प्रथमावृत्तिः
सूत्रम्॥
समवप्रविभ्यः स्थः॥ १।३।२२
पदच्छेदः॥
समवप्रविभ्यः ५।३ स्थः ५।१ २६ आत्मनेपदम् १।१ १२
काशिका-वृत्तिः
समवप्रविभ्यः स्थः १।३।२२
सम् अव प्र वि इत्येवं पूर्वात् तिष्ठतेरात्मनेपदं भवति। संतिष्ठते। अवतिष्ठते। वितिष्ठते। आङः स्थः प्रतिज्ञाने इति वक्तव्यम्। अस्तिं सकारम् आतिष्ठते। आगमौ गुणवृद्धी आतिष्ठते।
लघु-सिद्धान्त-कौमुदी
समवप्रविभ्यः स्थः ७३९, १।३।२२
संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥
न्यासः
समवप्रविभ्यः स्थः। , १।३।२२
"सन्तिष्ठते" इति। पाघ्रादिसूत्रेण
७।३।७८ तिष्ठादेशः।
"अ()स्त सकारमातिष्ठते" इति सकारमात्रम()स्त धातुम् आपिशलिराचार्यः प्रतिजानीते। तथा हि -- न तस्य पाणिनेरिव "अस भुवि" (धा।पा।१०६५) इति गणपाठः,
किं तर्हि?
"स भुवि" इति स पठति। "आगमौ गुणवृद्धी आतिष्ठते" इति। स त्वागमौ गुणवृद्धी आतिष्ठते। एवं हि स प्रतिजनीत इत्यर्थः॥
बाल-मनोरमा
समवप्रविभ्यः स्थः ५१४, १।३।२२
समवप्रविभ्यः स्थः। स्थ इति पञ्चमी। सम् अव प्र वि एभ्यः परस्मात्स्थाधातोरात्मनेपदमित्यर्थः। संतिष्ठते इति। समाप्तं भवतीत्यर्थः।