पूर्वम्: १।१।८
अनन्तरम्: १।१।१०
 
प्रथमावृत्तिः

सूत्रम्॥ तुल्यास्यप्रयत्नं सवर्णम्॥ १।१।९

पदच्छेदः॥ तुल्यास्यप्रयत्नम् १।१ १० सवर्णम् १।१ १०

समासः॥

आस्ये प्रयत्नः, आस्यप्रयत्नः, सप्तमीतत्पुरुषः। तुल्यः आस्यप्रयत्नः यस्य (येन सह) तत् तुल्यास्यप्रयत्नं, बहुव्रीहिः

अर्थः॥

आस्ये भवं आस्यम्। तुल्यः आस्ये प्रयत्नः येषां, ते वर्णाः पसस्परं सवर्णसंज्ञकाः भवन्ति

उदाहरणम्॥

दण्डाग्रम्, खट्वाग्रम्। यदीदम्, कुमारीशः, भानूदयः, मधूदकम्, कर्त्तृकारः
काशिका-वृत्तिः
तुल्याऽस्यप्रयर्नं सवर्णम् १।१।९

तुल्यशब्दः सदृशपर्यायः। आस्ये भवमास्यं ताल्वादिस्थानम्। प्रयतनं प्रयत्नः स्पऋष्टताऽदिर्वर्णगुणः। तुल्य आस्ये प्रयत्नो यस्य वर्णस्य येन वर्णेन सह स समानजातीयं प्रति सवर्णसंज्ञो भवति। चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायाम् आश्रीयन्ते -- स्पृष्टता, ईषत्स्पृष्टता, संवृतता, विवृतता च इति। अ अ अ इति त्रयो ऽकारा उदात्तानुदात्तस्वरिताः प्रत्येकं सानुनासिका निरनुनासिकाश्च ह्रस्वदीर्घप्लुतभेदादष्टादशधा भिद्यन्ते। तथा इवर्णः, तथा उवर्णः, तथा ऋवर्णः। ऌवर्णस्य दीर्घा न सन्ति, तं द्वादशभेदम् आचक्षते। सन्ध्यक्षराणां ह्रस्वा न सन्ति, तान्यपि द्वादशप्रभेदानि। अन्तःस्था द्विप्रभेदाः, रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च। रेफोष्मणां सवर्णा न सन्ति। वर्ग्यो वर्ग्येण सवर्णः। दण्डाग्रम्। खट्वाग्रम्। आस्यग्रहणं किम्? कचटतपानां भिन्नस्थानानां तुल्यप्रयत्नानां मा भूत्। किं च स्यात्? तर्प्ता, तर्प्तुम् इत्यत्र झरो झरि सवर्णे ८।४।६४ इति पकारस्य तकारे लोपः स्यात्। प्रयत्नग्रहणं किम्? इचुयशानां तुल्यस्थानानां भिन्नजातीयानां मा भूत्। किं च स्यात्? अरुश्च्योतति इत्यत्र झरो झरि सवर्णे ८।४।६४ इति शकारस्य चकारे लोपः स्यात्। ऋकारऌकारयोः सवर्णसंज्ञा वक्तव्या। होतॢकारः। होतृकारः। उभयोः ऋवर्णस्य ऌवर्णस्य च आन्तरतमः सवर्णो दीर्घो नास्ति इति र्कार एव दीर्घो भवति। सवर्णप्रदेशाः अकः सवर्णे दीर्घः ६।१।९७ इत्येवम् आदयः। (
न्यासः
तुल्यास्यप्रयत्नं सवर्णम्। , १।१।९

