पूर्वम्: १।१।५
अनन्तरम्: १।१।७
 
प्रथमावृत्तिः

सूत्रम्॥ दीधीवेवीटाम्॥ १।१।६

पदच्छेदः॥ दीधीवेवीटाम् ६।३ इकः ६।१ गुणवृद्धी १।२

समासः॥

दीधी च वेवी च, इट् च दीधीवेवीटः, तेषां दीधीवेवीटाम्, इतरेतरद्वन्द्वसमासः

अर्थः॥

दीधीङ् (दीप्तिदेवनयोः), वेवीङ् (वेतिना तुल्ये) छान्दसौ धातू अदादिगणे पठितौ स्तः। दीधीवेव्योः इटश्च इकः स्थाने ये गुणवृद्धी प्राप्नुतः, ते न भवतः।

उदाहरणम्॥

आदीध्यनम्, आदीध्यकः, आवेव्यनम्, आवेव्यकः॥ पठिता कणिता।
काशिका-वृत्तिः
दीधीवेवीइटाम् १।१।६

दीधीवेव्योः इटश्च ये गुणवृद्धी प्राप्नुतः, ते न भवतः। आदीछ्यनम्, आदीद्यकः। आवेव्यनम्, आवेव्यकः। इटः खल्वपि कणिता श्वः। रणिता श्वः। वृद्धिरिटो न संभवति इति लघूपधगुणस्यात्र प्रतिषेधः।
न्यासः
दीधीवेवीटाम्। , १।१।६

"दीधीवेव्योः" इति। दीधीङ दीप्तिदेवनयोः" (धा।पा। १०७६); "वेवीङ वेतिना तुल्ये (धा।पा।१०७७) इत्येतयोग्र्रहणम्। ननु च "दीङ क्षये" (धा।पा। ११३४) "धीङ अनादरे"(धा।पा।११३६), "वेञ् तन्तुसन्ताने" (धा।पा।१००६) "वी गतिप्रजनकान्त्यसनखादनेषु" (धा।पा।१०४८) इत्येतेषां ग्रहणं कस्मान्न विज्ञायते? यद्येषां ग्रहणमभिमतं स्यादसन्देहार्थं "वीवेधीदीटाम्" इत्येवं न्यासं कुर्यात्। अन्यथा तु कृतम्। तस्मात् पूर्वोक्तयोरेव धात्वोरिह ग्रहणम्। इटश्चेति- "आर्धरधातुकस्य" ७।२।३५ इत्यादिना विहितस्य। अथ "इट्, किट, कटी गतौ" (धा।पा।३१८,३१९३२०) इत्यस्य ग्रहणं कस्मान्न भवति, युक्तं चैतत्, धातुसाहचर्यात्? नैतदस्ति; इह"अल्पाच्तरम्" २।२।३४ इत इटः पूर्वनिपाते कत्र्तव्ये तद्विपर्यासं कुर्वतैतत् सूचितम्-"अन्योऽ- प्यत्र कश्चिद्विपर्यासो विज्ञेयः" इति। तेन धातुसाहचर्याद्धातुग्रहणे प्राप्ते तद्विपरीतस्यैवागमस्य ग्रहणं विज्ञायते। "आदीध्यनम्" इति। ल्युट्। "आदीध्यकः" इति। ण्वुल्।"कणिता ()आः, रणिता ()आः" इति। "अण रण कण" (धा।पा।४४४,४४५,४४९) इत्यादौ शब्दार्थे धातुवर्गे कणिरणी पठ()एते , ताभ्यां लुटि स्यताशी लृलुटोः" ३।१।३३ इति तासिः, "लुटः प्रथमस्य "२।४।८५ इत्यादिना तिषो डादेशः, टिलोपः, "आर्धधातुकस्य" ७।२।३५ इत्यादिनेट्। अथेटो वृद्धेरुदाहरणं कस्मान्न प्रदर्शितमित्याह- "वृद्धिरिटो न सम्भवति" इति। अङ्गस्य वृद्धिर्ञ्णिदादौ प्रत्यये विधीयते इट् चायमार्धधुकभवतः। न चार्धधातुकस्याङसञ्ज्ञास्ति ञ्णिदादौ प्रत्यये। तस्मादिटो वृद्धिर्न भवति।
बाल-मनोरमा
दीधीवेवीटाम् ३९, १।१।६

दीधीवेवी। "दीधीह् दीप्तिदेवनयोः" "वेवीङ् वेतिनी तुल्ये"। दीधीश्च वेवीश्च इट् चेति द्वन्द्वात् षष्ठी। "इको गुणवृद्धी" इत्यतो गुणवृद्धी इति, "न धातुलोप" इत्यतो नेति चानुवर्तते।