पूर्वम्: १।३।७
अनन्तरम्: १।३।९
 
प्रथमावृत्तिः

सूत्रम्॥ लशक्वतद्धिते॥ १।३।८

पदच्छेदः॥ लशकु १।१ अतद्धिते ७।१ प्रत्ययस्य ६।१ आदिः १।१ उपदेशे ७।१ इत् १।१

समासः॥

न तद्धितः, अतद्धितः, तस्मिन् अतद्धिते, नञ्-तत्पुरुषः

अर्थः॥

उपदेशे प्रत्ययस्य आदयः लकार-शकार-कवर्गाः इत्संज्ञकाः भवन्ति, तद्धितं वर्जयित्वा

उदाहरणम्॥

लकारः - चयनम्, जयनम्। शकारः - भवति, पचति। कवर्गः - भुक्तः, भुक्तवान्। प्रियंवदः, वशंवदः। ग्लास्नुः, जिष्णुः, भूष्णुः। भङ्ग्रम्। वाचः॥
काशिका-वृत्तिः
लशक्वतद्धिते १।३।८

तद्धितवर्जितस्य प्रत्ययस्यादितो वर्तमाना लकारशकारकवर्गा इत्संज्ञा भवन्ति। लकरः, ल्युट् च ३।३।११५ चयनम्, जयनम्। शकारः, कर्तरि शप् ३।१।६८ भवति, पचति। कवर्गः, क्तक्तवतू निष्ठा १।१।२५ भुक्तः, भुक्तवत्। प्रियवशो वदः खच् ३।२।३८ प्रियंवदः, वशंवदः। ग्लाजिस्थश्च ग्स्नुः ३।२।१३९ ग्लास्नुः, जिष्णुः, भूष्णुः। भञ्जभासमिदो घुरच् ३।२।१६१ भुअङ्गुरम्। टाङसिङसाम् इनाऽत्स्याः ७।१।१२ वृक्षात्, वृक्शस्य। अतद्धिते इति किम्? चूढालः। लोमशः। कर्णिका।
लघु-सिद्धान्त-कौमुदी
लशक्वतद्धिते १३६, १।३।८

तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः॥
न्यासः
लशक्वतद्धिते। , १।३।८

"प्रियंवदः" इति। "प्रियवशे वदः खच्" ३।२।३८, "अरुर्द्विषदजन्तस्य" ६।३।६६ इति मुम्। "जिष्णुः"- इति। "ग्लाजिस्थश्च क्स्नुः" ३।२।१३९ इति। ये तु क्स्नुप्रत्ययं गितमिच्छन्ति तन्मतेनेदं गकारस्योदाहरणम्। ये तु कितमिच्छन्ति तन्मतेनेमपि ककारस्योदाहरणं भवति। "चूडाल#ः" इति। मत्वर्थे "प्राणिस्थादातो लजन्यतरस्याम्" ५।२।९५ इति लच् प्रत्ययः। ननु च प्रयोजनाभावादत्रेत्संज्ञा न भविष्यति; लित्प्रत्ययात् पूर्वस्योदात्तत्वं प्रयोजनमिति चेत्, न; चित्स्वरस्य हि सर्वस्य रस्यापवादत्वात् प्रत्ययस्वरेणह्रन्तोदात्तत्वे सिद्धे चित्करणस्यैतत् प्रयोजनम्-- चित्स्वर एव यथा स्यात्, योऽन्यः स्वरः प्राप्नोति स मा भूदिति। इदं तु प्रत्युदाहरणम्-- लोमान्यस्य सन्तीति "लोमादिपामादि" ५।२।९९ इत्यादिना शः, लोमशः? एतदपि नास्ति, अत्रापि प्रोयजनाभावादेवेत्संज्ञा न भविष्यति। इदं तर्हि प्रत्युदाहरम्-- "कर्णललाटात् कनलङ्कारे" ४।३।६५ इति भावार्थे कन्; कर्णिका, यद्यत्रेत्संज्ञा स्यात् "किति च" ७।२।११८ इत्यादिवृद्धिः स्तात्, ततश्च रूपमेव न सिद्ध्येत? यद्येवम् इवमेवोपन्यसनीयम्, नेतरे? एवं मन्यते-- एतदर्थम् "अतद्धिते"इति क्रियमाणमिहापि मन्दधियां प्रतिपत्तिगौरवं परिहर्तु चूडालः, लोमश इत्येवमर्थमपि भवितुमर्हतीति॥
बाल-मनोरमा
लशक्वतद्धिते १९४, १।३।८

"राम शस्"-इति स्थिते, "न विभक्तौ तुस्मा" "इति सकारस्य नेत्वम्। तत्र शकारस्य अनन्त्यत्वाद्धलन्त्यमित्यस्याऽप्राप्तावाह-लशक्वतद्धिते। "लशकु" इति समाहारद्वन्द्वः। उपदेशेऽजनुनासिक इत्, "आदिर्ञिटुडवः, "षः प्रत्ययस्ये"त्यतः-इदिति , आदिरिति, प्रत्ययस्येति चानुवर्तते। अतद्धित इति षष्ठ()र्थे सप्तमी। तद्धितभिन्नस्य प्रत्ययस्य आदिभूतं लकारशकारकवर्गम् इत्संज्ञं भवतीत्यर्थः। तदाह--तद्धितवर्जेति। अतद्धित इति किम्?। "कर्णललाटात्कनलङ्कारे"। कर्णिका। अत्र ककारस्य तद्धितावयवत्वान्नेत्त्वम्। सति तस्मिन् "किति चे"त्यादिवृद्धिः स्यात्। एतेन प्रयोजनाऽभावादेव लशादितद्धितेषु नेत्त्वमित्यतद्धितग्रहणं व्यर्थमिति निरस्तम्। इति शस इति। शकारस्येत्संज्ञायां "तस्य लोप" इति लोपः। शकारोच्चारणं तु "जसः शी" "तस्माच्छसो नः" इत्यादौ विषयविभागार्थम्। राम असिति स्थिते, अकः सवर्णे दीर्घ इति बाधित्वा, अतो गुण इति प्राप्ते प्रथमयोरिति पूर्वसवर्णदीर्घे, रामास् इति स्थिते।

तत्त्व-बोधिनी
लशक्वतद्धिते १६२, १।३।८

लशक्व। "आदिर्ञिटुडवः" इत्यत "आदि"-रित्यनुवर्तते "षः प्रत्ययस्ये"त्यतः प्रत्ययस्येति। "अतद्धिते" इति पर्युदासाद्वा लभ्यत इत्याह--प्रत्ययाद्या इति। लश्त शश्च कुश्चेति समाहारद्वन्द्वे "लशक्वि"ति नपुंसकम्। तदितरेतरयोगद्वन्द्वेन विवृणोति-लशकवर्गा इति। अतद्धित इति कम्?, "प्राणिस्थादातः-"इति लच्। चूडालः। "लोमादिभ्यः[शः"]। लोमशः। अत्र प्रयोजनाऽभावादेव नेत्संज्ञेति नेदं प्रत्युदाहरणमिति नव्याः। "कर्णललाटा"दिति भवार्थे कन्। कर्णिका। सत्यां हीत्संज्ञायां "किति चे"ति वृद्धिः स्यात्। प्रत्ययाद्या इति किम्?। "जल्पभिक्षे"ति वृडः षाकन्। वराकः। अत्र "क्ङिति चे"ति गुणो न स्यात्।