पूर्वम्: २।१।२९
अनन्तरम्: २।१।३१
 
प्रथमावृत्तिः

सूत्रम्॥ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः॥ २।१।३०

पदच्छेदः॥ पूर्व॰श्लक्ष्णैः ३।३ तृतीया १।१ २९ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
पूर्वसदृशसमौउनार्थकलहनिपुणमिश्रश्लक्ष्णैः २।१।३१

पूर्व सदृश सम ऊनार्थ कलह निपुण मिश्र श्लक्ष्ण इत्येतैः सह तृतीयान्तं समस्यते, तत्पुरुषश्च समसो भवति। अस्मादेव वचनात् पूर्वादिभिर् योगे तृतीया भवति, हेतौ वा द्रष्टव्या। पूर्व मासेन पूर्वः मासपूर्वः। संवत्सरपूर्वः। सदृश मातृसदृशः। पितृसदृशः। सम मातृसमः। ऊनार्थ माशोनम्। कार्षापणोनम्। माषविकलम्। कार्षापनविकलम्। कलह असिकलहः। वाक्कलहः। निपुण वाङ्निपुणः। आचारनिपुणः। मिश्र गुडमिश्रः। तिलमिश्रः। श्लक्ष्ण आचारश्लक्ष्णः। पूर्वादिष्ववरस्योपसङ्ख्यानम्। मासेनावरः मासावरः। संवत्सरावरः।
न्यासः
पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः। , २।१।३०

युक्तः समसदृशशब्दाभ्यां समासः, यावाता ताभ्यां योगे "तुल्यार्थेरतुलोपमाभ्याम्" २।३।७२ इति तृतीयाविधानम्, इतरैस्तु पूर्वादिभिः कथं तृतीयासमास उपपद्यते? न हि तद्योगे केनचित्तृतीया विहिता इत्याह "अस्मादेव" इत्यादि। सुबोधम्। "पूर्वादिष्ववरस्योपसंख्यानम्" इति। पूर्वादिषु समासकारणत्वेनोपात्तेषु सत्स्ववरशब्दस्योपसंख्यानं प्रतिपादनं कत्र्तव्यमित्यर्थः। अवरशब्देनापि तृतीयासमासः प्रतिपद्यत इत्यर्थः। तत्रेदं प्रतिपादनम्-- उत्तरसूत्रे बहुलग्रहणं क्रियते। तेनावरशब्देनापि समासो भवति॥
बाल-मनोरमा
पूर्वसदृशसमोनार्थकलहनिपुणामिश्रश्लक्ष्णैः ६८४, २।१।३०

पूर्वसदृश। एतैरिति। पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण एतैरित्यर्थः। मासपूर्व इति। मासेन पूर्व इति विग्रहः। मासात्प्रागुत्पन्न इत्यर्थः। यद्यप्यवधित्वसम्बन्धे "अन्यारादितरर्ते" इति दिक्शब्दयोगे पञ्चमी प्राप्ता, दिशि दृष्टः शब्दो दिक्शब्द इत्यभ्युपगमात्। तथाप्यत-एव ज्ञापकात्तृतीया हेतौ तृतीयेत्यन्ते।

मातृसदृश इति "मात्रा सदृश" इति विग्रहः। पितृसम इति। पित्रा सम इति विग्रहः। "तुल्यार्थैरतुलोपमाभ्या"मिति तृतीया। "तुल्यार्थै"रिति षष्ठ()आं षष्ठीसमासेनैव सिद्धमिदमित्यहुः। ऊनार्थेति। उदाहरणसूचमिदम्। मात्रोनमिति। मात्राख्यपरिमाणविशेषेण ऊनं परिमाणमित्यर्थः। अतएव ज्ञापकादवधित्वे तृतीया, हेतौ वा। अर्थग्रहणं च ऊनेनैव सम्बध्यते, न पूर्वादिभिरपि, समसदृश्योः पृथगुपादानात्। अर्थग्रहणस्य प्रयोजनमाह--माषविकलमिति। माषेण विकलमिति विग्रहः। हीनमित्यर्थः। पूर्ववत्तृतीया। वाक्कलह इति। वाचा कलह इति विग्रहः। आचारनिपुण इति। आचारेण निपुण इति विग्रहः। आचारहेतुकनैपुण्यवानित्यर्थः। गुडमिश्र इति। गुडेन मिश्र इति विग्रहः। आचारश्लक्ष्ण इति। आचारेण श्लक्ष्ण इति विग्रहः। आचारहेतुककुशलत्ववानित्यर्थः। ननु "गुडसंमिश्रा" इत्यत्र कथं समासः(), सुबन्तविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात्। तत्राह--मिश्रग्रहणे सोपसर्गस्यापीति। कुत इत्यत आह--मिशं चेति। "असन्धौ मिश्रेत्युत्तरपदमुपसर्गहीनं तृतीयान्तात्परमन्तोदात्त"मिति तदर्थः। अत्राऽनुपसर्ग गणादितरत्र मिश्रग्रहणे सोपसर्गग्रहणं विज्ञायत इत्यर्थः।

मासेनावर इति। मासेन पूर्व इत्यर्थः। न्यून इत्यर्थे तूनार्थकत्ववादेव सिद्धम्।

तत्त्व-बोधिनी
पूर्वसदृशमोनार्थकलहमिषुणमिश्रश्लक्ष्णैः ६०६, २।१।३०

पूर्वसदृश। इह समसदृशाभ्यां योगे "तुल्यार्थैः"इति तृतीया। अन्यैर्योगे त्वतएव वचनात्, "हेतौ"इति वा तृतीया। इह सदृशग्रहणं व्यर्थं, षष्ठीसमासेन गतार्थत्वात्। न च "तत्पुरुषे तुल्यार्थतृतीया---" इति पूर्वपदप्रकृतिस्वरार्थमिदमिति वाच्यम्। "सदृशप्रतिरूपयोः सादृश्ये"इति सूत्रेण तत्सिद्धेरिति मनोरमायां स्थितम्। विद्यया सदृशो विद्यासदृश इत्यादौ हेतुत्वप्रकारकबोधार्थं तृतीयासमासोऽप्यावश्यक इति त्वन्ये। पूर्वसूत्रेणैव तत्कृतत्वात्तृतीयासमासोऽपि सिद्द्यतीत्यपरे। ऊनार्थेति। पूर्वसूत्रेऽर्थशब्देन समासस्योक्तत्वादिहार्तग्रहणमभिधेयपरम्। त।] तच्चोनशब्दोनैव संबध्यते, न तु पूर्वादिभिः, समसदृशयोः पृथग्ग्रहणादिति भावः।

अवरस्योपसङ्क्यानम्। अवरस्येति। अत्र व्याचक्षते--ऊनार्थेत्येव सिद्धत्वादिदं सुत्यजमेव। न चावरशब्दस्योनार्थकत्वमप्रसिद्धमिति वाच्यम्। " सप्तदशावराः सत्रमासीरम्िति श्रुतौ "अव्यक्तानुकरणाद् द्द्यजवरार्धात्िति सूत्रे च तत्प्रसिद्धेरिति।