पूर्वम्: २।१।४९
अनन्तरम्: २।१।५१
 
प्रथमावृत्तिः

सूत्रम्॥ तद्धितार्थोत्तरपदसमाहारे च॥ २।१।५०

पदच्छेदः॥ तद्धितार्थोत्तरपदसमाहारे ७।१ दिक्सङ्ख्ये १।२ ४९ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
तद्धितर्थौत्तरपदसमाहारे च २।१।५१

दिक्सङ्ख्ये इत्यनुवर्तते। तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च अभिधेये दिक्सङ्ख्ये समानाधिकरणेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। तद्धितार्थे तावत् पूर्वस्यां शालायां भवः, दिक्पूर्वपदादसंज्ञायां ञः ४।२।१०६, पौर्वशालः। आपरशालः। उत्तरपदे पूर्वशालाप्रियः। अपरशालाप्रियः। समाहारे दिक्शब्दो न सम्भवति। सङ्ख्या तद्धितार्थे पाञ्चनापितिः। पञ्चकपालः। उत्तरपदे पञ्चगवधनः। दशगवधनः। समाहारे पञ्चपूली। दशपूली। पञ्चकुमारि। दशकुमारि। स नपुंसकम् २।४।१७ इति नपुंसकत्वम्। ह्रस्वो नपुंसके प्रातिपदिकस्य १।२।४७ इति ह्रस्वत्वम्।
लघु-सिद्धान्त-कौमुदी
तद्धितार्थोत्तरपदसमाहारे च ९३९, २।१।५०

तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत्। पूर्वस्यां शालायां भवः - पूर्वा शाला इति समासे जाते (सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः)॥
न्यासः
तद्धितार्थोत्तरपदसमाहारे च। , २।१।५०

एकस्या अपि सप्तम्या विषयभेदेन भेदं दर्शयितुमाह-- "तद्धितार्थे विषये" इत्यादि। यदि तद्धितार्थेऽभिधेय इत्येवं विज्ञायेत, तदा पाञ्चनापितिरित्यादौ तद्धितो दुर्लभः स्यात्। तदर्थस्य समासेनैवोक्तत्वादित्येतन्मनसि कृत्वा तद्धितार्थापेक्षया विषयसप्तमीयमिति दर्शयितुं "तद्धितार्थे विषये" इत्युक्तम्। तद्धिताः = अणादयः, तेषामर्थोऽपत्यादिः, तस्मिन् विषये। अनन्यत्रभावो विषयशब्दस्यार्थः, यथा-- मत्स्यानां जलं विषः इति। "पौर्वशालः" इति। पूर्वस्यां शलायां भव इति तद्धितार्थे विषयभूते?प्राक् समासः। ततः सुब्लुक्। ततस्तद्धितः। "पूर्वशालाप्रियः" इति। पूर्वा शाला प्रियाऽस्येति पूर्वं पदानां त्रयाणां बहुव्रीहिः। पश्चात् प्रियशब्दे उत्तरपदे परतः पर्वयोः पदयोस्तत्पुरुषः। तस्मिन् सति समासान्तोदात्तत्वं भवति शालेत्यत्र। "समाहारे {दिक्शब्दः इति मूलपाठः, पदमञ्जरी च। } दिङ न सम्भवति" इति। समाहारो हि समूहः। स च भिन्नार्थानामेवैककालानां भवति। बुद्ध्या युगपदार्थानां परिग्रहादेककालत्वम्, न त्वभिन्नवस्तुनः। संखायैव च भेदमाचष्टे; तस्या भिन्नार्थाभिधायित्वात्, न तु दिक्शब्दः; तस्य प्रतिनियतविषयत्वात्। तस्मात् समाहारे द#इक्शब्दोन सम्भवतीति स न तत्र समस्यते। "पञ्चानापितिः" इति। पञ्चानां नापितानामपत्यमिति तद्धितार्थे विषयभूते प्राक् समासः। पश्चात् "अत इञ्" (४।१। ९५)। "पञ्चकपालः" इति। पञ्चसु कपालेषु संस्कृत इति तद्धितार्थे विषयभूते पूर्वं समासः; पश्चादण्। तस्य "द्विगोर्लुगनपत्ये" ४।१।८८ इति लुक्। "{पञ्चगवधनम् इति मुद्रित पाठः}पञ्चगवधनः" इति। पञ्च गावो धनमस्येति प्राक् त्रयाणां पदानां बहुव्रीहिः। उत्तरकालं धनशब्द उत्तरपदे परतः पूर्वयोः पदयोस्तत्पुरुषः। तस्मिन् सति "गोरतद्धितलुकि" ५।४।९२ इति टच् समासान्तः। तत्र हि "तत्पुरुषस्याङ्गुलेः" ५।४।८६ इत्यतस्तत्पुरुषग्रहणमनुवत्र्तते। "पञ्चपूली"इति। पञ्चानां पूलानां समहार इति विग्रहः। "द्विगुरेकवचनम्" (२।४।१।) इत्येकवद्भावः। "अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते" (वा।१५६) इति स्त्रीलिङ्गता; "द्विगोः" ४।१।२१ इति ङीप्। ननु समाहारः = समूहः, समूहश्च तद्धितकार्थो भवतीत्यपार्थकं समाहारग्रहणम्; तद्धितार्थ इत्येव सिद्धत्वात्? नैतदस्ति; पञ्चकुमारीत्यत्र हि समूहप्रत्ययस्य "द्विगोर्लुगनपत्ये" ४।१।२१ इति लुकि कृते "लुक् तद्धितलुकि" १।२।४९ इति स्त्रीप्रत्ययस्यापि लुक् स्यात्। समाहारे तु पृथग्गृहीते तद्धितानुत्पत्तिरेवात्र विषये समाख्यायते। ततो न भवत्येष दोषः। पञ्चानां कुमारीणां समाहारः पञ्चमकुमारि। "एकविभक्तिचापूर्वनिपाते" १।२।४४ इत्युपसर्जनसंज्ञायाम् "गोस्त्रियोरुपसर्जनस्य" १।२।४८ इति ह्यस्वत्वम्। कथं पुनरत्रैकविभक्तत्वम्? षष्ठ()ऐवैकया योगात्। तथा हि समाहारः समूहः, तेन च तत्सम्बन्धे षष्ठ()ऐव भवितव्यम्। अतः समाहारः कुमा४रीणाम्, समाहारं कुमारीणां पश्य, समाहारेण कुमारीणामित्येवमादिभिरनेकाभिर्विभक्तिभिर्युज्यमानेऽपि समाहारशब्दे कुमारीशब्दः षष्ठ()ऐवैकया युज्यत इत्येकविभक्तिकत्वम्॥व
बाल-मनोरमा
तद्धितार्थोत्तरपदसमाहारे च ७१८, २।१।५०

