पूर्वम्: १।४।१०३
अनन्तरम्: १।४।१०५
 
प्रथमावृत्तिः

सूत्रम्॥ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः॥ १।४।१०४

पदच्छेदः॥ युष्मदि ७।१ १०५ उपपदे ७।१ १०७ समानाधिकरणे ७।१ १०७ स्थानिनि ७।१ १०७ अपि १०७ मध्यमः १।१ १०५

अर्थः॥

युष्मदि शब्दे उपपदे स्मानाधिकरणे सति = समानाभिधेये, तुल्यकारके सति, स्थानिनि = अप्रयुज्यमाने अपि, प्रयुज्यमानेऽपि मध्यमपुरुषः भवति।

उदाहरणम्॥

त्वं पचसि, युवां पचथः, यूयं पचथ। अप्रयुज्यमानेऽपि -- पचसि, पचथः, पचथ॥
काशिका-वृत्तिः
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः १।४।१०५

लस्य ३।४।७७ इत्यधिकृत्य सामान्येन तिबादयो विहिताः। तेषाम् अयं पुरुषनियमः क्रियते। युष्मद्युपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समानाभिधेये तुल्यकारके स्थानिनि प्रयुज्यमाने ऽप्यप्रयुज्यमाने ऽपि मध्यमपुरुषो भवति। त्वं पचसि। युवां पचथः। यूयं पचथ। अप्रयुज्यमाने ऽपि पचसि। पचथः। पचथ।
लघु-सिद्धान्त-कौमुदी
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ३८५, १।४।१०४

तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः॥
न्यासः
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः। , १।४।१०४

नियतार्थमेतदिति दर्शयितुमाह-- "लस्येत्यधिकृत्य" इत्यादि। एतच्च नियमार्थत्वे कारणम्। सत्यारम्भो नियमार्थो भवति, नासिद्धे। स पुनरयं नियम उपपदार्थनियमो वा स्यात्-- तिङो युष्मद्युपपदे मध्यम एव? पुरुषनियमो वा स्यात्-- युष्मद्येवोपपदे मध्यम् इति वा? तत्र यदि प्रथमो नियम आश्रीयते, त्वया कुर्वता त्वया कुर्वाणेनेति युष्मद्युपदे लस्य शतृशानजादेशौ न भवतः। तस्मात् तदर्थं यत्नान्तरमास्थेयम्। इतरत्र तु न किञ्चिद्यत्नसाध्यम्, अतो द्वितीयपक्षमाश्रित्याह-- "तेषामयम्" इत्यादि। व्यवहिते च, अव्यवहिते चेति। ननु च परस्परं सन्निकृष्टं यत्पदं तदुपपदमुच्यते-- उपोच्चारितं पदमिति कृत्वा;यच्च व्यवहितं तदव्यवहितापेक्षया विप्रकृष्टम्, अतो व्यवहितेन भवितव्यम्, नैष दोषः; यस्मात् सन्निकृष्टं विप्रकृष्टमित्यव्यवस्थितमेतदुभयग्रहणम्; सापेक्षत्वात् परापरवत्। तत्र यद्यव्यवहितमपेक्ष्य व्यवहितं विप्रकृष्टं भवति, तथाप्यन्यद्विप्रकृष्टतरमपेक्ष्य सन्निकृष्टं भवतीतीतरत्र व्यवहितेनापि भवितव्यम्। यद्येवम्, उपपदग्रहणं किमर्थम्? पूर्वभूतेऽपि यथा स्यादित्येवमर्थ कृतम्। अन्यथा "युष्मदि" इत्येतावत्युच्यमाने" तस्मिन्निति निर्दिष्ट#ए पूर्वस्य" १।१।६५इति परभूत एव युष्मदि पूर्वस्य मध्यमः स्यात्, न तु पूर्वभूते परस्य। उपपदग्रहणादत्रापि भवति। पूर्वेण परेणापि प्रयुज्यमानमुपपदं भवत्येव। "समानाधिकरणे" इत्यनेन समानाभिधेय इति व्याचक्षाणोऽयमधिकरणशब्दोऽभिधेयवचनः सूत्र उपात्त इति दर्शयति। तत्पुनरभिधेयं यत्र लकार उत्पद्यते कर्तरि कर्मणि वा कारके प्रत्यासत्तेस्तदेव विज्ञायते इत्याह-- "तुल्यकारके" इत्यादि। तुल्यं कारकं यस्य तत् तथोक्तम्। तुल्यशब्देन समानशब्दस्यार्थो दर्शितः। "प्रयुज्यमानेऽप्रयुज्यमानेऽपि" इति। अनेन स्थानिन्यपीत्यस्यार्थमाचष्टे। स्थानशब्दः प्रसङ्गवाची-- स्थानमस्यास्तीति स्थानी। कस्य च स्थानम्? तस्यैव स्थानमस्ति यस्यार्थो गम्यते, शब्दो न प्रयुज्यते। तदेतदुक्तं भवति-- अप्रयुज्यमानेऽपि युष्मदि, अपिशब्दात् प्रयुज्यमानेऽपि। समानाधिकरणग्रहणं किम्? "त्वया पच्यते" इत्यत्र मा भूत्, भिन्नं ह्रधिकरणम्। तथा हि-- "त्वया" इत्येतत् कर्त्तृवाचि; कत्र्तरि तृतीयाविधानात्। "पच्यते" इति कर्मवाचि; कर्मणि लकारविधानात्॥
बाल-मनोरमा
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः १२, १।४।१०४

