पूर्वम्: २।१।१७
अनन्तरम्: २।१।१९
 
प्रथमावृत्तिः

सूत्रम्॥ संख्या वंश्येन॥ २।१।१८

पदच्छेदः॥ संख्या १।१ १९ वंश्येन ३।१ विभाषा १।१ ११ अव्ययीभावः १।१ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
सङ्ख्या वंश्येन २।१।१९

विद्यया जन्मना वा प्राणिनाम् एकलक्षणसन्तानो वंशः इत्यभिधीयते। तत्र भवो वंश्यः। तद्वाचिना सुबन्तेन सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति। द्वौ मुनी व्याकरणस्य वंश्यौ द्विमुनि व्याकरनस्य। त्रिमुनि व्याकरणस्य। यदा तु विद्यय तद्वताम् अभेदविवक्षा तदा सामानाधिकरण्यं भवति। द्विमुनि व्यकरणम्। त्रिमुनि व्याकरणम् इति। जन्मना एकविंशतिभारद्वाजम्।
न्यासः
संख्या वंश्येन। , २।१।१८

"एकलक्षण" इति। एकस्वभावः। सन्तानः = प्रबन्धः। सन्तानिनामेकलक्षणत्वात्, सन्तानोऽप्येकलक्षमो भवति। ततर् विद्ययैकलक्षणः-- वैयाकरणवंशः, उपाध्यायवंश इति। जन्मना-- ब्राआहृणवंशः, क्षत्रियवंश इति। "तत्र भवो वंश्यः" इति। दिगादित्वाद्यत्। "द्वौ मुनी" इति। पाणिनिकात्यायनौ। "व्याकरणस्य" इति। सम्बन्धलक्षमा षष्ठी। "त्रिमुनिव्याकरणस्य" इति। पूर्वौ द्वौ, भाष्यकारस्तृतीयः। "विद्यया" इति। व्याकरणाख्यया। "तद्वताम्" इति। पाणिनिप्रभृतनीनाम्। "अभेदविवक्षा" इति। यौ तौ द्वौ मुनी तावेव व्याकरणमित्यतिशयेन विद्यया योगं तयोराख्यातुमभेदविवक्षा यदा क्रियते तदा सामानाधिकरण्यं भवति-- द्विमुनि व्याकरणमिति॥
बाल-मनोरमा
संख्या वंश्येन ६६५, २।१।१८

संख्या वंश्येन। वंशो द्विधेति। वंशः-सन्ततिः। "सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ। वंशोऽन्ववायः सन्तानः" इत्यमरः। विद्यया जन्मनेति। तत्र जन्मनवांशः पुत्रादिपरम्परेति प्रसिद्धमेव। विद्यया तु वंशो गुरुपरम्परा, "यस्माद्धर्मानाचिनोति स आचार्यः। तस्मै न द्रुह्रेत्कदाचन। स हि विद्यातस्तं जयति तच्छ्रेष्ठं जन्म। शरीरमेष मातापितरौ जनयतः" इत्याद्यापस्तम्बस्मरणात्। तत्र भवो वंश्य इति। दिगादित्वाद्यत्। वा समस्यते इति। "सोऽव्ययीभाव" इत्यपि बोध्यम्। द्वौ मुनी वंश्याविति। विग्रहोऽयम्। मुनिशब्दो विद्यावंश्यवाचीति सूचनाय वंश्यावित्युक्तम्। द्विमुनि व्याकरणस्येति। द्वौ च तौ मुनी चेति विग्रहे "विशेषणं विशेष्येण बहुल"मिति कर्मधारयं बाधित्वाऽव्ययीभावः। अव्ययत्वात्सुब्लुक्। व्याकरमविद्यायाः प्रवर्तकौ द्वौ मुनी पाणिनिकात्यायनावित्यर्थः। त्रिमुनीति। त्रयो मुनयः पाणिनिकात्यायनपतञ्जलय इति विग्रहः। नन्वेवं "त्रिमुनि व्याकरण"मिति सामानाधिकरण्यानुपपत्तिरित्यत आह--विद्यातद्वतामिति। यद्यपि बहुव्रीहिणाप्येतत्सिद्धं तथापि विभक्त्यन्तरेषु रूपभेद इत्याहुः। अथ जन्मना वंश्यमुदाहरति--एकविशतिभ#आरद्वाजमिति एकविंशतिर्भरद्वाजा इति कर्मधारयं बाधित्वाऽव्ययीभावः। तत्र विग्रहवाक्ये भरद्वाजशब्दाद्विदादित्वादञ्। "यञञोश्चे"ति लुक्। समासे तु "उपकादिभ्योऽन्यतरस्यामद्वन्द्वे" इति लुगभावः। "तृतीयासप्तम्योर्बहुल"मिति सूत्रे "एकविंशतिभारद्वाज"मिति प्रयोगदर्शनेन उपकादिषु भारद्वाजशब्दस्य पाठानुमानात्।

तत्त्व-बोधिनी
संख्या वंश्येन ५८९, २।१।१८

संख्या वंश्येन। वंशः संताननस्तत्र भवो वंश्यः। दिगादित्वाद्यत्। द्विमुनीति। पाणिनिकात्यायनौ। त्रिमुनीति। तौ द्वौ, पातञ्जलिश्चेति त्रयो वंश्याः। व्याकरणस्येति संबन्धे षष्ठी। स्वपदार्थप्राधान्य एवायं समासः। यदा त्वन्यपदार्थप्राधान्यविवक्षा-त्रयो मुनयो वंश्या यस्येति, तदा बहुव्रीहिरेवेत्याहुः। त्रिमुनि व्याकरणमिति। यद्यप्येतद्बहुव्रीहिणाऽप्युपपन्नं, तथापि विभक्त्यन्तरेषु रुपेऽपि विशेषोऽस्त्येवेति भावः। वस्तुतस्तु "लक्षणेनाभिप्रती--"इति सूत्रे आभिमुख्यग्रहणाद्बहुव्रीहिविषयेऽप्यठ()यीभावो भवतीतिद्विमुनि व्याकरणमित्यादि सिद्धमित्यवोचाम। जन्मनोदाहरति---एकविंशति भारद्वाजमिति। एकविंशतिर्भरद्वाजा वंश्या इति विग्रहः। ननु भरद्वाजाद्विदाद्यञो "यञञोश्चे"ति लुक् प्राप्नोति। न च वर्तिपदानां स्वार्थेपसर्जनैकत्वविशिष्टार्थान्तरोपसङ्कमाल्लुगभाव इति कैयटोक्तमादर्तव्यम्। वृत्तिप्रवेशात्प्रागेव प्राप्नुवतोऽन्तरङ्गस्य लुको दुर्वारत्वात्। अन्यथा गर्गाणां कुलं गर्गकुलमित्यपि न स्यात्। अत्राहुः--भाष्यकारप्रयोगादेव लुगभावोऽत्र बोध्य इति। एतच्च "तृतीयासप्तम्यो"रिति सूत्रे शब्दकौस्तुभे स्पष्टम्।