तद्धितार्थ। एकापि सप्तमी विषयभेदाद्भिद्यते। तत्र तद्धितार्थेत्यंशे वैषयिकाधारत्वे वर्तते। उत्तरपदेत्यंशे सामीपिकमाधारत्वमादाय परसप्तमी पर्यवस्यति। समाहारांशे तु वाच्यतया आधारत्वे सप्तमी। पूर्वसूत्राद्दिक्संख्ये इत्यनुवर्तते। तदाह--तद्धितार्थे विषये इति। तद्धितार्थे भविष्यत्तद्धितजन्यज्ञानविषये सतीत्यर्थः। तद्धिते भविष्यतीति यावत्। प्राग्वदिति। समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः। तद्धितार्थे दिक्समासमुदाहरति--पूर्वस्यामिति। समासे कृते इति। पूर्वस्यां शालायां भव इति विग्रहे "तद्धितार्थ" इति समासे कृते "दिक्पूर्वपदा"दिति ञप्रत्यते कृते "यस्येति चे"त्याकारलोपे आदिवृद्धिरिति भावः।

सर्वनाम्न इति। मात्रशब्दः कार्त्स्न्ये। समासतद्धितादिवृत्तिगतसर्वनाम्नां पुंवत्त्वमिति तदर्थः। यदि तु "तद्धिते परे दिक्सङ्ख्ये समस्येते" इत्युच्यते, तर्हि उत्पन्ने तद्धिते समासः, समासे कृते दिक्पूर्वपदत्वात्तद्धित इत्यन्योन्याश्रयप्रसङ्गः। "तद्धितार्थे वाच्ये दिक्संख्ये समस्येते" इति तु न व्याख्यातं, तद्धितार्थस्य तद्धितवाच्यतया समासार्थत्वाऽभावात्। अतस्तद्धिते भविष्यतीत्येव व्याख्यातुमुचितम्। आपरशाल इति। अपरस्यां शालायां भव इति विग्रहः। समासादि पौर्वशालवत्।

उत्तरपदे परतो दिक्समासमुदाहरति-पूर्वा शाला प्रिया यस्येत्यादिना। ननु बहुव्रीहिसमासे कृते सुपां लुप्तत्वादुत्तरपदे परतः पूर्वयोः किमनेन समासेनेत्यत आह--तेन शालाशब्दे आकार उदात्त इति। अवान्तरतत्पुरुषे सति समासान्तोदात्तत्वेन लकारादाकार उदात्त इत्यर्थः। असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वं स्यादिति भावः। ननु पूर्वेषां पुरुषाणां समाहार इत्यत्रापि समासः स्यादित्यत आह--दिक्ष्विति। दिक्षु समाहारो द्विगुविषयो न भवतीत्यर्थः। समाहारे दिक्पूर्वपदसमासो नास्तीति यावत्।

