"भवदीयः" इत्यादि। "तत्र जातः"
४।३।२५ इत्यादौ शैषिकेऽर्थे तद्धितः, पदत्वात् "झलाञ्जशोऽन्ते"
८।२।३९ इति जश्त्वम्। "ऊर्णायुः" इति। "ऊर्णाया युस्"
५।२।१२२ इति युसि कृते पदसंज्ञया भसंज्ञायां निरस्तायां "यस्येति च"
६।४।१४८ इत्याकारलोपो न भवति। "ऋत्वियः" इति। ऋतुः प्राप्तोऽस्त्येति "ऋतोरण्"
"छन्दसि घस्"
५।१।१०५ ऋत्वियः, पदत्वात् भत्वाभावे तदाश्रयः "ओर्गुणः"
६।४।१४६ न भवति।