तुलया सम्मितं तुल्यमिति "नौवयोधर्म" ४।४।९१ इत्यादिना यतमुत्पाद्य तुल्यशब्दो व्युत्पाद्यते। न च प्रयत्नस्य तुलया सम्मितत्वं सम्भवति, ततश्चासम्भवद्विशेषणमिति यश्चोदयेत्, तं प्रत्याह- "तुल्यशब्दः" इत्यादि। एवं मन्यते- व्युत्पत्त्यर्थं तु केवलं तुलोपादमते, न त्वत्र तुलार्थो विद्यते, न वा सम्मितार्थः। सदृषपर्यायो ह्रयं तुल्यशब्दः। तथा हि- "तुल्य" इत्युक्ते "सदृश" इति पर्यायो भवति, न तु तुलया सम्मित इति। आस्यशब्दोऽयं ण्यदन्तोऽप्यस्ति। अस्यते क्षिप्यतेऽन्नमनेनेति "कृत्यल्युटो बहुलम्" ३।३।११३ इति करणे ण्यत्। आस्यम्- मुखम्। तत्पुनः ओष्ठात्प्रभृति प्राक् काकलकात्। काकलकं नाम ग्रीवायामुन्नतप्रदेशः, लोके यः कण्ठमणिः इत्युच्यते। तद्धितान्तोऽप्यास्यशब्दोऽस्ति- आस्ये भवमिति, "शरीरावयवाच्च" ४।३।५५ इति यति कृते, "यस्येति च" ६।४।१४८ इत्यकारलोपे "हलो यमां यमि लोपः" ८।४।६३ इति यलोपे च कृते "आस्यम्" इति। एतच्च मुखान्तर्वर्त्तिनां ताल्वादीनां वाचकम्। तत्र यदि पूर्वस्यास्यशब्दस्येदं ग्रहणं स्यात्, कचटतपानामपि सवर्णसञ्ज्ञा स्यात्, ण्यदन्तस्यास्यशब्दस्य वाच्येऽर्थे तेषां तुल्यत्वात् प्रयत्नविषयस्य। इममतद्धितान्तस्यास्यशब्दस्य ग्रहणे दोषं दृष्ट्वा तद्धितान्तस्येदं ग्रहणमिति दर्शयन्नाह- "आस्ये भवमास्यम" इति। किं पुनस्तदित्याह- "ताल्वादिस्थानम" इति। यस्मिन् वर्णा निष्पाद्यन्ते, तत् स्थानम्। आविशब्देन नासिकादीनां ग्रहणम्। ननु च नासिका मुखाद्वहिर्वृत्तिरास्यं न भवति? नैतदस्ति; न हि मुखाद्बहिर्वर्त्तिनी नासिकेयं विवक्षिता, तस्यां वर्णानामनिष्पत्तेः। का तर्हि? अन्तरास्ये चर्म विततमस्ति पणवचर्मवत्, तत्सम्बद्धा रेखा, यस्यां वायुनाभिहन्यमा-नायां वर्णा निष्पद्यन्ते सेह नासिका विवक्षिता। कथं पुनर्विज्ञायते तद्धितान्तस्यास्यशब्दस्येदं ग्रहणमिति? आस्यग्रहणसाथ्र्यात्। यदि ह्रतद्धितान्तस्य ग्रहणं स्यात्, आस्यग्रहणमनर्थकं स्यात्। सर्वेषामेव हि तद्वाच्य एवार्थे प्रयत्नस्तुल्यः।नास्त्येव हि सः, यस्य व्यवच्छेदार्थमास्यग्रहणं स्यात्। ननु च विसर्जनीयस्य सत्य- सति वा सवर्णत्वे प्रयोजनमस्ति, नापि दोषः।"स्पृष्टतादिः" इति। आदिशब्देन ईषत्स्पृ-ष्टतादीनां ग्रहणम्। "वर्णगुणः" इति। अकारादीनां वर्णानां धर्म इत्यर्थः। "तुल्य आस्ये प्रयत्नो यस्य" इति। एतेन तुल्यास्यप्रयत्नशब्दस्त्रिपदोऽयं बहुव्रीहिरिति दर्शयति। व्याधिकरणानामपि गमकत्वनाद्बहुव्रीहिर्भवत्येव; यथा - "कण्ठेकालः, उरसिलोमा" इति। अथ द्वन्द्वगर्भबहुव्रीहिः कस्मान्नाश्रीयते- आस्यं च प्रयत्नश्च आस्यप्रयत्नौ,तौ तुल्यौ यस्य तत् तुल्यास्यप्रयत्नमिति? एवं मन्यते- द्वन्द्वगर्भबहुव्रीहावाश्रीयमाणे ताल्वादिना स्थानेन प्रयत्नो न विशेषितः स्यात्। ततश्च ककारङकारयोर्मिथः सवर्णसञ्ज्ञा न स्यात्, बाह्रस्य प्रयत्नस्य भिन्नत्वात्। ककारस्य विवृतकण्ठत्वादिर्बाह्रः प्रयत्नः। ङकारस्य संवृतकण्ठत्वादिः। असत्यां च सवर्णसञ्ज्ञायां शङ्कितेत्यत्र "अनुस्वारस्य ययि परसवर्णः" ८।४।५७ इति ङकारो न स्यात्। अथ सत्यपि बाह्रस्य प्रयत्नस्य भेद आभ्यन्तरः स्पृष्टताख्योऽनयोस्तुल्यः प्रयत्नः, तं समाश्रित्यसवर्णसञ्ज्ञा भविष्यति? यद्येवम्, शकारचकारसयोरपि सत्यप्याभ्यन्तरयोर्विवृतास्पृष्टतयोः प्रयत्नयोर्भेदे योऽनयोर्बाह्रः प्रयत्नस्तुल्यो विवृत्कण्ठत्वादिस्तदाश्रया सवर्णसञ्ज्ञा स्यात्। ततश्च "अरुश्च्योतति" इति वक्ष्य-माणं प्रत्युदाहरणं नोपपद्यते।