पूर्वम्: २।२।१७
अनन्तरम्: २।२।१९
 
प्रथमावृत्तिः

सूत्रम्॥ कुगतिप्रादयः॥ २।२।१८

पदच्छेदः॥ कुगतिप्रादयः १।३ नित्यं १।१ १७ तत्पुरुषः १।१ २।१।२१ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
कुगतिप्राऽदयः २।२।१८

नित्यम् इति वर्तते। कुशब्दो ऽव्ययं गृह्यते गत्यादिसाहचर्यात्, न द्रव्यवचनः। कुगतिप्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति। कुः पापार्थे कुपुरुषः। गति उररीकृतम्। यदूरीकरोति। प्रादयः दुर्निन्दायाम् दुष्पुरुषः। स्वती पूजायाम् सुपुरुषः। अतिपुरुषः। आङीषादर्थे आपिङ्गलः। प्रायिकं च एतदुपाधिवचनम्। अन्यत्र अपि हि समासो दृश्यते। कोष्णम्। कदुष्णम्। कवोष्णम्। दुष्कृतम्। अतिस्तुतम्। आबद्धम् इति। प्रदयो गताद्यर्थे प्रथमया। प्रगत आचार्यः प्राचार्यः। प्रान्तेवासी। अत्यादयः क्रान्ताद्यर्थे द्वितीयया। अतिक्रान्तः खट्वाम् अतिखट्वः। अतिमालः। अवादयः क्रुष्टाद्यर्थे तृतीयया। अवक्रुष्टः कोकिलया अवकोकिलः। पर्यादयो ग्लानाद्यर्थे चतुर्थ्या। परिग्लानो ऽध्ययनाय पर्यध्ययनः। अलं कुमार्यै अलंकुमारिः। निरादयः क्रान्ताद्यर्थे पञ्चम्या। निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः। निर्वाराणसिः। इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। वाससी इव। वस्त्रे इव। प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः। वृक्षं प्रति विद्युत्। साधुर्देवचत्तो मातरं प्रति।
लघु-सिद्धान्त-कौमुदी
कुगतिप्रादयः ९५२, २।२।१८

एते समर्थेन नित्यं समस्यन्ते। कुत्सितः पुरुषः कुपुरुषः॥
न्यासः
कुगतिप्रादयः। , २।२।१८

"कुशब्दोऽव्ययं परिगृह्रते" इति। अलिङ्गसंख्यत्वादव्ययत्वम्, न तु निपातेषु पाठात्। न ह्रयं तत्र पठ()ते। "न द्रव्यवचनः" इति। पृथिव्यादौ यो द्रव्ये वत्र्तते तस्यात्र ग्रहणं न भवति। कुत एतदित्याह-- "गत्यादिभिः साहचर्यात्" इति। गतार्थम्। "कोष्णम्" इति। "ईषदर्थे च" ६।३।१०४ इति कोः कादेशः। "कवोष्णम्" इति। "कव()?चोष्णे" ६।३।१०६ इति कवादेशः। "कदुष्णम्" इति। "कोः कत्तत्पुरुषेऽचि" ६।३।१०० इति कत्। "कुपुरुषः" इति पापार्थे। "दुष्कृतम्" इति। "दुस्" कृच्छ्रार्थे वत्र्तते। "इदुदुपधस्य चाप्रत्ययस्य" ८।३।४१ इति षत्वम्। "{नास्ति काशिकायाम्; पदमञ्जर्यां दृश्यते-- सुष्टुतम् इति।}सुस्तुतम्" इति। सुशब्दोऽतिशये वत्र्तते। "अतिस्तुतम्" इति। अतिरक्रमणे। "{आबद्धम्- काशिका}आविद्धम्" इति। आङ क्रियायोगे, मर्यादायां वा। "पर्यायदयो ग्लानाद्यर्थे" इति। पर्यादिराकृतिगणः। "पर्यध्ययनः" इति। परिग्लानोऽध्ययनायेत्यर्थः। "वापसी इव" इत्यादि। "सर्वधातुभ्योऽसुन्" (द।उ।९।४९) इत्यनुवत्र्तमाने "वसेर्णिच्च" (द।उ।९।७७) इत्यसुन्प्रत्ययान्तो वासःशब्दो व्युत्पादितः, वस्त्रशब्दोऽप्यौगणादिकष्ट्रन्प्रत्ययान्तः, तेन द्वावप्येतौ "ञ्नत्यादिर्नित्यम्" ६।१।१९१ इत्याद्युदात्तौ। "प्रादिप्रसङ्गे" इत्यादि। प्रादिग्रहणे यः प्रसङ्गः समासशास्त्रस्य तत्र कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- लक्षणादिष्वर्थेषु कर्मप्रवचनीयसंज्ञा भवति। न च तेऽर्थाः समासेन गम्यन्त इत्यनभिधानात् कर्मप्रवचनीयानां समासो न भवति। यत्र तेऽर्था गम्यन्ते तत्र भवत्येव समासः -- अतिस्तुतमिति॥
बाल-मनोरमा
कुगतिप्रादयः ७५०, २।२।१८

कुगतिप्रादयः। समस्यन्त इति। स तत्पुरुष इत्यपिज्ञेयम्। कुत्सितः पुरुष इति। नित्यसमासत्वादस्वपदविग्रहः। कुत्सितार्थकस्य "कु" इत्यव्ययस्यैवात्र ग्रहणं, न तु पृथ्वी पर्यायस्य, गत्वादिसाहचर्यात्। गतिश्चेत्यनुवर्तमान इति। क्रियायोग इति चेति बोध्यम्।

तत्त्व-बोधिनी
कुगति प्रादयः ६६४, २।२।१८

कुगति। "कु"शब्दोऽत्राव्ययं गृह्रते, न तु पृथिवीवाचको, गत्यादिसाहचर्यात्।