पूर्वम्: १।१।५१
अनन्तरम्: १।१।५३
 
प्रथमावृत्तिः

सूत्रम्॥ ङिच्च॥ १।१।५२

पदच्छेदः॥ ङित् १।१ अलः ६।१ ५१ अन्त्यस्य ६।१ ५१ षष्ठी १।१ ४८

समासः॥

ङ् इत् यस्य सः ङित्, बहुव्रीहिः

अर्थः॥

षष्ठी निर्दिष्टः यः ङिदादेशः, सः अन्त्यस्य अलः स्थाने भवति। {अनेकाल् शित् सर्वस्य (१।१।५४)} इति वक्ष्यति, तस्य अयं पुरस्तात् अपवादः, अर्थात् अनेकालपि सन् ङिदादेशः अन्त्यस्य अलः स्थाने भवति, न तु सर्वस्य।

उदाहरणम्॥

चेता, नेता। मातापितरौ। होतापोतारौ।
काशिका-वृत्तिः
ङिच् च १।१।५३

ङित् च य आदेशः सो ऽनेकालपि अलो ऽन्त्यस्य स्थाने भवति। आनङृतो द्वन्वे ६।३।२४ होतापोतारौ। मातापितरौ। तातङि ङित्करणस्य गुणवृद्धिप्रतिषेधार्थत्वात् सर्वाऽदेशः तातङ् भवति। जीवताद् भवान्। जीवतात् त्वम्।
लघु-सिद्धान्त-कौमुदी
ङिच्च ४६, १।१।५२

ङिदनेकालप्यन्त्यस्ययैव स्यात्॥
न्यासः
ङिच्च। , १।१।५२

"होतापोतारौ" इति। होतृपोतृशब्दयोद्र्वन्द्व, आनङ्, औप्रत्यये परतः "ऋतो ङिसर्वनामस्थानयोः" ७।३।११० इति गुणः, रपरत्वं च। "अप्तृन्तृच्" ६।४।११ इत्यादिना दीर्घः। "मातापितरौ" इति। "पिता मात्रा" १।२।७० इति यस्मिन् पक्ष एक- शेषो नास्ति, तत्रेदमुदाहरणम्। यदि ङिदादेशोऽनेकालप्यन्त्यस्य भवति, एवं सति तातङ- प्यन्त्यस्य भवतीत्यत आह-"तातङि" इत्यादि। तत्र गुणप्रतिषेधार्थम् चिनुतादित्यादौ। अत्र हि सार्वधातुकलक्षणस्य गुणस्य प्राप्तिः। वृद्धिप्रतिषेधार्थम्- मृष्टादिति। अत्र हि "मृजेर्वद्धिः" ७।२।११४ इति वृद्धिप्राप्तिः। तदेवं गुणवृद्धिप्रतिषेधे चरितार्थत्वात् तातङो ङित्करणस्य सावकाशत्वे सति तस्मिन परत्वात "अनेकाल्शित्सर्व- स्य" १।१।५४ इत्यनेन तातङ सर्वादेशो भवति। ङिच्चेत्यस्यावकाशः- "होतापोतारौ" इत्यादि। अनेकालित्यादेरवकाशो योन ङित्-"अस्तेर्भूः" २।४।५२, भवितेत्यादि। "जीवतात्" इत्यादावुभयप्राप्तौ परत्वदनेकाल्त्वात् तातङ सर्वादेशो भवति, " जीवताद् भवान्" "जीवतात् त्वम्" इति। जीवतादिति "आशिषि लिङलोटौ" ३।३।१७३ इति लोट्, तिप्, "एरुः" "तु ह्रोस्तातङ्" ७।१।३५ इत्यादिना तातङ॥
बाल-मनोरमा
ङिच्च ४५, १।१।५२

ङिच्च। ङकार इद्यस्य स-ङित्। "अलोऽन्त्यस्ये"त्यनुवर्तते। तदाह--अयमपीति। ङिदमपीत्यर्थः। अवङ् तावङ् अनङित्यादिरादेश उदाहरणम्।

नन्वलोऽन्त्यस्येति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-सर्वस्येति। "अनेकाल् शित् सर्वस्ये"ति वक्ष्यमाणस्य सर्वादेशत्वविधेरयं विधिरपवादः। अपोद्यते बाध्यते अनेनेति अपवादः। बाहुलकः करणे घञ्। येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इत्यपवादलक्षणम्। अप्राप्ते इति भावे क्तः। "येने"ति कर्तरि तृतीया। द्वौ नञावावश्यकत्वं बोधयतः। यत्कर्तृकावश्यकप्राप्तौ सत्यां यो विधिरारभ्यते स आरभ्यमाणविधिस्तस्याऽवश्यप्राप्तस्य अपवादो बाधक इति तदर्थः। अयं च न्यायसिद्धः। अवङादयो हि ङित आदेशाः सर्वेऽनेकाल एव। तेषु चानेकाल्विशेषेषु विधीयमानेन ङितामन्त्यादेशत्वेन स्वविषये अवश्यं प्राप्तमनेकाल्सामान्येन विहितं सर्वादेशत्वं बाध्यते, विशेषविहितत्वात्, निरवकाशत्वाच्च। विशेषशास्त्र हि विशेषेषु झटिति प्रवत्र्तते, विशेषाणां स्वशब्देनोपात्तत्वात्। सामान्यशास्त्रं तु सामान्यमुखेन विशेषेषु प्रवर्तत इति तस्य तेषु मन्दप्रवृत्तिः। अतो विशेषशास्त्रं प्रबलम्। उक्तं च भट्टवार्तिके "अवश्यमेव सामान्यं विशेषं प्रति गच्छति। गतमात्रं च तत्तेन विशेषे स्थाप्यते ध्रुवम्॥" इति। किं च यदि ङिच्चेति शास्त्रमनेक#आल्विशेषेषु ङित्सु न प्रवर्तेत, तर्हि तदनर्थकमेव स्यात्। "अनेकाल्शित्सर्वस्ये"त्यस्य तु ङित्सु अप्रवृत्तावपि नानर्थक्यम्, तस्थस्थमिपां तान्तंताऽमः" "अस्तेर्भू"रित्यादिष्वनेकाल्षु अङित्सु तस्य सावकाशत्वात्। अतो विशेषशास्त्रं प्रबलमिति।

तत्त्व-बोधिनी
ङिच्च ३९, १।१।५२

ङिच्च। अयमपीति। "अवङ् स्फोटायनस्य"-गवाग्रम्। "अनङ् सौ"-सखा। परस्य यदिति। "तस्मादित्युत्तरस्यादे"रिति न सूत्रितम्, "आदे"रित्यंशस्य सर्वादेशबाधकत्वापत्तेः। सिद्धान्ते तु परत्वात्सर्वादेशत्वं बाधकमित्नुपदमेव वक्ष्यति। आदेर्बोध्यमिति। आदेरलो बोध्यमित्यर्थः। "अल" इति ह्रनुवर्तते।