थ त्रिपदे तु बहुव्रीहौ ताल्वादिस्थानेन प्रयत्नो विशिष्यते। तेन बाह्रं प्रयत्नमुत्सृज्याभ्यन्तर एव स्पृष्टतादिर्गृह्रते। स एव हि ताल्वादावास्ये सम्भवति, नेतरः। आभ्यन्तरस्य प्रयत्नस्य ग्रहणे सति सत्यपि बाह्र- प्रयत्नभेदे भतत्येव ककार ङकारयोः सवर्णसञ्ज्ञा; आभ्यन्तरप्रयत्नस्य तुल्यत्वात्, तस्यैव चेह ग्रहणात्। न च चकारशकारयोः सत्यपि बाह्रस्य प्रयत्नस्य तुल्यत्वे सवर्णसञ्ज्ञा प्रसजति; तस्येहाग्रहणात्, यस्य च ग्रहणं तस्य चासमानत्वात्। तस्यात् त्रिपद एव बहुव्रीहिराश्रयितुं युक्तः; न द्वन्द्वगर्भ इति। यदि तर्हि त्रिपदो बहु- व्रीहिराश्रीयते, भिन्नविभक्तिकत्वादप्राधान्याच्चास्यं तुल्यत्वेनाविशेषितं भवति, ततश्च भिन्नस्थानानामपि सवर्णसञ्ज्ञा प्राप्नोति? नैष दोषः। यदाधेयं प्रति यदधिकरणमुपदीयते, तदाधेयतुल्ययैव तत् तुल्यमिति विज्ञायते। तथा हि- "देवदत्तयज्ञदत्तयोस्तुल्यं कांस्यपात्र्यां भोजनम्" इत्युक्ते कांस्यपात्र्यपि तयोस्तुल्येति गम्यते। यं प्रति यस्तुल्यास्यप्रयत्नः, स तमेव प्रति सवर्णसञ्ज्ञो भवतीत्येषोऽ- र्थो यतो वचनाल्लभ्यत इह तन्नास्ति। ततश्च यो यं प्रति तुल्यास्यप्रयत्नः, स ततोऽ- न्यमपि प्रति सवर्णसञ्ज्ञः स्यादिति चोद्यमाशङ्क्याह- "समानजातीयं प्रति" इति। समानजातीयो यं प्रति यस्तुल्यास्यप्रयत्नः, तं प्रति स सवर्णसञ्ज्ञो भवति, न ततोऽन्यम्। एतच्च तुल्यास्यप्रयत्नशब्दस्य सवर्णशब्दस्य च सम्बन्धिशब्दत्वाल्लभ्यते। सम्बन्धिशब्दो ह्रन्तेरणापि शब्दान्तरसन्निधिः नियमेव सम्बन्धिनमुपस्थापयति, यथा- "पितरि शुश्रूषितव्यम्" इति। नोच्यते स्वस्मिन्निति, सम्बन्धाच्चैतदवगम्यते, "यो यस्य पिता" इति। तथेहापि। यद्यपि यो यस्य तुल्यास्यप्रयत्नः, स तं प्रति सवर्णसञ्ज्ञो भवतीति,न चोच्यते, तथापि सम्बन्धात् तुल्यास्यप्रयत्नः समानजातीयमेव प्रति सवर्णसञ्ज्ञो भवतीति गम्यते। अथ वा समानो वर्णः "सवर्णः" इत्यन्वर्थसञ्ज्ञेयम्। तेनतुल्यजातीयमेव प्रति सवर्णसञ्ज्ञो भवति। एवं हि समानोऽस्य वर्णो भवति, यदि तमेव प्रति सवर्णसञ्ज्ञो भवति, न विजातीयं प्रति। "चत्वारः" इत्यादि। द्विविधाः प्रयत्नाः, आभ्यन्तराः, बाह्राश्च। तत्राभ्य-न्तराः चत्वारो वृत्तरौ दर्शिताः। बाह्रास्त्वेकादशष। के पुनस्ते? "विवारः, संवारः,()आआसः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितश्च" इति। तत्र नाभिप्रदेशात् प्रयत्नप्रेरितो वायुः प्राणो नाम ऊध्र्वमात्रामन्नुरः प्रभृतीनामन्यतमस्मिन् स्ताने प्रयत्नेन विधार्यते, स विधार्यमाणः स्थानमभिहन्ति, ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते। आकाशे सावण्र्यश्रुतिः सवर्णस्यात्मलाभः। तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानमभिहन्ति, ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते। आकाशे सावण्र्यश्रुतिः सवर्णस्यात्मलाभः। तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानकरण-प्रयत्नाः परस्परं स्पृशन्ति, तदा सा "स्पृष्टता"। ईषद्यदा स्पृशन्ति, तदा सा ईष- स्पृष्टता; सामीप्येन यदा स्पृशन्ति, सा संवृतता; दूरेण यदा स्पृशन्ति, सा विवृतता-एते चत्वार आभ्यन्तराः प्रयत्नाः। आभ्यन्तरत्वं पुनरेषां स्थानकरणप्रयत्न- व्यापारेणोत्पत्तिकाल एव सम्भवात्। तत्र स्पृष्टकरणाः स्पर्शाः। कादयो मावसानाः स्पर्शाः, स्पष्टता गुणः। करणं कृतिरुच्चारणप्रकारः। स्पृष्टतानुगतं करणं येषां ते स्पृष्टकरणाः। एवमन्यत्रापि वेदितव्यम्। ईषत्स्पृष्टकरणा अन्तः स्थाः। अन्तः स्था यरलवाः। विवृतं करणमूष्मणाम्, स्वराणां च। स्वराः सर्व एवाचः। उष्ममाणः शषसहाः। अथ बाह्राः प्रयत्नाः किंलक्षणाः? स एव