पूर्वम्: २।१।४२
अनन्तरम्: २।१।४४
 
प्रथमावृत्तिः

सूत्रम्॥ संज्ञायाम्॥ २।१।४३

पदच्छेदः॥ संज्ञायाम् ७।१ सप्तमी १।१ ३९ तत्पुरुषः १।१ २१ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
संज्ञायाम् २।१।४४

संज्ञायां विषये सप्तयन्तं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति। संज्ञा समुदायोपाधिः। तेन नित्यसमास एव अयम्, न हि वाक्येन संज्ञा गम्यते। अरण्येतिलकाः। अरण्येमाषाः। वनेकिंशुकाः। वने बिल्वकाः। कूपेपिशाचकाः। हलदन्तात् सप्तम्याः संज्ञायाम् ६।३।८ इत्यलुक्।
न्यासः
संज्ञायाम्। , २।१।४३

"समुदायोपाधिः" इति। "संज्ञायाम्" इति नेदं पूर्वपदस्योत्तरपदस्य वा विशेषणम्, किं तर्हि? समुदायस्य-- समुदायेन चेत्संज्ञा गम्यत इति। किमेवं सति सिध्यतीत्यत आह-- "तेन" इत्यादि। अत्रैवोपपत्तिमाह-- "न हि" इत्यादि॥
बाल-मनोरमा
संज्ञायाम् ७१२, २।१।४३

संज्ञायाम्। "सप्तमी"त्यनुवर्तते। तदाह--सप्तम्यन्तमित्यादि। "अरण्येतिलका" इति "वनेकशेरुका" इति च संज्ञाशब्दौ। "हलदन्तात्सप्तम्याः" इत्यलुक्।

क्तेनाहो। अहोरात्रयोरवयवा इति विग्रहः। सप्तमीत्यनुवर्तते। क्तेनेति तदन्तग्रहणं। तदाह--अह्नो रात्रेश्चेति। अहरवयवस्योदाहरति--पूर्वाह्णकृतमिति। रात्र्यवयवस्योदाहरति--अपररात्रकृतमिति।