत्र निपातनात् सप्तम्याः अलुक् भवति।

अर्थः॥

अनियत-योगा अनियतसम्बन्धा षष्ठी स्थानेयोगा मन्तव्या। केवलं स्थाने इत्यस्य अनुवृत्तिः १।१।४० पर्त्यन्तं भवति।

उदाहरणम्॥

भविता, मध्वत्र, पित्रर्थम्, लाकृतिः
काशिका-वृत्तिः
षष्ठी स्थानेयोगा १।१।४९

परिभाशा इयं योगनियमार्था। इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते, सा स्थानेयोगाइव भवति, नान्ययोगा। स्थानेयोगस्य निमित्तभूते सति सा प्रतिपत्तव्या। स्थानशब्दश्च प्रसङ्गवाची। यथादर्भाणां स्थाने शरैः प्रस्तरितव्यम् इति दर्भाणां प्रसङ्गे इति गम्यते। एवम् इह अपि अस्तेः स्थाने प्रसङ्गे भूर् भवति। भविता। भवितुम्। भवितव्यम्। ब्रुवः प्रसङ्गे वचिर्भवति। वक्ता। वक्तुम्। वक्तव्यम्। प्रसङ्गे सम्बन्धस्य निमित्तभूते ब्रुव इति षस्ठी। बहवो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरसमीपसमूहविकारावयवाद्याः। तत्र यावन्तः शब्दे सम्भवन्ति तेषु सर्वेषु प्रप्तेषु नियमः क्रियते षष्ठी स्थानेयोगा इति। स्थाने योगो ऽस्याः इति व्यधिकरणो बहुव्रीहिः। अत एव निपातनाच् च सप्तम्या अलुक्।
न्यासः
षष्ठी स्थानेयोगा॥ , १।१।४८

