पूर्वम्: १।३।७७
अनन्तरम्: १।३।७९
 
प्रथमावृत्तिः

सूत्रम्॥ शेषात् कर्तरि परस्मैपदम्॥ १।३।७८

पदच्छेदः॥ शेषात् ५।१ कर्तरि ७।१ परस्मैपदम् १।१ ९३

अर्थः॥

येभ्यः धातुभ्यः आत्मनेपदम् उक्तं, ततः अन्यत् शेषः, तस्मात् कर्त्तरि वाच्ये परस्मैपदं भवति।

उदाहरणम्॥

याति। वाति। प्रविशति।
काशिका-वृत्तिः
शेषात् कर्तरि परस्मैपदम् १।३।७८

पूर्वेण प्रकरणेन आत्मनेपदनियमः कृतः, न प्रस्मैपदनियमः। तत् सर्वतः प्राप्नोति, तदर्थम् इदम् उच्यते। येभ्यो धातुभ्यो येन विशेषणेन आत्मनेपदम् उक्तं ततो यदन्यत् स शेषः। शेषात् कर्तरि परस्मैपदं भवति। शेषादेव न अन्यस्मात्। अनुदात्तङित आत्मनेपदम् उक्तम् अस्ते। शेते। ततो ऽन्यत्र परस्मैपदम् भवति याति। वाति। नेर्विशः आत्मनेपदम् उक्तम् निविशते। ततो ऽन्यत्र परस्मैपदम् आविशति। प्रविशति। कर्तरि इति किम्? पच्यते। गम्यते। कर्मकर्तरि कस्मात् परस्मैपदं न भवति, पच्यते ओदनः स्वयम् एव? कर्तरि कर्मव्यतिहारे १।३।१४ इति द्वितीयं कर्तृग्रहणम् अनुवर्तते, तेन कर्ताएव यः कर्ता तत्र प्रस्मैपदम् भवति, कर्मकर्तरि न भवति।
लघु-सिद्धान्त-कौमुदी
शेषात्कर्तरि परस्मैपदम् ३८२, १।३।७८

आत्मनेपद निमित्त हीनाद्धातोः कर्तरि परस्मैपदं स्यात्॥
न्यासः
शेषात्कर्तरि परस्मैपदम्। , १।३।७८

"पूर्वेण" इति। "अनुदात्तहितः" १।३।१२ इत्यादिना। "सर्वत्र प्राप्नोति" इति। अशेषेभ्योऽपि। "तदर्थमिदमुच्यते" इति। सर्वत्र परस्मैपदे प्रसक्ते तन्निवृत्त्यर्थम्; अर्थशब्दस्य निवृत्तिवचनत्वात्। तथा-मशकार्थो धूम इति। तदेनैतत् नियमार्थमित्युक्तं भवति। "येभ्यो धातुभ्यः" इत्यादिना शेषत्वं दर्शयति। "येन विशेषणेन" इति। अनुबन्धादिना। "याति, वाति" इत्यनुबन्धशेषस्योदाहरणम्। "आविशति, प्रविशति" इत्युपसर्गशेषस्यार्थशेषस्यापि। एवं गन्धनादिभ्योऽन्यत्र करोतीत्येवमादिकमुदाहरणं वेदितव्यम्। ननु च शेषादित्यनेन पञ्चम्यन्तेन धातुसमानाधिकरणेन धातुरेव विशिष्यते, नार्थः, ततश्चाशेषेषु गन्धनादिष्वर्थेषु परस्मैपदं प्राप्नोति, नैतदस्ति; गन्धनादयो हि प्रकृतेरेवार्थाः, तत्रासौ शेषग्रहणान्निवत्र्तमानस्तानपि निवत्र्तयति। "पच्यते, गम्यते" इति। ननु च यद्यत्र परस्मैपदं स्यात्, तदा "भावकर्मणोः" १।३।१३ इति वचनमनर्थकं स्यात्, अनवकाशत्वात्, नैतदस्ति; अस्ति हि तस्यावकाशः। कः पुनरसौ? यो न शेषः-- आस्यते, शय्यते, क्रियत इति। अनुदात्तेत्वं ङित्त्वञ्चाशेषः। "शेषात् कर्तरि" १।३।७८ इत्यत्र कर्त्तृग्रहणं सामान्यमुपात्तमिति यो देशयेत् तं प्रत्याह--"कर्मकत्र्तरि" इत्यादि। "कत्र्तरि कर्मव्यतीहारे" १।३।१४ इत्यादिना परिहरति। "कर्त्तैव यः कत्र्ता" इति। शुद्धो यः कत्र्ता, कर्त्तृवद्भावरहितो यः कर्त्तैत्यर्थः॥
बाल-मनोरमा
शेषात्कर्तरि परस्मैपदम् ९, १।३।७८

शेषात्कर्तरि। "अनुदात्तङित" इति "स्वरितञित" इति चोक्तादात्मनेपदविषयादन्यः शेषः। तदाह--आत्मनेपदनिमित्तहीनादिति। अनेन भूधातोः कर्तरि लस्य परस्मैपदं सिद्धम्। तत्र तिबादिनवके युगपत्पर्यायेण एकद्वित्रादिकतिपयरूपेण वा प्राप्ते "युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः" "अस्मद्युत्तमः" "शेषे प्रथमः" इति व्यवस्थां वक्ष्यन् प्रथमादिसंज्ञां तावदाह--तिङस्त्रीणि त्रीणि।