प्राणो नाम वायुपरूध्र्वमाक्रामन् मु()ध्न प्रतिहतो निवृतो यदा कोष्ठमभिहन्ति तदा कोष्ठेऽभिहन्यमाने गलबिलस्य संवृतत्वात् संवारो नाम वर्णधर्म उपजायते। विवृतत्वाद् विवारः। संवृते गलबिलेऽव्यक्तः शब्दो नादः, विवृते ()आआसः। उपरिवर्तिनौ तौ ()आआसनादावनुप्रदानमिति केचिदाचक्षते। वर्णनिष्पत्तेरनु-पश्चात् प्रदीयत इत्यनुप्रदानम्। अन्ये तु ब्राउवते "अनुप्रदानमनु- स्वानो घष्टानिह्र्यादवत्" यथा- घण्टानिह्र्यादोऽनुस्वनमनुभवति तथा इति। तत्र यदा स्थानाभिघातजे ध्ननौ नादोऽनुप्रदीयते, तदा नादध्वनिसङ्गाद् घोषो जायते, यदा ()आआसोऽनुप्रदीयते, तदा ()आआसध्वनिसङ्गादघोषः, महित वायौ महाप्राणः, अस्पवायावल्प- प्राणः। यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य निग्रहः, कण्ठविवर- स्य च चाणुत्वम्, स्वरस्य च वायोस्तीव्रगतित्वाद् रौक्ष्यं भवति, तमुदात्तमाचक्षते। यदा तु मन्दः प्रयत्नो भवति, तदा गात्रस्य रुआंसनम्, कण्ठबिलस्य महत्त्वम्, स्वरस्य वायोर्मन्दगतित्वात् स्निग्धता भवति, तमनुदात्तमाचक्षते। उदात्तानुदात्तस्वरसन्निकर्षात् स्वरित इत्येवं लक्षणा बाह्राः प्रयत्नाः। बाह्रत्वं पुनरेषां वर्णनिष्पत्तिकालादूध्र्वं, वायुवशेनोत्पत्तेः। तत्र वर्गाणां प्रथम द्वितीयाः शषरविसर्ज-नीयजिह्वामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः ()आआसानुप्रदाना अघोषाः।वग्र्ययमानां प्रथमेऽल्पप्राणाः। इतरे सर्वे महाप्राणाः। वर्गाणाञ्च तृतीयचतुर्था अन्तःस्था हकारानुस्वारौ यमौ च तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तः। वग्र्यमानां तृतीया अन्तःस्थाश्च अल्पप्राणाः। इतरे सर्वे महाप्राणाः। यथा तृतीया- स्तथा पञ्चमाः, आनुनासिक्यमेषामधिको गुणः। य एवैते द्विप्रकाराः प्रयत्ना बाह्रा आभ्यन्तराश्चाख्याताः, तेषामिह सवर्णसञ्ज्ञायां पूर्वोक्ता आभ्यन्तराश्चत्वारः स्पृष्टतादय आश्रीयन्ते,न बाह्रा विवारादयः, आस्यग्रहणेन तेषां व्यावर्तितत्वात्। स्पृष्टतादय एव ह्रास्ये भवन्ति, नविवारादयः। यद्येवम्, किमर्थं प्रयत्नग्रहणम्, एतावदस्तु तुल्यास्यमिति, आस्यग्रहणेनैव हि स्पृष्टतादयोऽपि प्रयत्नाः सवर्णसञ्ज्ञायां निमित्तभूतास्ताल्वादिस्थानवल्लभ्यन्त एव, तेषामप्यास्ये भवनात्? सत्यमेतत्, तथाप प्रत्येकं व्यापार- निरासार्थमुभयोरुपादानाम्। इतरथा हि यथैव स्थानं तुल्यं स्थानान्तरनिरपेक्षं सवर्ण सञ्ज्ञायां व्याप्रियते, एवं प्रयत्नोऽपि स्थाननिरपेक्षः, स्थानं च प्रयत्ननिर- पेक्षं व्याप्रियेत; ततश्च भिन्नप्रयत्नानामपि तुल्यस्थानानाम्, भिन्नस्थानानामपि तुल्यप्रयतनानां सवर्णसञ्ज्ञा स्यात्। "अ अ अ" इत्यादिना येषां यावतां च यादृशां च मिथो नित्या सवर्णसञ्ज्ञा, तान् दर्शयति। अकाराणां हि सर्वेषाम् "अकुहविसर्जनीयाः कण्ठ्याः" इति तुल्यं कण्ठस्थानम्। इकाराणामपि "इचुयशास्तालव्याः" इति तालु। उकारा-णामपि "उपूपध्मानीया ओष्ठ्याः" इत्योष्ठः। ऋकाराणामपि "ऋटुरषा मूर्धन्याः" इति मूर्धा। लृकाराणामपि "लृतुलसा दन्त्याः" इत दन्तः। एकाराणामैकाराणां च "एऐ कण्ठ()तालव्यौ" इति कण्ठतालु। ओकाराणामौकाराणां च "ओ ओ कण्ठ्यौष्ठ्यौ" इति कष्ठोष्ठम्। प्रयत्नस्तु सर्वेषामेवैषां विवृतं करणमूष्मणां स्वराणां चेति विवृतत्वम्। तस्मात् तुल्यस्थान्प्रयत्नत्वात् स्वरेऽकारादयो मिथः सवर्णसञ्ज्ञाः। एवं यावदौकारः। अन्तःस्था द्विप्रभेदाः, सानुनासिका निरनुनासिकाश्च रेफवर्जिताः। तेऽपि समानजातीयानन्तःस्थान् प्रति सवर्णसञ्ज्ञा भवन्ति। "रेफोष्मणां सवर्णा न सन्ति" इति। तेऽभ्योऽन्येऽकारादयो वर्णा विजातीया