युष्मदि। उपोच्चारितं पदमुपपदम्। युष्मदि समीपोच्चारिते सतीत्यर्थः। समानमेकमधिकरणं वाच्यं यस्येति विग्रहः। सामानाधिकरण्यं च युष्मदस्तिङः स्थानीभूतलकारेण विवक्षितम्, "लः परस्मैपद"मित्यतस्तदनुवृत्तेः। तथा च फलितमाह--तिङ्वाच्यकारकवाचिनि युष्मदीति। स्थानं-- प्रसङ्गोऽस्यास्तीति स्थानी, तस्मिन्। प्रसक्ते सतीत्यर्थः। प्रसङ्गश्च तदर्थावगतौ सत्यां वक्रा अप्रयोग एव भवति। तथा च "स्थानिनी"त्यनेन उपपदभूते युष्मदि प्रयोगं विना स्वार्थं बोधयति सतीत्यर्थः पर्यवस्यति। तदाह-- अप्रयुज्यमान इति। "स्थानिनी"त्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मध्यमः स्यात्। ततश्च राम पाहीत्यादावव्याप्तिः स्यात्। अपिना लब्धमाह--प्रयुज्यमानेऽपीति। "युष्मद्युपपदे स्थानिनी"त्येवोक्तौ राम त्वं पाहीत्यादौ युष्मत्प्रयोगे मध्यमो न स्यादतोऽपिग्रहणमिति भावः। अत्वं त्वं संपद्यत इत्यत्र तु न मध्यमपुरुषः, तत्र युष्मच्छब्दस्य गौणत्वात्। "भवानागच्छती"त्यादौ भवच्छब्दयोगे तु न मध्यमपुरुषः, युष्मच्छब्दस्य संबोध्यैकविषयत्वात्, भवच्छब्दस्य तु स्वभावेन संबोध्याऽसंबोध्यसादारणत्वादित्यलम्।

तत्त्व-बोधिनी
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ११, १।४।१०४

युष्मदि। समानाधिकरणे इत्यस्य व्याख्यानं-- तिङ्वाच्यकारकवाचिनीति। भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः-- सामानाधिकरणम्। स्थानिनीत्यस्य व्याख्यानम्- अप्रयुज्यमान इति। समानाधिकरणे किम्?। त्वं पश्यति, त्वया क्रियते, तुभ्यं ददाति॥