पूर्वम्: १।१।६
अनन्तरम्: १।१।८
 
प्रथमावृत्तिः

सूत्रम्॥ हलोऽनन्तराः संयोगः॥ १।१।७

पदच्छेदः॥ हलः १।३ अनन्तराः १।३ संयोगः १।१

समासः॥

न विद्यतेऽन्तरं येषां, ते अनन्तराः, बहुव्रीहिः

अर्थः॥

अनन्तराः व्यवधानरहिताः हलः संयोगसंज्ञकाः भवन्ति।

उदाहरणम्॥

अग्निः, अत्र ग् न्। अश्वः अत्र श् व्। इन्द्रः अत्र न् द् र्। गोमान्, यवमान्, चितवान्।
काशिका-वृत्तिः
हलो ऽनन्तराः संयोगः १।१।७

भिन्नजातीयैरज्भिरव्यवहितः श्लिष्टौच्चारिता हलः संयोगसंज्ञा भवन्ति। समुदायः संज्ञी। जातौ चेदं बहुवचनम्। तेन द्वयोर् बहूनां च संयोगसंज्ञा सिद्धा भवति। अग्निः इति गनौ। अश्वः इति शवौ। कर्णः इति रणौ। इन्द्रः, चन्द्रः मन्द्रः इति नदराः। उष्ट्रः, राष्ट्रम्, भ्राष्ट्रम् इति षटराः। तिलान्स्त्र्यावपति इति नसतरयाः, नतसतरया वा। हलः इति किम्? तितौच्छत्रम् संयोगान्तस्य लोपः ८।२।२३ इति लोपः स्यात्। अनन्तराः इति किम्? पचति पनसम् स्कोः संयोगाऽद्योरन्ते च ८।२।२९ इति लोपः स्यात्। संयोगप्रदेशाः सम्योगान्तस्य लोपः ८।२।२३ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
हलोऽनन्तराः संयोगः १३, १।१।७

अज्भिरव्यवहता हलिः संयोगसंज्ञाः स्युः॥
न्यासः
हलोऽनन्तराः संयोगः। , १।१।७

अन्तरं छिद्रं विवरं वर्णशून्यः काल इत्यर्थः। न विद्यतेऽन्तरं यषां ते तथोक्ताः। "भिन्नजातीयैः" इत्यादि। भिन्नजातीयैरिति वचनं भिन्नजातीयानामेव लोके व्यवधायकत्वदर्शनात्। तथा हि कश्चित् केनचित् किमनन्तरे परे ब्राआहृणकुले इति पृष्टः सन्नाह- नानन्तरे, वृषलकुलमनयोर्मध्ये प्रतिवसीति। "श्लिष्टोच्चारितस्य हलः सञ्ज्ञा स्यादिह निर्वायाय्, निर्यायादिति "वान्यस्य संयोगादेः" ६।४।६८ इत्येत्वं स्यात्, इह च "संस्कषीष्ट" इति "ऋतश्च संयोगादेः" ७।२।४३ इतीट्, इह च "संस्क्रियते" इति "गुणोऽर्तिसंयोगाद्योः" ७।४।२९ इति गुणः- इत्येवमादयोऽन्येऽपि बहवो दोषाः प्रत्येकं हलां सञ्ज्ञित्वे भाष्य उद्भाविताः। यद्यपि तत्रैव ते कथ- ञ्चित् प्रयासेन परिह्मताः, तथापि यस्तु तत्परिहारेण प्रतिपत्तौ साध्यायां प्रति- पत्तिगौरवदोष आपद्यते सोऽपरिहार्य एव। समुदाये तु सञ्ज्ञिनि दोषाशङ्काऽपि नास्ति। तस्मात् स एव सञ्ज्ञी युक्त इत्यालोच्याह- "समुदायः सञ्ज्ञी" इति। ननु च यत्र सहभूतानां कार्यमिच्छति तत्र यत्न आरभ्यते, यथा- "उभे अभ्यस्तम्" ६।१।५ इति उभेग्रहणं करोति, न चेह कश्चिद्यत्नः कृतः, तत्कथं समुदायस्य सञ्ज्ञा लभ्यते? इहापि कृत एव यत्न इत्यदोषः। पुनरसौ? महत्याः सञ्ज्ञायाः करणम्। "लघ्वर्थं हि सञ्ज्ञाकरणम्" (व्या।प।१३५) इति महत्याः सञ्ज्ञायाः करणं प्रयोजनमन्तरेण न सम्भाव्यते। तस्मान्महानत्र सञ्ज्ञीत्येतत् सूचयितुं महती सञ्ज्ञा कृतेति गम्येति। तथा चोक्तम्- "इङ्गितेनोन्मिषितेमन महता वा सूत्रप्रबन्धेनाचार्याणामभिप्रायो लक्ष्यते" इति। एवं च महान् सञ्ज्ञी भवति, यदि समुदायः सञ्ज्ञी भवति, नैकैको हळ्। तस्मादुप- पन्नमेतत् समुदायः सञ्ज्ञीति "हलः" इति बहुवचननर्देशाद्()द्वयोः सञ्ज्ञा न सिद्ध्यतीति यश्चोदयेत् तं प्रत्याह- "जातौ च " इत्यादि। चशब्दो यस्मादर्थे। यस्माज्जातौ बहुवचनं तेन द्वयोर्बहूनां च संयोगसञ्ज्ञा सिद्धा भवति। अग्निरित्यादिकं रूपोदाहरणं द्रष्टव्यम् "तिलान्स्त्रावपति" इत्यादि। "हे मपरे वा" ८।३।२६ इत्यतो वेति वत्र्तमाने , "डः सि धुट्" ८।३।२९ इत्यतो धुडिति च, "नश्च" ८।३।३० इति पक्षे धुट्, "खरि च" ८।४।५४ इति च तकारः। तत्र यदा धुण्()नास्ति तदा"नसतयाः" इति। यदा त्वस्ति तदा "नतसतरयाः"। "तितौच्छत्रम्" इति। "तनोतेर्डौः सन्वच्च(द।उ।१।१६०) इति डौ- प्रत्यये टिलोपे द्विर्वचने च कृते रूपम्। "संयोगान्तस्य लोपः"स्यात् इति। यद्य- त्राकारस्योकारेण सञ्ज्ञा स्यादित्यभिप्रायः। न च लोपे सत्युकारोपदेशस्य वैयथ्र्यमाशङ्कनीयम्। यत्र पदसञ्ज्ञा नास्ति तितौनीत्यादौ, तत्र श्रूयमाणत्वात्। "पचति" इति रूपप्रत्युदाहरणम्, "पनसम्" इति कार्यप्रत्युदाहरणम् "स्कोः संयोगाद्योरिति लोपः स्यात्" इति। यदि सकारनकारयोः सान्तरयोरपि संयोगसञ्ज्ञा स्यादिति भावः।
बाल-मनोरमा
हलोऽनन्तराः संयोगः ३२, १।१।७

