पूर्वम्: १।१।६८
अनन्तरम्: १।१।७०
 
प्रथमावृत्तिः

सूत्रम्॥ तपरस्तत्कालस्य॥ १।१।६९

पदच्छेदः॥ तपरः १।१ तत्कालस्य ६।१ सवर्णस्य ६।१ ६८ स्वम् १।१ ६७ रूपम् १।१ ६७

समासः॥

तः परः यस्मात् सोऽयं तपरः, बहुव्रीहिः। अथवा तादपि परः तपरः, पञ्चमीतत्पुरूषः।
तस्य कालः, तत्कालः, षष्ठीतत्पुरुषः। तत्कालः कालः यस्य, सः तत्कालः, उत्तरपदलोपी बहुव्रीहिसमासः।

अर्थः॥

तपरः वर्णः तत्कालस्य सवर्णस्य (गुणान्तरयुक्तस्य च), स्वस्य रूपस्य च ग्राहकः भवति।

उदाहरणम्॥

{अतो भिह् एस् (७।१।६)} वृक्षैः प्लक्षैः। {आत् औ णलः (७।१।३४)} पपौ ददौ
काशिका-वृत्तिः
तपरस् तत्कालस्य १।१।७०

तः परो यस्मात् सो ऽयं तपरः, तादपि परः तपरः। तप्रो वर्णस् तत्कालस्य, आत्मना तुल्यकालस्य गुणान्तरयुक्तस्य सवर्णस्य ग्राहको भवति, स्वस्य च रूपस्य। विद्Hयर्थम् इदम्। अणिति न अनुवर्तते। अणामन्येषां च तपराणाम् इदम् एव ग्रहणकशास्त्रम्। अतो भिस ऐस् ७।१।९ इत्येवम् आदिषु पूर्वग्रहणकशास्त्रं न प्रवर्तत एव। अतपरा अणस्तस्य अवकाशः। किम् उदाहरणम्? अतो भिस ऐस् ७।१।९ वृक्षैः। प्लक्षैः। विड्वनोरनुनासिकस्य आत् ६।४।४१ अब्जाह्, गोजाः। तत्कालस्य इति किम्? खट्वाभिः। मालाभिः।
लघु-सिद्धान्त-कौमुदी
तपरस्तत्कालस्य २६, १।१।६९

तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥
न्यासः
तपरस्तत्कालस्य। , १।१।६९