"योगनियमार्था" इति। योगनियमः सम्बन्धनियमः, सोऽर्थः प्रयोजनं यस्याः सा तथोक्ता। यदि योगनियमार्थयम्- शास्त्रे या षष्ठी, सा स्थानेयोगैव् भवति, नान्ययोगे- ति। एवं सति "ऊदुपधाया गोहः" ६।४।८९ इत्येषापि षष्ठी स्थानेयोगैव स्यात्, नावयवादयविसम्बन्धयोगा। ततश्च "अलोऽन्त्यस्य" १।१।५१ इति स्थानषष्ठ()आ अन्त्येऽप्युपसंहाराद् गोहश्चान्तस्य हकारस्य ऊकारः स्यात्। "उपधायाश्च" ७।१।१०१ इति वचनादुपधा-मात्रस्य चेत्यत आह-"इह शास्त्रे या षष्ठ()नियतयोगा" इत्यादि। अनियमप्रसङ्गे नियमोऽनया क्रियते। क्व चानियमप्रसङ्गः? यत्र सन्देहः; यथा-"अस्तेर्भूः" २।४।५२इति। अत्र हि किमस्तेः स्थाने? आहोस्विदनन्तरे? इति सन्देहः, पूर्वत्र तूपधाया अवयवलक्षणस्य स्थानिनो विशिष्टावयविनो व्यवच्छिन्नत्वादवयवष्ठ()एवेयमिति निश्चितम्; ततो नात्रास्या व्यापारः। "स्थानेयोगैव" इति। स्थान इति निमित्तसप्तमी, योगः सम्बन्धः। तेनेदमुक्तं भवति-स्थाननिमित्तकसम्बन्धैवेति। एतदेव विस्पष्टीकुर्वन्नाह-"स्थाने योगस्य निमित्ते" इत्यादि। स्थानेयोगस् निमित्तभूते निमित्तत्वं प्राप्ते सति सा वेदितव्या। भूतशब्दो ह्रत्र प्राप्तशब्दे वर्तते; यथा- "देवभूतः" इत्यत्र देवत्वं प्राप्त इत्यर्थः। निमित्तग्रहणं कुर्वन् सूत्रे स्थानेयोगेति निमित्तसप्त- मीयमिति दर्शयति। योगः पुनरिह स्थान्यादेशभावलक्षणः। कुत एतत्? तस्यैव स्थानि- हेतुत्वात्। स्थानशब्दोभावसाधनः, स्थितिः स्थानम्। तत् पुनस्त्रिधा- "अपकर्षः, निवृत्तिः,प्रसङ्गश्च" इति। गोस्थानेऽ()आओ बध्यतामित्यपकर्षः स्थानशब्दस्यास्थेयः। "श्लेष्मणः स्थाने कटुकमौषधम्" इत्यत्र निवृत्तिः। "दर्भाणां स्थाने शरैरास्तकरित- व्यम्" इति प्रसङ्गः। तत्राद्यावर्थाविह न सम्भवतः; नित्यत्वाच्छब्दार्थसम्बन्धस्य प्रथमो न सम्भवति; सामान्येनास्तेरुपदेशान्न द्वितीयः। तस्मात् तृतीय एवार्थ इति मत्वाह-"स्तानशब्दश्च" इति। प्रसङ्गस्त्वर्थक्रियानिमित्तभूतस्य कालस्यावसरः। " अस्तेस्थाने प्रसङ्गे" इति। अस्तेर्या क्रिया स्वार्थप्रतिपादनलक्षणा, तस्या निमित्तभूतस्य कालस्यावसरः प्राप्त इत्यर्थः। प्रसङ्गे सम्बन्धस्य निमित्तभूत इत्यादिना सूत्रार्थस्योदाहरणे सम्भवं दर्शयति। "ब्राउवः" इति चोपलक्षणमात्रम्। अस्तेरि- त्यादेरपि हि षष्ठी प्रसङ्ग एव सम्बन्धस्य निमित्तभाव उत्पन्ना। के पुनर्बहवः षष्ठ()र्थाः, यतः सम्बन्धान्तरविषयव्यवच्छेदनार्थं षष्ठ()आ इदमुच्यते? इत्याह-"बहवो हि" इत्यादि। शब्दे हि समीपानन्तरविकारावयवादिनिमित्ताः सम्बन्धाः सन्ति। न त्वपत्यापत्यवत्प्रभृतय इत्यतो "यावन्तः शब्दे सम्भवन्ति" इत्याह। अथ स्थानेयोग इत किमसमासः? अथ समासः? यद्यसमासः? तदा योगशब्दस्य पुंल्लिङ्गत्वात् स्त्रीलिङ्गेन निर्देशः, षष्ठीशब्देन च सामानाधिकरण्यं न प्राप्नोति; योगस्याषष्ठीत्वात्। अतः समासः किं तत्पुरुषः? आहोस्विद् बहुव्रीहिः? यदि तत्पुरुषः? तौ च पूर्वोक्तौ दोषौ स्याताम्, सप्तम्या लुकप्रसङ्गश्च। अथ बहुव्रीहिः? एवमपि लुक्प्रसङ्गोऽत्रानिवार्य एवेत्यत आह-"षष्ठी स्थानेयोगा" इत्यादि। गतार्थम्।
बाल-मनोरमा
षष्ठी स्थानेयोग ४०, १।१।४८