सङ्ख्यायास्तद्धितार्थे इति। समास उदाह्यियत इत्यर्थः। तत्र तद्धितार्थे उदाहरति-षाण्मातुर इति। मातुरुत्सह्ख्यासम्भद्रपूर्वायाः" इत्यण्, प्रकृतेरुकारश्चादेशः, आदिवृद्धिश्च। अथ उत्तरपदे परत उदाहरति-पञ्चगाव इति। अवान्तरतत्पुरुषस्येति। उत्तरपदे परतो विहितस्येत्यर्थः। विकल्पे प्राप्ते इति। "महाविभाषाधिकारा"दिति शेषः। ततश्च पञ्चगोशब्दयोस्तत्पुरुषाऽभावपक्षे "गोरतद्धितलुकी"ति तत्पुरुषप्रयुक्तटजभावे "पञ्चगोधन" इत्यपि स्यादिति भावः।

द्वन्द्वतत्पुरुषयोरिति। उत्तरपदे परतो यौ द्वन्द्वतत्पुरुषौ तयोर्नित्यत्वं वक्तव्यमित्यर्थः। समासग्रहणं तु संपातायातम्, अनन्वयात्, उत्तरपदे परतः समाससंज्ञया अव्यभिचाराच्च, उत्तरपदशब्दस्य समासोत्तरखण्डे रूढत्वात्।

तत्त्व-बोधिनी
तद्धितार्थोत्तरपदसमाहारे च ६३६, २।१।५०

तद्धितार्थे विषये इत्यादि। यदि तु "तद्धितार्थे वाच्ये"इति व्याख्यायेत, तर्हि "पौर्वशाल"इत्यादौ तद्धितो न स्यात्, तदर्थस्य समासेनैवलोक्तत्वात्। "द्विगोर्लुगनपत्ये"इति ज्ञापकादुक्तेऽपि तद्धितार्थे तद्धितो भवतीति कल्पनायां प्रतिपत्तिगौरवमिति भावः। "तद्धिते परे"इति तु न व्यख्यायमेव, तद्धिते परतः समासः, समासे कृते "दिक्पूर्वपदा"दित्यादिना तद्धित इत्यन्योन्याश्रयप्रसङ्गात्। समाहारे च वाच्ये इति। तेन "पञ्चगव"मित्यादौ समासेनैव समाहारस्योक्तत्वात्समूहार्थप्रत्ययो नोत्पद्यते। अन्यथा अत्र "गोरतद्धितलुकी"ति टज्न स्यात्, समूहिकप्रत्ययस्य "द्विगोर्लुगनपत्ये"इति लुक्()प्रवृत्तेरिति भावः।

सर्वनाम्नो वृत्तिमात्रे पुंवद्भावे पुंव्द्भावः। सर्वनाम्ना इति। एतच्च पूर्वापरोदाहरणान्वयि। यद्यपि "स्त्रियाः पुंव"दित्येनेनापि प्रकृतरूपसिद्धिः, तथाप्युत्तर पूर्वेत्याद्यर्थं "सर्वनाम्न"इति वचनमावश्यकं, प्रतिपदोक्तत्वादिहापि तदुपन्यासो न्याय्य इति भावः। वृत्तिमात्रे इति। तद्धितवृत्तौ समासवृत्तौ चेति कैयटः। आकार उदात्त इति। असति त्ववान्तरे तत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्युदात्तत्वमेव स्यादिति भावः। षाण्मातुर इति। "मातुरुत्सङ्ख्यासंभद्रपूर्वायाः"इत्युदादेशः। "अनपत्ये"इत्युक्तेः "द्विगोर्लु"गिति लुग् न। विकल्पे प्राप्त इति।"महाविभाषये"ति शेषः। ततश्च तत्पुरुषप्रयुक्तटजभावे "पञ्चगोधन"इत्यपि स्यादिति भावः। मनोरमायां तु--विकल्पे प्राप्ते नित्यसमासार्थं द्वन्द्वतत्पुरुषयोरित्येतद्वचन"मिति प्राचां ग्रन्थमनुसृत्योक्तम्। वस्तुतस्तु त्रयाणां समासे कृतेऽन्यपदार्थोपसङ्क्रमेण परस्पर संबन्धाऽभावाद्द्वन्द्वतत्पुरुषयोरप्राप्तौ सत्यां त्रिपदे बहुव्रीहौकृते पूर्वयोर्नित्यं द्वन्द्वः, तेन "द्वन्द्वाच्चुदषहान्ता"दिति समासान्तष्टजपि नित्य एव।