ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥
अत्र त्रयः पक्षाः सम्भवन्ति- "उः स्थानेऽण् रपरत्वं चानेनोभयं विधीयते"
इत्येकः पक्षः। "लक्षणान्तरेण विहितस्याण उः स्थाने पश्चादनेन रपरत्वमात्रं क्रियते" इति द्वितीयः पक्षः। "उः स्थाने लक्षणान्तरेण विधीयमानोऽण विधानकाल एव तेन
लक्षणान्तरेण सह संहत्य रपरत्वविशिष्टोऽनेन भाव्यते" इति तृतीयः। तत्र यद्याद्यः
पक्ष आश्रीयते, ऋकारस्य स्थान उदात्तादयो न स्युः, अनेन बाधित्वात्; "कृति" इत्यत्र "ञ्नित्यादिनित्यम्"
६।१।१९१ इत्याद्युदात्तो न स्यात्, "प्रकृतम्" इत्यत्र
पूर्वपद्सयाद्युदात्तस्य "गतिरनन्तरः"
६।२।४९इति प्रकृतिस्वरे कृते "अनुदात्तं पदमेकवर्जम्"
६।१।१९२ इत्यनुदात्तो न स्यात्, "उदात्तानुदात्तस्य स्वरितः"
८।४।६५इति स्वरितश्च। यद्यचः स्थाने उदात्तादयो विधीयन्ते, तथापि तेषामन्योऽजवकाश इति
ऋवर्णस्थाने प्रतिपदोक्तोऽणेव रपरः स्यात्। ये चाप्यन्य ऋवर्णस्थाने प्रतिपदमादेशा उच्यन्ते, "ऋत इद्धातोः"
७।१।१०० इत्येवमादिभिर्लक्षणान्तरैस्तेषु रपरत्वं न
स्यात्; ततश्च "किरति" इत्यादि न सिध्येत्।
अथ द्वितीयः पक्ष आश्रीयते, तरतेस्तृजादौ गुणो विधीयमानः प्रमाणत
आन्तरतम्याद् दीर्घस्य दीर्घ एव स्यात्, तथा च "तरिता" इत्यादि न सिध्येत्। किं च-
ण्वुलादौ वृद्धौ विधीयमानामृकारस्य केनचिद् वृद्धिसंज्ञकेनान्तरतम्यविशेषो नास्तीति सर्वे वृद्धिसंज्ञकाः पर्यायेण प्रसज्येरन्। तथा च पक्षे "नायकः, स्तावकः" इत्या-
द्यप्यनिष्टं रूपं स्यात्। इत्येवमाद्ययोः पक्षयोर्दोषवत्तां दृष्ट्वा, तृतीयं पक्षमाश्रित्याह- "उः स्थानेऽण् प्रसज्यमान एव"इत्यादि। एतेन लक्षणान्तरेण विधीयमान-
स्याणो विधानकाल एव तेन सह संहत्य रपरत्वविशिष्टस् विधावियं परिभाषा व्याप्रियत इति दर्शयति। एतच्च स्थानद्वयग्रहणस्यात्रानुवृत्तेर्लभ्यन्ते। पूर्वकेण हि स्थानग्रह-
णेनेहानुवृत्तौ "उः स्थाने" इत्यतदर्थरूपं लभ्यते। द्वितीयेन तु प्रसज्यमान
इत्येतत्। तथा हि- स्थानग्रहणं सप्तम्यन्तं प्रकृतमनुवत्र्तमाने तत्सामथ्र्यात् प्रथमान्तं सम्पद्यते, स्थानशपब्दश्चायं प्रसङ्गवाची। ततश्च यदा स्थानेनाण् विशिष्यते-"अण् स्थानम्" इति, तदा "अण् प्रसज्यमान एव" इत्येषोऽर्थो जायते।
"प्रसज्यमानः" इति। प्रसङ्गेनाभिसम्बध्यमान इति यावत्। "एव" इति। अवधारणं
पुनरत्र व्यवच्छेद फलत्वेन सर्ववाक्यानां सावधारणत्वाल्लभ्यते।