षष्ठी स्थानेयोगा। स्थानं प्रसङ्ग इति वक्ष्यति। तस्मिन् वाचकतया योगो यस्याः सा स्थानेयोगा। निपातनात्सप्तम्या अलुक्। स्थानेन योगो यस्या इति वा विग्रहः। निपातनादेत्वम्। "इको यणची"त्यादौ षष्ठी स्थानरूपसम्बन्धार्थिकेत्यर्थः। लोके तावदेकशतं षष्ट()र्था आर्था यौना मौखाः रुआऔवाश्च। शब्दस्य शब्देन त्रय एव संबन्धाः--आनन्तर्यं सामीप्यं प्रसङ्गश्चेति। तत्रान्यतमार्थनिर्धारणार्थमिदं सूत्रमिति भाष्यम्। ततश्च"इको यणची"त्यादौ "इक" इति षष्ट()आ स्थानमुच्यते। तस्मिन् प्रकृत्यर्थ इक् निरूपकतयाऽन्वेति। अचि परत इकः प्रसङ्गे यण्? स्यादिति। विवरणवाक्ये त्वस्मिन् "इक" इति षष्ठी निरूपकतायामिति न पुनरुक्तिः शङ्काः। यता--"देवदत्तस्यावयवः पाणि"रिति। "ऊदुपधाया गोहः" इत्यत्र तु "गोह" इति षष्ठी न स्थानार्थिका, उपपधापदसमभिव्याहारेणाऽवयवषष्ठीत्वनिर्धारणात्, परिभाषाणां चाऽनियमे नियमनार्थमेव प्रवृत्तेः। तदेतदाह-अनिर्धारितेत्यादिना। अनिर्धारितः सम्बन्धविशेषो यस्या इति विग्रहः। तदेवमुदाह्मतप्रकृतभाष्यरीत्या"इको यणची"त्यादौ षष्ठी स्थानरूपसंबन्धविशेषार्थिकेति स्थितम्।ष मतुप्सूत्रभाष्ये त्वनन्तरादयो न षष्ठ()र्था इति स्थितम्। एवं सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम्। षष्ठीश्रुतौ "स्थाने" इति सप्तम्यन्तं पदमुपतिष्ठत इति फलति। स्थानेन स्थानपदार्थेन योगो यस्या इति तृतीयान्तविग्रहे त्वध्याह्मतस्थानपदार्थनिरूपितसंबन्धार्थिकेत्यर्थः। "अस्तेर्भूर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति" इत्यादिप्रकृतसूत्रभाष्यस्य तु अस्तेरनन्तरे इत्यध्याह्मतानन्तरादिपदार्थनिरूपितसम्बन्धे षष्ठीत्येवार्थः। अनन्तरादीनां षष्ठ()र्थत्वं तु नास्त्येवेति प्रौढमनोरमायां हलन्त्यमिति सूत्रे स्थितम्। तद्व्याख्याने च शब्दरत्ने शब्देन्दुशेखरे च बहुधा प्रपञ्चितम्। अनिर्धारितेति किम्()। ऊदुपधाया" इत्यत्र "गोह" इति षष्ठ्याः स्थानार्थकत्वं मा भूत्। सति तु तत्रापि स्थानार्थकत्वे, गोहोऽन्त्यस्य उपधामात्रस्य च ऊत् स्यात्। ननु स्थानशब्द आधारवाची लोके प्रसिद्धः। यथा शिवस्थानं कैलासः, विष्णुस्थानं वैकुण्ठमित्यादौ। एवं च इको यणचीत्यादौ षष्ठ्याः स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेऽभेदेन वा अन्वये सति इकोऽधिकरणे यण् स्यादिति इगधिकरणको यण् स्यादिति वाऽर्थः स्यात्। तत इको निवृत्तिर्न स्यादित्यत आह--स्थानं च प्रसङ्ग इति। क्वचिदाभिचारेष्टौ "दर्भाणां स्थाने शरैःप्रस्तरितव्य"मित्यत्र स्थानशब्दस्य प्रसङ्गे दर्शनादिति भावः। एवं च तत्र यथा शरैर्दर्भा निवत्र्यन्ते, तद्वदिको यणचीत्यादावपि यणादिभिरिगादयो निवत्र्यन्ते। तत्र च यः प्रसक्तो निवर्तते स स्थानीति व्यवह्यियते, यो निवर्तयति स आदेश इति।

तत्त्व-बोधिनी
षष्ठी स्थानेयोगा ३४, १।१।४८

षष्ठी स्थानेयोगा। स्थानेन योगोऽस्या इति विग्रहः। निपातनादेत्वम्। षष्ट()आः संबन्धमात्रवाचित्वेऽपीह शास्त्रे या षष्ठी सा स्थानेयोगा बोध्या। किमविशेषेण?, नेत्याह-अनिर्धारितसंबन्धविशेषेति। अनिर्धारितेति किम्?, "ऊदुपधाया गोहः", "शास इदङ्ह्मलो"रित्यादावुपधासंनिधानेनावयवषष्ठीत्वे निर्णीते "गोहः" "शास" इत्यादौ मा भूत्। सति हि तत्रापि स्थानेयोगत्वे गोहिशासिस्थाने धातुमात्रस्योपधायाश्च स्थाने ऊदितौ स्यातामिति दिक्। स्थानं च प्रसङ्ग इति। न चास्य प्रसङ्गार्थकत्वे विवदितव्यम्, "दर्भाणां स्थाने शरैः प्रस्तरितव्य"मित्युक्ते दर्भाणां प्रसङ्ग इति प्रतीतेः। एवं च "इको यणची"-त्यादाविगुच्चारणप्रसक्तौ यगुच्चारणीय इत्याद्यर्थः संपद्यते।