पूर्वम्: १।४।१३
अनन्तरम्: १।४।१५
 
प्रथमावृत्तिः

सूत्रम्॥ सुप्तिङन्तं पदम्॥ १।४।१४

पदच्छेदः॥ सुप्तिङन्तम् १।१ पदम् १।१

समासः॥

सुप् च तिङ् च, सुप्तिङौ। सुप्तिङौ, सुप्तिङौ अन्ते यस्य तत् सुप्तिङन्तम्, द्वन्द्वगर्भः बहुव्रीहिः

अर्थः॥

सुबन्तं तिङन्तं च शब्दरूपं पदसंज्ञं भवति

उदाहरणम्॥

कर्त्ता, हर्त्ता, औपगवः, कापटवः। करिष्यति, अकरिष्यत्, करिष्यावः, करिष्यामः॥
काशिका-वृत्तिः
सुप्तिङन्तं पदम् १।४।१४

सुप् तिङिति प्रत्याहारगरहणम्। सुबन्तं तिङन्तं च शब्दरूपं पदसंज्ञं भवति। ब्राह्मणाः पथनित्। पदसंज्ञायाम् अन्तग्रहणम् अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधार्थम्। गौरी ब्राह्मणितरा। पदप्रदेशाः पदस्य ८।१।१३, पदात् ८।१।१७ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
सुप्तिङन्तं पदम् १४, १।४।१४

सुबन्तं तिङन्तं च पदसंज्ञं स्यात्॥
लघु-सिद्धान्त-कौमुदी
इति संज्ञाप्रकरणम् १४, १।४।१४

लघु-सिद्धान्त-कौमुदी
अथाच्सन्धिः १४, १।४।१४

न्यासः
सुप्तिङन्तं पदम्। , १।४।१४

"सुप् तिङिति प्रत्याहारग्रहणम्" इति। युक्तं हि तिङिति प्रत्याहारग्रहणम्, अन्यस्य तिङशब्दस्याभावात्; कथं सुबिति प्रत्याहारग्रहणम्, सप्तमीबहुवचनस्य विद्यमानत्वात् तस्य ग्रहणं कस्मान्न भवतीति? नैष दोषः; " न ङिसम्बुद्ध्योः" ८।२।८ इति प्रतिषेधात्। सप्तमीबहुवचनस्य सुपो ग्रहणे ङिसम्बुद्ध्योः पदत्वाभावान्नलोपस्य प्राप्तिरेव नास्तीति प्रतिषेधोऽर्थकः स्यात्। "ब्राआहृणाः" इति। पदत्वे च सति "ससजुषो रुः" ८।२।६६, "खरवसानयोर्विसर्जनीयः" ८।३।१५। "पठन्ति" इति। अत्र पदत्वे सति "तिङङतिङः" ८।१।२८ इति निघातः। ननु च"प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य" (पु प २४) इत्यनेन "येन विधिस्तदन्तस्य" १।१।७१ इत्यनेन वाऽन्तरेणाप्यन्तग्रहणं तदन्तस्यैव संज्ञा भविष्यति, तत्किमर्थमन्तग्रहणमित्यत आह-- "पदसंज्ञायाम्" इत्यादि। यदीहान्तग्रहणेनाप्यन्यत्र संज्ञाविधौ तदन्तविधिर्नास्तीत्येषोऽर्थो न ज्ञाप्यते, तदा "तरप्तमपौ घः" १।१।२१ इत्यत्र तरबन्तस्य घसंज्ञा स्यात्, न प्रत्ययमात्रस्य। तस्मादत्रास्मिन्नर्थेऽन्तग्रहणेन ज्ञाप्यते-- अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधो यथा स्यादित्येवमर्थमन्तग्रहणम्। तेन तरप्तमपोरेव घसंज्ञा भवति, न तु तदन्तस्य। "गौरीब्राआहृणितरा" इति।अत्र गौरीशब्दस्य तरबन्ते ब्राआहृणितराशब्दे परतः "घरूपकल्प" ६।३।४२ इत्यादिना ह्यस्वो न भवति; तरबन्तस्याघसंज्ञकत्वात्। प्रत्ययमात्रस्य घसंज्ञायां तत्र परतो ब्राआहृणीशब्दस्य ह्यस्वो भवत्येव॥
बाल-मनोरमा
सुप्तिङन्तं पदम् ३१, १।४।१४

सुप्तिङन्तं पदम्। सुबिति स्वौजसमौङिति सूत्रे "सु" इत्यारभ्या सुपः पकारेण प्रत्याहारो न तु सप्तमीबहुवचनस्यैवाऽत्र ग्रहणं, व्याख्यानात्। सुप्च तिङ् च सुप्तिङौ, तौ अन्ते यस्य तत् सुप्तिङन्तम्। शब्दरूपमिति शब्दशास्त्रप्रस्तावाल्लभ्यते। अन्तशब्दश्च प्रत्येकं सम्बध्यते। तदाह--सुबन्तमिति।

तत्त्व-बोधिनी
सुप्तिङ्न्तं पदम् २८, १।४।१४

सुप्तिङ्न्तं पदम्। अत्राऽन्तग्रहणं "अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती"ति ज्ञापनार्थम्। तेन "ईदूदेद्द्विवचनं प्रगृह्र"मिति न द्विवचनान्तस्य प्रगृह्रत्वम्। अन्यथा कुमार्गोरगारं कुमार्यगारमित्यत्र प्रकृतिभावः स्यात्। कथं तर्हि प्रातिपदिकसंज्ञायां कृतद्धिताभ्यां तदन्तग्रहणमिति चेत्?; अत्राहुः -"कुत्तद्धिते"ति सूत्रेर्ञर्थवह्यहणमनुवर्तते तत्सामथ्र्यात्तदन्तग्रहणमिति।