प्रथमावृत्तिः
सूत्रम्॥
समुदाङ्भ्यो यमोऽग्रन्थे॥ १।३।७५
पदच्छेदः॥
समुदाङ्भ्यः ५।३ यमः ५।१ अग्रन्थे ७।१ कर्त्रभिप्राये ७।१ ७२ क्रियाफले ७।१ ७२ आत्मनेपदम् १।१ १२
समासः॥
समुदाङ्भ्यः इत्यत्र इतरेतरद्वन्द्वः।
अग्रन्थे इत्यत्र नञ्तत्पुरुषः।
अर्थः॥
सम् उत् आङ् इत्येवं पूर्वात् यम्धातोः कर्त्रभिप्राये क्रियाफले अर्थे आत्मनेपदं भवति, ग्रन्थविशयः चेत् प्रयोगः न स्यात्।
उदाहरणम्॥
व्रीहीन् संयच्छते। भारम् उद्यच्छते। वस्त्रम् आयच्छते॥
काशिका-वृत्तिः
समुदाङ्भ्यो यमो ऽग्रन्थे १।३।७५
कर्त्रभिप्राये इति वर्तते। सम् उदाङित्येवं पूर्वाद् यमेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति, ग्रन्थविशयश्चेत् प्रयोगो न भवति। व्रीहीन् संयच्छते। भारम् उद्यच्छते। वस्त्रम् आयच्छते। आङ्पूर्वादकर्मकाताङो यमहनः
१।३।२८ इति सिद्धम् एवाऽत्मनेपदम्। सकर्मकार्थम् इदं पुनर्ग्रहणम्।
अग्रन्थे इति किम्? उध्यच्छति चिकित्सां वैद्यः। कर्त्रभिप्राये इत्येव, संयच्छति। उद्यच्छति। आयच्छति।
न्यासः
समुदाङ्?भ्यो यमोऽग्रन्थे। , १।३।७५
"उद्यचछति" इति। "चिकित्सा वैद्यः" इति। चिकित्साशास्त्रमधिगन्तुमुद्यमं करोतीत्यर्थः॥
बाल-मनोरमा
समुदाङ्भ्यो यमोऽग्रन्थे ५६६, १।३।७५
समुदाङ्भ्यो। सम्, उत्, आङ् एतत्पूर्वादग्रन्थविषयकाद्यमेरात्मनेपदमित्यर्थः। व्रीहीन्संयच्छते इति। संगृह्णातीत्यर्थः। भारमुद्यच्छते इति। उदृह्णातीत्यर्थः। वरुआमायच्छते इति। कट()आदौ निबध्नातीत्यर्थः। कत्र्रभिप्राये इत्येवेति। व्रीहीन् संयच्छतीति। परार्थं संगृह्णातीत्यर्थः। "आङो यमहनः" इत्येव सिद्धे आड्ग्रहणं सकर्मकार्थम्, तस्य अकर्मकादेव प्रवृत्तेरिति बोध्यम्।
तत्त्व-बोधिनी
समुदाङ्भ्यो यमोऽग्रन्थे ४६८, १।३।७५
समुदाङ्भ्यो। "आङो यमहनः" इत्येव सिद्धे आङ्पूर्वकस्य वचनं सकर्मकार्थमिति ध्वनयन्नुदाहरति-- वस्त्रमायच्छत इति।