इत्येषोऽभिप्रायः। तुल्यजातीयास्तु रेफोष्माणस्तुल्यस्थानप्रयत्नाः सवर्णाः सन्त्येव। तत्र रेफस्य तावद् ऋटुरषेभ्यो यवलेभ्यश्चान्ये वर्णा भिन्नस्थानत्वाच्च भिन्नप्रयत्नत्वाच्च सवर्णा न भवन्ति। तथा हि- "अकुहविसर्जनीयाः कण्ठ्()याः, इचुयशास्तालव्याः, लृतुलसा दन्त्याः,अपूपध्मानीया ओष्ठ्याः, एऐ कण्ठ()तालव्यौ, ओ औ कण्ठ()ओष्ठयौ" इति वचनादकारादीनां यथायोगं कण्ठादि स्थानम्। रेफस्य त्वृटुरषा मूर्धन्या इति मूर्धा। प्रयत्नोऽप्यनन्तरनिर्दिष्टेष्वकारादिषु ये स्वराः तेषां विवृतं करणमूष्मणां स्वराणां चेति विवृतत्वम्। ये तु वर्गान्तः पातिनः ककारादयः, तेषां स्पृष्टकरणाः स्पर्शा इति स्पृष्टता। रेफ- स्येषत्स्पृष्टकरणा अन्तःस्था इतीषत्स्पृष्टता। शकारसकारावपि स्थानप्रयत्नभेदाद्() रेफस्य सवर्णौ न भवतः। तौ हि यथाक्रमं तालव्यदन्त्यौ। रेफस्तु मूर्धन्यः। प्रयत्नो ऽपि तयोर्विवृतत्वम्। रेफस्य तु पूर्वोक्त एव। ऋटुषाः प्रयत्नभेदाच्चैव रेफस्य सवर्णा न भवन्ति; न तु स्थानभेदेन; तेषामपि मूर्धन्यत्वात्। प्रयत्नभेदस्तु विद्यतेऋकारषकारयोः पूर्ववद् विवृतत्वम्, रेफस्य तु स एव पूर्वोक्तः। टवर्गस्य स्पृष्टता। यवलास्तु पुनः स्थानभेदादेव सवर्णा न भवन्ति, न तु प्रयत्नभेदात्; तेषामपीषत्स्पृ- ष्टगुणत्वात्। स्थानभेदस्तु विद्यते, यवलानां यथायोगं तालव्यदन्त्योष्ठ()त्वात्। एवं विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वाराः। कुँ खुँ गुँ घुँ इत्येते च यमाश्चातुल्यस्थानप्रयत्नत्वादेव रेफस्य सवर्णा न भवन्ति। विसर्जनीयो हि कण्ठ()ः, जिह्वामूलीयो हि जिह्व्यः; उपध्मानीय ओष्ठ्यः, अनुस्वारयमा नासिक्याः, रेफस्तु मूर्धन्यः। प्रयत्नस्तु यस्तस्य पूर्वोक्तः, स विसर्जनीयादीनां नास्त्येव तदेवं रेफस्य रेफादन्यो नास्ति कश्चित् सवर्तो वर्णः। अनया दिशोष्मणामपि शकारादीनां सावण्र्याभावे वेदितव्यः। "वर्ग्यः" इत्यादि। वर्गे भवो वर्ग्यः। "दिगादित्वाद् यत्" ४।३।५४, "यस्येति च" ६।४।१४८ इत्याकारलोपः। वग्र्यो यो वर्णः, सोऽन्येन वर्ग्येण स्ववर्गान्तःपातिना तुल्यास्यप्रयत्नेन सह सवर्णो भवति,यथा-ककारः खकारेण। एवमन्यत्रापि वेदितव्यम्। "भिन्नस्थानानाम्" इत्यादि। एते हि ककारादयः सर्वे स्पृ ष्टगुणत्वात् तुल्यप्रयत्ना यथाक्रमं कण्ठतालुमूर्धदन्तोष्ठस्थानत्वाद्भिन्नस्थानाः। "तर्प्ता, तर्प्तुम्" इति। "तृप तृन्फ तृप्तौ" (धा।पा।१३०७,१३०८) इत्यस्य तृचि तुमुनि च रूपम्। "भिन्नप्रयत्नानाम्ित्यादि। इकारादयोहि तालव्यत्वात् सर्वे तुल्य- स्थाना विवृतत्वस्पृष्टत्वेषत्स्पृष्टत्वप्रयत्नात् यथायोगं भिन्नप्रयत्नाः। इकार- शकारयोर्यद्यपि प्रयतनोऽप्यभिन्नः,तथापि, तयोः प्रतिषेधं वक्ष्यतीति न भवति सवर्ण- त्वम्। "अरुश्च्योतति"इति "श्च्युतिर् क्षरणे" (धा।पा।४१) इत्यस्य लटि रूपम्। तत्र परत्रावस्थितऽरुस्()शब्दस्य सकारस्य रुत्वम्। तस्य विसर्जनीयः, तस्यापि "वा शरि" ८।३।३६ इति सकारः, तस्यापि श्चुत्वं शकारः। "होतृ()कारः" इति। कथं पुनरत्र ऋकार आदेशो भवति, न हि ऋकारलृकारयोः समुदायस्य स्थानिनः सोऽन्तरतम इत्याह- "उभयोः" इत्यादि। ऋकारो मूर्धन्यः, लृकारस्तु दन्त्यः। तत्र तयोर्यद्येको मूर्धन्यो दन्त्यश्च दीर्घो वर्णोऽन्तरतमः सम्भवेत्, तदा सोऽन्तरतम आदेशो भवेत्। स च न सम्भवतीत्यवयवस्य योऽन्तरतमः, तेन भाव्यम्। तत्रापि यदि लृकारो दीर्घः स्यात्। सोऽपि पर्यायेण स्यात्, स च नास्ति; तस्मात् पारिशेष्यात् समुदायस्यैकादेशस्य योऽन्तरतमः स एव ऋकारो भवति।
बाल-मनोरमा
तुल्यास्यप्रयत्नं सवर्णम् १२, १।१।९