तःपरो यस्मात् सोऽयं तपर इति बहुव्रीहिं दर्शयति, तादपि परस्तपर इति पञ्च-मीतत्पुरुषं च। स पुनः पञ्चमीति योगविभागात् समास इति वेदितव्यः। कथं पुनरेतत् समासद्वयं लभ्यते, यावतैकस्परशब्दः? एकस्याप्यावृत्त्या द्विधा भेदो भविष्यतीत्यदोषः। अत्र हि बहुव्रीहेर्लिङ्गम्--"अतो भिस ऐस्" ७।१।९ इति तपरकरणम्। न ह्रत्र पञ्चमी तत्पुरुष उपपद्यते। अवर्णो ह्रत्र तपरोऽभिमतः, न भिस्। यदि चेह पञ्चमीतत्पुरुषः स्यात्, तर्हि भिस् तपरः स्यात्; यतस्तपरो वर्ण इहोच्यते, न चासौ वर्णः, किं तर्हि? तत्समुदायः। पञ्चमीतत्पुरुषे तु लिङ्गम्--"वृद्धिरादैच्" १।१।१ इति तपरकरणम्। न ह्रत्र बहुव्रीहिर्युज्यते। यदि बहुव्रीहिः स्यात् तदाऽ‌ऽकारस्य तपरत्वं स्यात्,न चाऽ‌ऽकारार्थं तपरकरणम्(), अपि त्वैजर्थम्। एतच्च तत्रैव प्रतिपादितम्। सवर्णस्येति वत्र्तते, वर्णस्य च सवर्णो न भवति, ननु वर्णसमुदायस्य; तस्मादविशेषाभिधानेऽपि वर्ण एव तपरो विज्ञायत इत्याह-- "तपरो वर्णः" इति। तत्कालस्येति बहुव्रीहिः-- स कालोऽस्येति। अयुक्तोऽयं निर्देशः। तथा हि -- तच्छब्देन तपरः परामृश्यते, तपरश्च वर्णः। कालस्तु क्रियाविशेष इष्यते। तथा ह्रुक्तम्--- आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे। भिन्नमावृत्तिभेदेन कालं कालविदो विदुः॥ (वा।प।३।९।७६) इति। तत् कुतो वर्णक्रियाविशेषाभिधायिनोस्तपरकालशब्दयोः सामानाधिकरण्यम्? एवं तत्काल इव कालो यस्य स तत्काल इति। अस्यार्थं दर्शयितुमाह-- "आत्मना" इत्यादि। यद्यपि तपरकरणसन्निधानादिहात्मशब्दस्य तत्र वृत्तिर्युक्ता; तथापीह साहचर्यात् तत्सहचरितायामुच्चारणक्रियायां कालाख्यायां स वत्र्तते। कुत एतत्? तपरेण वर्णेन क्रियायास्तुल्यत्वानुपपत्तेः। सम्भवति साहचर्यात् ताच्छब्द्यम्। तदेतदुक्तं भवति- तपर- वर्णसहचरितया क्रियया तुल्यकालस्येति यादृशी तपरवर्णस्योच्चारणक्रिया तादृगुच्चारण- क्रिया यस्येति यावत्। "गुणान्तरयुक्तस्य" इति। यन गुणेन धर्माख्येनोदात्तादिना विशिष्ट उच्चारितस्ततोऽन्यैरुदात्तादिभिर्गुणैः सम्बद्धस्येत्यर्थः। "स्वस्य च रूपस्य" इति। इहापि तदनुवृत्तेः। इहेदं सूत्रं नियमार्थं वा स्यात्? विध्यर्थं वा? यद्यणित्यनुवत्र्तते,ततः पूर्वेणैव "सिद्धे सत्यारम्भो नियमा- र्थो भवति"--- (कात्य।प।६२)तपरोऽण् तत्कालस्यैव ग्राहको भवति, नान्यस्येति। अथाणिति निवृत्तम्, ततो विध्यर्थम्। तत्राद्ये पक्षे "विड्वनोरनुनासिकस्यात्" ६।४।४१ इत्याकारो दीर्घस्तपरो निरनुनासिकः सूत्र उपात्तः "भेदका गुणाः" इत्यस्मिन् दर्शने सानुनासिकस्य ग्राहको न स्यात्; अनण्त्वात्। ततश्च निरनुनासिक एवादेशः स्यात्। इतरत्र तु पक्षे सत्यपि भेदकत्वे गुणानामेष दोषो न भवतीति मन्यमानो द्वितीयं पक्षमाश्रित्याह-- "विध्यर्थमिदम्" इति। कथं विध्यर्थमित्याह-- "अणिति नानुवत्र्तते" इति। "अणामन्येषां च " इत्यादि। युक्तं यदन्येषामेव तपराणां ग्रहणकशास्त्रमिति तेषां पूर्वेण ग्रहणस्यासिद्धत्वात्। अणां तु पूर्वेणैव सिद्धे ग्राहकत्वे कथममित्यत आह--- "अतो भिस ऐस्" इत्यादि। स्यादेतत्, इहापि तत् प्रवृत्तमेवानवकाशत्वादित्यत आह-- "अत पराः" इत्यादि।"आद्गुणः" १।३।८७ इत्यादावतपरा अणोऽवकाशः।अस्य त्वनणस्तपरा दीर्घाः। यथा "विड्- वनोरनुनासिकस्यात्" १।४।४१इति। ये त्वणस्तपराः, तेषूभयप्राप्तौ परत्वादिदमेव ग्रहणकशास्त्रं प्रवत्र्तत इत्यभिप्रायः। "वृक्षै प्लक्षैः" इति। तृतीयाबहुवचनं भिस्।"अतो बिस ऐस्" (७।१।९ इत्यैसादेशः; वृद्धिरेचि" ६।१।८५ इति वृद्धिः। "अब्जाः गोजाः" इति। "जनी प्रादु- र्भावे" (धा।पा।११४९) अप्सु जायते, गोषु जायत इति-- "दजनसनकखनक्रमगमो विट्" ३।२।६। "खट्वाभिः" इति। कतं पुनरेतत् प्रत्युदाहरणम्, यावता "अन्तादिवच्च" ६।१।८२ इत्यन्तादिवद्भावे भवितव्यमेवात्रैस्भावेन, तपरकरणस्य तु य्तरैकादेशो नास्ति तद्()वयवच्छेद्यं भविष्यति-- "कीलालपाभिः, सोमपाभिः" इत्यादि? नैष दोषः; अन्तदिवच्च" ६।१।८२ इत्यत्र वक्ष्यति--- "वर्णाश्रयविधावन्तादिवद्भावो नेष्यते" इति। तथा हि-- खट्वाभिरितद्यत्रान्तवद्भावाभावात् "अतो भिस ऐस्" ७।१।९ न भवतीति। अथ वा -- "अतः" इत्यत्राकारद्वयप्रश्लेषः कृतः, श्रूयमाणादतो यथा स्यात्।
बाल-मनोरमा
तपरस्तत्कालस्य १७, १।१।६९

