पूर्वम्: १।३।४१
अनन्तरम्: १।३।४३
 
प्रथमावृत्तिः

सूत्रम्॥ प्रोपाभ्यां समर्थाभ्याम्॥ १।३।४२

पदच्छेदः॥ प्रोपाभ्याम् ५।२ समर्थाभ्याम् ५।२ क्रमः ५।१ ३८ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
प्रौपाभ्यां समर्थाभ्याम् १।३।४२

प्र उपित्येताभ्यां परस्मात् क्रमतेरात्मनेपदं भवति, तौ चेत् प्रोपौ समर्थौ तुल्यार्थौ भवतः। क्व चानयोस् तुल्यार्थता? आदिकर्मणि। प्रक्रमते भोक्तुम्। उपक्रमते भोक्तुम्। समर्थाभ्याम् इति किम्? पूर्वेध्युः प्रक्रामति। गच्छति इत्यर्थः। अपरेध्युरुपक्रामति। आगच्छति इत्यर्थः। अथ उपपराभ्याम् १।३।३९ इत्यनेन आत्मनेपदम् अत्र कर्मान् न भाति? वृत्त्यादिग्रहणम् तत्र अनुवर्तते। ततो ऽन्यत्र इदं प्रत्युदाहरणम्।
न्यासः
प्रोपाभ्यां समर्थाभ्याम्। , १।३।४२

"प्रकर्मते, उपक्रमते" इति। आरभत इत्यर्थः।
बाल-मनोरमा
प्रोपाभ्यां समर्ताभ्याम् ५३८, १।३।४२

प्रोपाभ्याम्। "क्रम आत्मनेपद"मिति शेषः। समौ अर्थौ ययोरिति विग्रह इत्याह-- समर्थौ तुल्यार्थाविति। सवर्णदीर्घमाशङ्क्य आह-- शकन्ध्वादित्वादिति। ननु "प्रक्रमते" इत्यत्र अतिशयितपदविक्षेपार्थप्रतीतेः, उपक्रमते इत्यत्र समीपे पदानि विक्षिपतीति प्रतीतेः कथमनयोस्तुल्यार्थकत्वमित्यत आह-- प्रारम्भेऽनयोस्तुल्यार्थतेति। तथाच आरम्भार्थकाम्यामिति फलितमिति भावः।

तत्त्व-बोधिनी
प्रोपाभ्यां समर्थाभ्याम् ४५४, १।३।४२

प्रोपाभ्याम्। "प्रोपाभ्यां प्रारम्भे" इत्येव सुवचम्। उपक्रामतीति। वृत्त्याद्यर्थेष्ववोपपराभ्यामिति प्रवृत्तेर्नाऽत्रात्मनेपदं शङ्क्यमिति भावः।