अथ "अणुदित्सवर्णस्य चाप्रत्ययः" इति अ इ उ इत्यादिसंज्ञां वक्ष्यन्सवर्णसंज्ञामाह--तुल्यास्य। आस्यं = मुखम्, तत्साम्यस्य सर्ववर्णेष्वविशिष्टत्वादव्यावर्तकत्वादास्यशब्दोऽत्र न मुखमात्रपरः। किन्तु आस्ये मुखे भवमास्यं = ताल्वादिस्थानम्। "शरीरावयवाद्यत्" इति भवार्थे यत्प्रत्ययः। "यस्येति च" इति प्रकृत्यन्त्यस्य अकारस्य लोपः। प्रकृष्टो यत्नः प्रयत्नः। आस्यं च प्रयत्नश्च-आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ यस्य वर्णजालस्य तत्तुल्यास्यप्रयत्नं परस्परं सवर्णसंज्ञकं स्यादिति भावः। तदाह--ताल्वादिस्थानमित्यादिना। मिथ इति। परस्परमित्यर्थः। कस्य किं स्थानमित्याकाङ्क्षायां तद्व्यवस्थापकानि पाणिन्यादिशिक्षावचनान्यर्थतः संगृह्णाति--

अकुहेत्यादिना। "अ" इत्यष्टादश भेदा गृह्रन्ते, "कु" इतदि कादिपञ्चकात्मकः कवर्गः। न चाणुदित्सूत्रस्येदानीमप्रवृत्तेः कथमत्र "अ" इत्यष्टादशभेदानां ग्रहणमिति वाच्यम्। लौकिकप्रसिद्धिमाश्रित्यैव एतत्प्रवृत्तेः। एवमग्रेऽपि कथञ्चित्समाधानं बोध्यम्। अश्च कुश्च हश्च विसर्जनीयश्चेति विग्रहः। विसर्जनीयशब्दोऽपि विसर्गपर्यायः।

