पूर्वम्: १।३।९
अनन्तरम्: १।३।११
 
प्रथमावृत्तिः

सूत्रम्॥ यथासङ्ख्यम् अनुदेशः समानाम्॥ १।३।१०

पदच्छेदः॥ यथा-सङ्ख्यम् अनुदेशः १।१ समानाम् ६।३

समासः॥

सङ्ख्याम् अनतिक्रान्तः, यथासङ्ख्यम्, अव्ययीभावः

अर्थः॥

समानाम्=सम-सङ्ख्यानाम् अनुदेशः=पश्चात् कथनम्, यथासङ्ख्यं=यथाक्रमेण भवति

उदाहरणम्॥

इको यणचि, तूदी-शलातुर-वर्मती-कूचवाराड्-ढक्-छण्-ढञ्-यकः (४।३।९४)। तूदी-शब्दात् ढक् प्रत्ययः=तौदेयः। शलातुरात् छण् - शालातुरीयः। वर्मती-शब्दात् धञ् - वार्मतेयः। कूचवारात् यक् - कौचवार्यः, अत्र क्रमेण अनुदेशाः भवन्ति
काशिका-वृत्तिः
यथासङ्ख्यम् अनुदेशः समानाम् १।३।१०

सङ्ख्याशब्देन क्रमो लक्ष्यते। यथासङ्ख्यं यथाक्रमम् अनुदेशो भवति। अनुदिश्यते इति अनुदेशः। पश्चादुच्चार्यते इत्यर्थः। समानां समसङ्ख्यानं समपरिपहितानाम् उद्देशिनाम् अनुदेशिनां च यथाक्रममौद्देशिभिरनुदेशिनः सम्बध्यन्ते। तूदीशलातुरवर्मतीकूचवाराड् ढक्छण्ढञ्यक्H ४।३।९४। प्रथमात् प्रथमः, द्वितीयाद् द्वितीयः इत्यादि। तौदेयः। शालातुरीयः। वार्मतेयः। कौचवार्यः। समानाम् इति किम्? लक्षणैत्थम्भूताऽख्यानभाग। वीप्सासु प्रतिपर्यनवः १।४।८९। लक्षणादयश्चत्वारो ऽर्थाः, प्रत्यादयस् त्रयः, सर्वेषं सर्वत्र कर्मप्रवचनीयसंज्ञा भवति। इह कस्मान् न भवति वेशोयशाऽदेर् भगाद् यल् ४।४।१३० ख च ४।४।१३१ इति? स्वरितेन लिङ्गेन यथासङ्ख्यम्। यत्र एष्यते, तत्र स्वरितत्वं न प्रतिज्ञायते। स्वरितेन अधिकारः १।३।११ इति स्वरितग्र्हणं पूर्वेण अपि सम्बध्यते।
लघु-सिद्धान्त-कौमुदी
यथासंख्यमनुदेशः समानाम् २३, १।३।१०

समसंबन्धी विधिर्यथासंख्यं स्यात्। हरये। विष्णवे। नायकः। पावकः॥
न्यासः
यथासंख्यमनुदेशः समानम्। , १।३।१०