हलोऽनन्तराः संयोगः। "अन्तर"शब्दोऽत्र व्यवधाने वर्तते। "अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये" इत्यमरः। व्यवधानं च विजातीयेनैव। अविद्यमानमन्तरं व्यवधानं येषामिति विग्रहः। "नञोऽल्त्यर्थाना"मिति विद्यमानपदस्य लोपः। तदाह--अज्भिरित्यादिना। तत्र हलौ च हलश्च हल इत्येकशेषः। तेन द्वयोरपि संयोगसंज्ञा लभ्यते। ततश्च शिक्षेत्यत्र "गुरोश्च" हलः इत्यप्रत्ययः सिध्यति। अत्र च समुदायस्यैव संयोगसंज्ञा, महासंज्ञाकरणात्, व्याख्यानाच। नतु प्रत्येकम्। तथा सति "सुदृषत्प्रासाद" इत्यत्र पकारसन्निधौ तकारस्य संयोगत्वापत्तौ संयोगान्तलोपापत्तेः। यत्र तु बहवो हलः श्लिष्टास्तत्रापि द्वयोद्र्वयोः संयोग९संज्ञा न तु बहूनामेवेति शब्देन्दुशेखरे स्पष्टम्।

तत्त्व-बोधिनी
हलोऽनन्तराः संयोगः ३७८, १।१।७

हलोऽनन्तराः संयोगः। तध्वर्थमेकाक्षरायां संज्ञायां कर्तव्यायां "संयोग" इति महासंज्ञाकरणमन्वर्थसंज्ञाज्ञापनार्थं-संयुज्यन्तेऽस्मिन्समुदाये वर्णा इति। तेनात्र समुदाये वाक्यपरिसमाप्तिर्न तु गुणवृध्द्या दिसंज्ञावत्प्रत्येकम्। तथाहि सति "दृषद्विभर्ती"त्यत्र बकारसंनिधौ दकारस्य संयोगत्वात्संयोगान्तलोपः स्यात्। "निर्याया"दित्यत्र यकारः संयोग इति "वान्यस्य संयोगादे"रित्येत्त्वं स्यात्। सिद्धान्ते तु "अचो रहाभ्या"मिति द्वित्वे सत्यपि तस्याऽसिद्धत्वादेत्त्वमत्र न भवति। "हल" इति जातौ बहुवचनम्, "जात्याख्यायामेकस्मिन्बहुवचन"मिति वचनात्। तेन द्वयोरपि संयोगसंज्ञा भवतीति "शिक्षे"त्यादौ "गुरोश्च हलः" इत्यप्रत्ययः सिध्यति। यत्र बहवो हलः संश्लिष्टास्तत्र द्वयोर्बहूनां चाऽविशेषेण संज्ञेति स्थितमाकरे। यदि तु बहूनामेव स्यात्तर्हि "गोमान्तकरोती"त्यत्र मतुपस्तकारस्य संयोगान्तलोपो न स्यादिति दिक्। हलः किम्?, तितौभ्याम्। अत्र "तनोतेर्डौः सन्वच्चे"ति "डौ"प्रत्ययः। सन्वद्भावाद्द्रित्वं, "सन्यतः" इति इत्वं च। व्यस्तोच्चारणसामर्थाद्गुणाऽबावः। यदि ह्रचोरप्यनन्तरयोः संयोहसंज्ञा स्यात्तर्हि इह "संयोगान्तस्ये"त्युकारलोपः स्यात्। अनन्तरा इति किम्? पनसम्। यदीह सकारमकारयोः संयोगसंज्ञा स्यात्तर्हि "स्को"रिति सलोपः स्यात्॥

॥ इति तत्त्वबोधिन्यां संज्ञाप्रकरणम्॥

---------------------------

अथ सन्नन्तप्रक्रिया।