इचुयशेति। इ इत्यष्टादश भेदाः। चु इति चवर्गः। इश्च चुश्च यश्च शश्चेति विग्रहः। तालु = काकुदम्।

ऋटुरषेति। ऋ इत्यष्टादश भेदाः। टु इति टवर्गः। आ च टुश्च रश्च षश्चेति विग्रहः। ऋ शब्दस्य आ इति प्रथमैकवचनान्तं धाता इति वत्।

लृतुलशेति। लृ इत्यस्य द्वादश भेदाः। तु इति तवर्गः। आ च तुश्च लश्च सश्चेति विग्रहः। लृशब्दस्यापि आ इत्येव प्रथमैकवचनान्तम्। आ अलौ अलः। दन्तशब्देन दन्तमूलप्रदेशो विवक्षितः। अन्यथा भग्नदन्तस्य तदुच्चारणाऽनुपपत्तेः।

उपूपेति। उ इत्यष्टादश भेदाः। पु इति पवर्गः उश्च पुश्च उपध्मानीयश्चेति विग्रहः। उपध्मानीयशब्दमनुपदमेव स्वयं व्याख्यास्यति।

ञमङणनेति। ञश्च मश्च ङश्च णश्च नश्चेति विग्रहः। चकारेण स्वस्ववर्गीयस्थानसमुच्चयः।

एदैतोरिति। एच्च ऐच्च एदैतौ। तपरकरणमसंदेहार्थम्। नतु "तपरस्तत्कालस्य" इति तत्कालमात्रग्रहणार्थम्। तेन प्लुतयोरपि संग्रहः। कण्ठश्च तालु चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः, एकवत्त्वं नपुंसकत्वं च।

ओदौतोरिति। ओच्च औच्च ओदौतौ। तपरकरणं पूर्ववदसंदेहार्थमेव। कण्ठश्च ओष्टौ चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः, एकवद्भावो नपुंसकत्वं च।

वकारस्येति। दन्ताश्च ओष्ठौ चेति समाहारद्वन्द्वः। एकवत्त्वं नपुंसकत्वं च

जिह्वामूलीयस्येति। जिह्वामूलीयशब्दमग्रे व्याख्यास्यति। एवमनुस्वारशब्दमपि।

इति स्थानानीति। इति = एवंप्रकारेण वर्णाभिव्यक्तिस्थानानि प्रपञ्चितानीत्यर्थः।

ननु किमिह तुल्यास्यसूत्रे य()त्कचित्स्थानसाम्यं विवक्षितम् , उत यावत्स्थानसाम्यम्?। न तावदाद्यः, तथा सति इकारस्य एकारस्य च तालुस्थानकतया सावण्र्यापत्तौ "भवत्येवे"त्यत्र इकारादेकारे परे सवर्णदीर्घापत्तेः। न च एकारस्य वर्णसमाम्नाये पाठसामथ्र्यादिकारेण न सावण्र्यमिति वाच्यम्, एकारपाठस्य अक् इक् उक् इति प्रत्याहारेषु एकारग्रहणनिवृत्त्यर्थत्वसम्भवात्। किं च वकारलकारयोर्दन्तस्थानसाम्येन सावण्र्यापत्तौ "तोर्ल" इत्यत्र लकारेण वकारस्यापि ग्रहणात्तद्वानित्यत्र दकारस्य परसवर्णापत्तिः। "यवलपरे यवला वा" इत्यत्र लकारग्रहणं तु यथासंख्यार्थं भविष्यति। न द्वितीयः, तथा सति कङयोः कण्ठस्थानसाम्येऽपि ङकारस्य नासिकास्थानाधिक्येन सावण्र्याभावापत्तौ "चोः कुः", क्विन्प्रत्ययस्य" इत्यत्र ङकारस्य ग्रहणानापत्त्या प्राङित्यादौ नुमो नकारस्य "क्विन्प्रत्ययस्य" इति कुत्वेन ङकाराऽनापत्तेः। तस्मात्स्थ्ानसाम्यं दुर्निरूपमिति चेत्, अत्र ब्राऊमः--यावत्स्थानसाम्यमेव सावण्र्यप्रयोजकम्। एवं च इकारस्य एकारस्य च तालुस्थानसाम्येऽपि एकारस्य कण्ठस्थानाधिक्यान्न सावण्र्यम्। वलयोश्च न सावण्र्यम्। वकारस्य ओष्ठस्थानाधिक्यात्। एवं च " तद्वानासाम्" "यजुष्येकेषाम्" इत्यादिनिर्देशा उपपन्नाः। ङकारस्य नासिका स्थानाधिक्येऽपि ककारेण सावण्र्यमस्त्येव, आस्यमवस्थानसाम्यस्यैव सावण्र्यप्रयोजकत्वात्, नासिकायाश्च आस्यानन्तर्गतत्वात्। उक्तं च भाष्ये-किं पुनरास्यं(), लोकिकमोष्ठात्प्रभृति प्राक्काकलकात्" इति। "काकलको नाम चुबुकस्याधस्तात् ग्रीवायामुन्नतप्रदेशः" इति कैयटः। तस्मादास्यभवयावत्स्थानसाम्यं सावण्र्यप्रयोजकमिति शब्देन्दुशेखरे विस्तरः।

ननु तुल्यास्यसूत्रे प्रयत्नशब्देन प्रशब्दबलादाभ्यन्तरयत्नो विवक्षित इति स्थितम्। तत्राभ्यन्तरत्वविशेषणं किमर्थम्, व्यावर्त्त्याऽभावादित्यत आह-यत्नो द्विधेति। यत्नानामाभ्यन्तरत्वं बाह्रत्वं च वर्णोत्पत्तेः प्रागूध्र्वभावित्वमिति पाणिन्यादिशिक्षासु स्पष्टम्। आद्य इति। आभ्यन्तयत्न इत्यर्थः। कथं चातुर्विध्यमित्यत आह-स्पृष्टेति।