"संख्याशब्देनात्र क्रमो लक्ष्यते" इति। यत्रानेके उद्देशिनोऽनुदेशिनश्च, तत्रानियमेन सम्बन्धे प्राप्ते नियमार्थंमिदमारभ्यते। यत्रोद्देशिनोऽनुदेशिनोऽनेकसंख्याः; तत्रावश्यं संख्याभेदेन भवितव्यम्। यत्र च संख्याभेदः, तत्र नियतभावी क्रमः ; संख्याभेदवतां युगपदुच्चारयितुमशक्यत्वात्। अतः साहचर्यात् संख्याशब्देन क्रमो लक्ष्यते। अर्थधर्मत्वं तु शब्दे समारोप्य संख्याशब्देन क्रमो लक्ष्यत इत्युक्तम्। यथाक्रमग्रहणं कथं न कृतम्? वैचित्र्यार्थम्। "यथासंख्यम्" इति। "यथाऽसादृश्ये" २।१।७ इति वीप्सायामव्ययीभावः। "अनुदिश्यत इत्यनुदेशः" इति। "अकर्तरि च कारके संज्ञायाम्" ३।३।१९ इति घञ्। "पश्चादुच्चार्यते" इति। अनुशब्दस्य पश्चादर्थवृत्तित्वाद्दिश्चोच्चारणक्रियत्वात्। "समसंख्यानम्" इति। समसंख्यतया समानत्वं दर्शयति। "{समं परिपठितानाम्िति मूल (काशिका) पाठः। }समगणनपरिपठितानाम" इति। तमेवार्थं शब्दान्तरेण व्यक्तीकरोति। "उद्देशिनामनुदेशिनाञ्च्" इति। यथाक्रममित्येतदपेक्षया षष्ठी। उद्देशिनो यद्यपि सूत्रे न श्रूयन्ते, तथापि सम्बन्धित्वात् पश्चाद्भावस्यानुदेशग्रहणाल्लभ्यन्ते। "यथाक्रमम्" इति। पूर्ववद्वीपसायामव्ययीभावः, तृतीयान्तञ्चैतत्; तदयमत्रार्थः- उद्देशिनामनुदेशिनाञ्च योऽयं क्रमस्तेन क्रमेणानुदेशिनः सम्बध्यन्त उद्देशिभिः सहेति। यद्यप्युद्देशिनामिति षष्ठ()न्तं प्रकृतम्, तथाप्यर्थाद्विभक्तेर्विपरिणामो भविष्यतीति तृतीयान्तं सम्पद्यते। "प्रथमात् प्रथमः" इत्यादिना यथाक्रमसम्बन्धं दर्शयति। आदिशब्दस्तृतीयात् तृतीयः, चतुर्थाच्चतुर्थ इत्यादिपरिग्रहाय। तौदेय इत्यादौ "सोऽस्याभिजनः" ४।३।९० इत्यत्रार्थे तद्धितः। "इह" इत्यादि। "वेशोयशाअदेर्भगात्" ९४।४।१३१) इति द्वे प्रकृती, "यल्खौ" इति प्रत्ययावपि द्वावेव; अतो यथासंख्येन भवितव्यमित्यभिप्रायः। इह केनचिनदाचार्येण शिष्याः प्रतिग्राहिताः-- "वेशो यश आदेर्भगाद्यल् ख च" इत्येको योगः। अन्ये तु द्वावेतौ योगविति- "वेशोयश आदेर्भगात्" इत्येको योगः, "यल् ख च" इति द्वितीयः। तत्र य एक एवायं योग इत्येवं शिष्या ग्राहितास्तान्प्रत्ययं प्रश्नः। वृत्तिकारेणापि तन्मतमेवाश्रित्य"स्वरितेन" इत्यादिना परीहार उक्तः। ये तु द्वावेतौ योगावित्येवं ग्राहितास्तान् प्रत्येष प्रश्नो नास्ति; योगविभागेनैव यथासंख्यस्य स्यात्, योगविभागकरणमनर्थकं स्यादित्यभिप्रायः। कथं पुनः स्वरितेन लिङ्गेन यथासंख्यं लभ्यते, यावता नेह स्वरितग्रहणमस्तीत्याह-- "स्वरितेनाधिकारः" इत्यादि। "स्वरितेनाधिकारः" १।३।११ इति योगं विभज्य "स्वरितेन" इत्येको योगः, "अधिकारः" इति द्वितीयः। तत्र प्रथमो योगः पूर्वेणापि "यथासंख्यम्" इत्यादिना सम्बध्यते। अपिशब्दात् परेणापि "अधिकारः" इत्यनेन। यदि तर्हि स्वरितेन लिङ्गेन यथासंख्यं भवति, एवं हि सति सन्देहः स्यात्। तथा हि-- यथासंख्यमिति स्वरितेनाधिकारोऽपि तत्र न ज्ञायते -- किमधिकारार्थः स्वरितानुषङ्गः? अथ वा यथासंख्यार्थ इति? सन्देहमात्रमेतत्। सर्वनसन्देहेष्विदमुच्यते-- "भवति व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्" (व्या।प।७५) इति॥
बाल-मनोरमा
यथासङ्ख्यमनुदेशः समानाम् १२८, १।३।१०