ग्रहणकसूत्रेऽण्सवर्णानां ग्राहक इति स्थितम्। एवं सति अत् इत् उत् इत्यादितपराणामप्यणां स्वस्वसर्वसवर्णग्राहकत्वे प्राप्ते इदमारभ्यते--तपरस्तत्कालस्य। "तपर" इत्यावर्तते। प्रथमस्तावत्तपरशब्दः-तः परो यस्मादिति बहुव्रीहिः। द्वितीयस्तु तात् पर इति पञ्चमीसमासः। ग्रहणकसूत्रादणित्यनुवर्तते। तस्य तपरत्वेन उच्चार्यमाणवर्णस्य काल इव कालो यस्येति बहुव्रीहिः। ऊकालः उष्ट्रमुख इत्यादिवत् समासः। एवं च "अत्"ित्" इत्याद्यात्मकोऽण् तपरत्वेन उच्चार्यमाणः स्वीयकालसदृशकालस्य संज्ञा स्यादित्यर्थः। तत्र अत् इत् उत् ऋत् इत्येतेषां तपराणां ह्यस्वाकारादीनामणां तत्तत्कालास्तत्तद्ध्रस्वप्रपञ्चाः। एत्, ऐत्, ओत्ौत् इत्येतेषां तु तपराणामेकारादीनां तत्तत्कालास्तत्तद्दीर्घप्रपञ्चाः। तत्र ह्यस्वाकारादीनां तपराणां तत्तद्ध्रस्वप्रपञ्चावाचकत्वस्य एकारादीनां च दीर्घाणां तपराणां स्वस्वदीर्घप्रपञ्चवाचकत्वस्य लोकसिद्धत्वात् "सिद्धे सत्यारम्भो नियमार्थः" इति न्यायेन सूत्रमिदं नियमार्थं सम्पद्यते--"अण् तपरश्चेत्तत्कालस्यैव सवर्णस्य ग्राहको न त्वतत्कालस्ये"ति। एवं च अतत्कालनिवृत्त्यात्मकपरिसंख्यार्थंमिदं सूत्रम्। वैयाकरणस्तु परिसंख्याविधिमेव नियमविधिरिति व्यवहरन्ति। तदिदं सर्वमभिप्रेत्य व्याचष्टे--तः परोयस्मादित्यादिना। नियमविधानस्य फलमाह--तेनेत्यादिना। तेन=नियमविधानेन। आदिना लृदित्यादिसंग्रहः। अत्, इत्, उत्, लृत्, एत, ऐत्, ओत्, औत्--इत्येते अष्टौ तपरा अणः स्वस्वसमानकालानां षण्णां षण्णामेव संज्ञाः , न त्वतत्कालानामित्यर्थः। ऋदिति द्वादशानामिति। ऋलृवर्णयोरिति सावण्र्यविधानादिति भावः। नन्वेवम्लृदित्यपि द्वादशानां ग्रहणं स्यात्, तथा च "पुषादिद्युताद्य्()लृदितः" इत्यादिविधय ऋदित्सवपि प्रवर्तेरन्निति चेन्न, ऋदित्यनेन लृकारप्रपञ्चस्य ग्रहणेऽपि क्वचित् लृदिद्ग्रहणबलेन लृ इत्यनेन ऋकारप्रपञ्चस्य ग्रहणाऽभावात्। अन्यथा "ऋतो ङी"त्यादौ क्वचित् ऋद्ग्रहणस्य पुषादिद्युताद्य्()लृदित इत्यादौ क्वचित् लृदिद्ग्रहणस्य च वैयथ्र्यापत्तेः। प्रथमातिक्रमणे कारणाऽभावेन सर्वत्र ऋदिद्ग्रहणस्यैव कर्तु शक्यत्वात्। इदमेवाभिप्रेत्य ग्रहणकसूत्रे ऋदिति द्वादशानामित्येवोक्तम्, नतु लृदंपीति। अत्र च तः परो यस्मादिति बहुव्रीहेः-अत्, इत्, उत् इत्याद्युदाहरणम्। तात्पर इति पञ्चमीसमासस्य तु वृद्धिरादैजित्यैकार उदाहरणम्। आत् ईत् ऊत् इत्यादि तु न तपरसूत्रस्योदाहरणम् , आकारादिषु हि तपरसूत्रमपूर्वविधानार्थम्, उत नियमार्थम्?, नाद्यः, तपरसूत्रे अण्ग्रहणानुवृत्त्यभावेऽपि जातिपक्षे आकारादिभिर्दीर्घैः स्वस्वसमानकालिकप्रपञ्चस्य वाच्यताया लोकत एव सिद्धत्वेन तेषु तपरसूत्रप्रवृत्तेव्र्यर्थत्वात्। न द्वितीयः। उक्तरीत्या ग्रहणकसूत्रस्य वार्णसमाम्नायिकवर्णमात्रविषयतया आकारादिषु तस्य प्रवृत्त्यसम्भवेन तपरसूत्रस्य तेष्वतत्कालव्यावृत्तिफलकतन्नियमनार्थत्वानुपपत्तेः, सिद्धे सत्यारम्भस्यैव नियमार्थत्वात्। एवं च आत्, ईदित्यादि तपरकरणमसन्देहार्थमेवेत्यास्तां तावत्। तदेवं वृत्तः प्रत्याहारप्रपञ्चो ग्रहणकशास्त्रप्रपञ्चश्च।

तत्त्व-बोधिनी
तपरस्तत्कालस्य १६, १।१।६९

स च तापरश्चेति। तव्रादिना उभयं विवक्षितमिति भावः।