कस्य कः प्रयत्न इत्याकाङ्क्षायां तद्व्यवस्थापकशिक्षावचनानि पठति--तत्रेति। तेषु मध्य इत्यर्थः। प्रयतनमिति। प्रयत्न इत्यर्थः। स्पर्शादिशब्दानग्रे व्याख्यास्यति। ह्यस्वस्यावर्णस्य संवृतमित्यन्वयः। एतावदेव शिक्षावचनम्। नन्वेवं दण्ड-आढकमित्यत्र अकारस्य च विवृतसंवृतप्रयत्नभेदेन सावण्र्याऽभावात्सवर्णदीर्घो न स्यादित्यत आह-प्रयोग इति। शास्त्रीयप्रक्रियाभिः परिनिष्ठितानां रामः कृष्ण इत्यादिशब्दानां प्रयोगे क्रियमाण एव ह्यस्वस्याऽवर्णस्य संवृतत्वमित्यर्थः। प्रक्रियेति। शास्त्रीयकार्यप्रवृत्तिसमये तु ह्यस्वस्याप्यवर्णस्य विवृतत्वमेवेत्यर्थः। शिक्षावचनसिद्धं स्वाभाविकं ह्यस्वावर्णस्य संवृतत्वं प्रच्याव्य शास्त्रमूलभूते वर्णसमाम्नाये तस्य विवृतत्वेनैवोपदिष्टतया कृत्स्नशास्त्रीयप्रक्रियासमये ह्यस्वस्याप्यवर्णस्य विवृतत्वेन दण्डाठतमिच्यादौ सवर्णदीर्घादिकार्यं निर्बाधकमिति ऐउणिति सूत्रभाष्ये स्पष्टम्। एवंच "ह्यस्वस्याऽवर्णस्य संवृत"मिति शिक्षावचनं परिशेषात्परिनिष्ठतदशायामेव पर्यवस्यतीति न तदानर्थक्यमिति भावः। अयं च शिक्षावचनसङ्कोचः सूत्रकारस्यापि संमत इत्याह-एतच्चेति॥ तदेवोपपादयितुं प्रतिजानीते-तथा हीति। यथा एतज्ज्ञापितं भवति तथा स्पष्टमुपपाद्यत इत्यर्थः।

तत्त्व-बोधिनी
तुल्यास्यप्रयत्नं सवर्णम् १२, १।१।९

तुल्यास्य। आस्ये भवमास्यं "शरीरावयवाद्यत्" इत्यभिप्रेत्याह-ताल्वादीति॥ आभ्यन्तरेति। एतच्च प्रशब्दबलाल्लभ्यते। ओष्ठात्प्रभृति प्राककाकलकादास्यम्। तुल्यास्यं किम्?, तर्प्ता। अत्र पकारस्य तकारे परे "झरो झरि" इति लोपो मा भूत्। प्रयत्नग्रहणं किम्, वाक्श्चोतति। अत्र शस्य लोपो न॥ ञमङणनानामिति। नासिका चेति। चकारेण स्ववर्गानुकूलं ताल्वादि समुच्चीयते॥ एदैतोरित्यादौ तपरत्वमसंदेहार्थं, न तत्कालग्रहणार्थम्। तेन प्लुतस्यापि संग्रहः॥ चतुर्धेति। निष्कर्षपक्षे तु पञ्चधा, ऊष्माणामीषद्विवृतप्रयत्नाभ्युपगमात्॥ स्पृष्टेषत्स्पृष्टेति। एतेषामाभ्यन्तरत्वं, वर्णोत्पत्तिप्राग्भावित्वात्। तथाहि-नाभिप्रदेशात्प्रयत्नप्रेरितो वायुः प्राणो नाम ऊध्र्वमाक्रामन्नुरःप्रभृतीनि स्थानान्याहन्ति, ततो वर्णस्य तदभिव्यञ्जकध्वनेर्षा उत्पत्तिः। तत्रोत्पत्ते प्राग्यदा जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानं ताल्वादि सम्यक् स्पृशन्ति तदा स्पृष्टता, ईषद्यदा स्पृशन्ति तदा ईषत्स्पृष्टता, समीपावस्थानमात्रे संवृतता, दूरत्वे विवृतता। अत एव इचुयशानां तालव्यत्वाऽविशेषेऽपि तालुस्थानेन सह जिह्वाग्रादीनां चवर्गोच्चारणे कर्तव्ये सम्यक् स्पर्शः, यकारे ईषत्सपर्शः , शकारेकारयोस्तु दूराऽवस्थितिरित्याद्यनुभवं, शिक्षाकारोकिं()त चानुसृत्य विवेचनीयम्। विवारसंवारादयस्तु वर्णोत्पत्तेः पश्चान्मू()ध्न प्रतिहते निवृत्ते प्राणाख्ये वायावुत्पद्यन्त इति बाह्रा इत्युच्यन्ते। गलबलिस्य संकोचात्संवारः, तस्यैव विकासाद्विवारः। एतौ च संवृतविवृतरूपाभ्यामाभ्यन्तराभ्यां भिन्नावेव। तयोः समीपदूरावस्थानात्मकत्वादित्यवधेयम्।