यथासङ्ख्यम्। साम्यमिह सङ्ख्यातो विवक्षितम्। अनुदेशः=विधानम्। समानामिति यदि कर्मणि षष्ठी स्यात्तर्हि स्थान्यादिभिः समसङ्ख्यानां यत्र विधानं, यथा "एचोऽयवायाव" इत्यादौ तत्रैव यथासङ्ख्य प्रवृत्तिः स्यात्, "समूलाकृतजीवेषु हन्()कृञ्()ग्रहः" इत्यत्र न स्यात्, तत्र विधेयस्य णमुल एकत्वात्। अतः "समाना"मिति सम्बन्धसामान्ये षष्ठी। एवञ्च समूलाद्युपपदानां हनादिधातूनां च समसङ्ख्यानामुपादानेन एकस्य प्रत्ययस्य विधिरपि समसङ्ख्याकसम्बन्धी विधिरेवेति तत्रापि यथासङ्ख्यप्रवृत्तिनिर्बाधा। तदाह--समसम्बन्धीति। यथासङ्ख्यमिति। सङ्ख्याशब्देनात्र प्रथमत्वद्वितीयत्वादिरूपाः सङ्ख्याघटितधर्मा विवक्षिताः, ताननतिक्रम्य यथासङ्ख्यम्। ततश्च "एचोऽयवायाव" इत्यादिषु प्रथमस्य स्थानिनः प्रथम आदेशः, द्वितीयस्य द्वितीय इत्येवमक्रमेण स्थान्यादेशतन्निमित्तादीनां समसङ्ख्याकानां क्रमेणाऽन्वयः प्रतिपत्तव्य इति फलितम्। प्रकृ-ते च यपरके हकारे परे मकारस्य यकारः, वपरके वकारः, लपरके लकार इति सिध्यति। किय्#ँ ह्र इति। मस्य यत्वे रूपम्। "ह्र" इत्यव्ययम्, पूर्वेद्युरित्यर्थः। यत्वाभावे मोऽनुस्वारः। किव्#ँ ह्वलयतीति। मस्य वत्वम्। ह्वल चलने, णिच्। किल्#ँ ह्लादयतीति। मस्य लत्वम्॥ "ह्लादी सुखे च" णिच्।

तत्त्व-बोधिनी
यथासङ्ख्यमनुदेशः समानाम् १०२, १।३।१०

यथासङ्ख्यमनुदेशः। अनुदिश्यत इति अनुदेशः। पश्चादुच्चार्यत इत्यर्थः। "समाना"मिति संबन्धे षष्ठी, तदाह--समसम्बन्धी विधिरिति। "समकर्मकं विधान"मिति तु नोक्तम्, तथाहि सति यत्रोद्देशिषु समेषु समानां विधानं पाघ्रदिषु पिबादीनां प्रियस्थिरादिषु च प्रस्थादीनां" तत्रैव यथाक्रमं प्रवृत्तिः स्यात्। इष्यते तु अनुवाद्ययोरपि यथासङ्ख्यत्वम्। "समूलाकृतजीवेषु हन्कृञ्ग्रहः" इत्यत्र यथा। समानामिति किम्?, "लक्षणेत्थंभूते"त्यत्र लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्तु त्रयः, तत्र सर्वेषां सर्वत्र कर्मप्रवचनीयसंज्ञा यथा स्यात्।