कथं पुनरण् स्थानं
भवति? नैव हि स स्थानं भवति, तद्योगात्तु तत्र स्थानव्यपदेशो भवति, यथा-"यष्टीः
प्रवेशय" इत यष्टियोगात् पुरुषाणां व्यपदेश-।
ननु च "स्थानेऽन्तरतमः" लभ्यते? नैष दोषः, स्वरितत्वचिह्नाद्धि यो यत्रोपष्ठते, स तत्र सामथ्र्यात् तत्कार्ययोग्यस्यै-वार्थस्याभिधाता सन्नुपतिष्ठते। तेन यद्यपि पूर्वसूत्रे स्थानशब्दस्तवादिस्थानवचनः, तथापीहोपतिष्ठमानः प्रसङ्गवचन एवोपतिष्ठते। तेदवं यस्मान्नेदं स्वतन्त्रमणो रपरत्वविशिष्टस्य च विधायकम्। तस्मादाद्ये पक्षे यो दोषः स इह न भवति ततश्च लक्षणान्तरेण विहितस्याणः पश्चादनेन रपरत्वं न विधीयते,
किं तर्हि? प्रसज्यमान एवाण् लक्षणान्तरेण तत्सहायं प्रतिपद्य रपरो भाव्यते। तेन द्वितीये पक्षे यो दोषः, सोऽप्यस्मिन्न भवत्येव। प्रसज्यमानस्यैव हि रपरत्वविधौ यथा ऋवर्णो रश्रुतिमान्(), एवमादेशोऽपि
रश्रुतिमानेव भवति। ततश्चान्तरतम्यादृकारस्य रश्रुतिमतस्तादृश एव रश्रुतिमानेदेशो भवति। अन्ये गुणवृद्धिसंज्ञका व्यावर्तिता भवन्ति। यदि तर्हि प्रसज्यमान एव रपरो
भवति, अनेकल्त्वात् सर्वादेशः प्रसज्येत, नैष दोषः; यदयं "तरति" इति निर्देशं करोति; ततो ज्ञाप्यते-सर्वादेशो न भवतीति।
"कर्ता, हर्ता"इति। "डुकुञ् करणे"(धा।पा।१४७३) "ह्मञ् हरणे" (धा।पा।८९९)
आभ्यां "ण्वुल्तृचौ"
३।१।१३३ इति तृच्, "सार्वधातुकार्धकयोः"
७।३।८४ इति गुणः, "अचो रहाभ्याम्"
८।४।४५ इति द्वित्वम्। "किरति, गिरति" इति। "कृ विक्षेपे" (धा।पा।१४१०) "गृ निगरणे" (धा।पा।१४११)- आभ्यां लट्, "शेषात् कर्तरि परस्मैपदम्"
१।३।७८इति तिप्, तुदादित्वाच्छः, "ऋत इद् धातोः"
७।१।१०० इतीत्त्वम्। "द्वैमातुरः, त्रैमातुरः" इति। द्वयोर्मात्रोरपत्यम्, तिसृणां मातृ()णामपत्यमिति "मातुरुत् संख्यासम्भद्रपूर्वायाः"
४।१।११५ इत्यण्, उकारश्चान्तादेशः। "तद्धितेष्वचामादेः"
७।२।११७ इति वृद्धिः। "खेयम्" इति। "ई च खनः"
३।१।१११ इति क्यप्, इकारश्चान्तादेशः,
"आद्गुणः"
६।१।८४। "सौधातकिः" इति। "सुधातुरकङ च"
४।१।९७ इतीञ्।
तत्संयोगेनाकङादेशः क्रियमाणो रपरो न भवति, अनण्त्वात्। अथ योऽत्राण्,
स रपरः
कस्मान्न भवति? अनादेश्त्वात्। समुदायो ह्रत्रादेशो न तदवयवः। नैष दोषः; यो हि
द्वयोः षष्ठीनिर्दिष्टयोः स्थाने भवति, लभते सोऽन्यतरव्यपदेशम्, यथा- देवदत्तस्य
पुत्रो देवदत्तायाः पुत्रः" इति॥