पूर्वम्: १।१।५२
अनन्तरम्: १।१।५४
 
प्रथमावृत्तिः

सूत्रम्॥ आदेः परस्य॥ १।१।५३

पदच्छेदः॥ आदेः ६।१ परस्य ६।१ अलः ६।१ ५१ षष्ठी १।१ ४८

अर्थः॥

परस्य उच्यमानं कार्यम् आदेः अलः स्थाने भवति। {तस्मादित्युत्तरस्य (१।१।६६)} इति वक्ष्यति, तस्य इदं शेषसूत्रम्

उदाहरणम्॥

आसीनः। द्वीपम्, अन्तरीपम्, समीपम्।
काशिका-वृत्तिः
आदेः परस्य १।१।५४

परस्य कार्यं शिष्यमाणम् आदेरलः प्रत्येतव्यम्। क्व च परस्य कार्यम् शिष्यते? यत्र पञ्चमीनिर्देशः। तद् यथाईदासः ७।२।८३ आसीनो यजते। द्व्यन्तरुपसर्गेभो ऽप ईत् ६।३।९६ द्वीपम्। अन्तरीपम्। प्रतीपम्। समीपम्।
लघु-सिद्धान्त-कौमुदी
आदेः परस्य ७२, १।१।५३

परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥
न्यासः
आदे परस्य। , १।१।५३

अलोऽन्त्यस्यापवादोऽयम्। शास्त्रे न क्वचित् परस्येतुच्चार्य कार्यं विधीयते। ततश्च निर्विषयमेतदित्यभिप्रायेणाह-"क्व च" इत्यादि। "यत्र पञ्चमीनिर्देशः"इति। "तस्मादित्युत्तरस्य" १।१।६६ इति वचनाद् यत्र पञ्चमीनिर्देशस्तत्र परस्य कार्यं शिष्यते। "आसीनः" इति। "आस उपवेशने" (धा।पा।१०२१), लट्, अनुदात्तेत्वादात्मनेपदम्, शानच्, अदादित्वाच्छपो लुक्। "द्वीपम्, अन्तरीपम्" "समीपम्" इति। द्विर्गता अन्तर्गताः सङ्गता" आपोऽस्मिन्निति विगृह्र बहुव्रीहिः। "ऋक्पूः" ५।४।७४ इत्यादिना अकारप्रत्ययः समासान्तः॥
बाल-मनोरमा
आदेः परस्य ४६, १।१।५३

आदेः परस्य। परस्येति। "द्व्यन्तरुपसर्गेभ्योऽप ई"दित्यादौ "तस्मादित्युत्तरस्ये"ति परिभाषायां परस्य नियमितं कार्यं यत् तत्तस्यादेरेव भवति, नत्वलोऽन्त्यस्येति तदन्तस्येत्यर्थः। तदाह--अलोन्त्यस्येत्यस्यापवाद इति। तत्र "अल" इत्यप्यनुवर्तनीयम्। तेन "द्वीप"मित्यत्र ईत्वं पान्तसमुदायस्य न भवति।