प्रथमावृत्तिः
सूत्रम्॥
वाऽऽहिताग्न्यादिषु॥ २।२।३७
पदच्छेदः॥
वा ० ३८ आहिताग्न्यादिषु ७।३ निष्ठा १।१ ३६ बहुव्रीहौ ७।१ ३५ पूर्वम् १।१ ३०
काशिका-वृत्तिः
वा आहिताग्न्यादिषु २।२।३७
निष्ठा इति पूर्वनिपाते प्राप्ते विकल्प उच्यते। आहिताग्न्यादिषु निष्ठान्तं पूर्वं वा प्रयोक्तव्यम्। अग्न्याहितः। आहिताग्निः। जातपूत्रः, पुत्रजतः। जातदन्तः। जातशमश्रुः। तैलपीतः। घृतपीतः। ऊढभार्यः। गतार्थः। आकृतिगनश्च अयम्, तेन गडुकण्ठप्रभृतय इह एव द्रष्टव्याः।
न्यासः
वाऽऽहिताग्न्यादिषु , २।२।३७
बाल-मनोरमा
वाऽऽहिताग्न्यादिषु ५८०, २।२।३७
वाऽऽहिताग्न्यादिषु। "निष्ठायाः पूर्वं प्रयोग" इति शेषः। आहिताग्निरिति। आहिताः=आधानेन संस्कृता अग्नयो येनेति विप्रहः। प्रहरणार्थेभ्य इति। आयुधार्थेभ्य इत्यर्थः। निष्ठायामुदाहरति - अस्युद्यत इति। असिः उद्यतो येनेति विग्रहः। सप्तम्या उदाहरति--दण्डपाणिरिति। दण्डः पाणौ यस्येति विग्रहः। "निष्ठे"त्यस्य "सप्तमीविशेषणे" इत्यस्य चा।डयमपवादः। क्वचिन्नेति। व्याख्यानमेवात्र शरणम्। विवृतासिरिति। विवृतः=कोशान्निष्कासितोऽसिर्येनेति विग्रहः। एवंजातीयान्याहिताग्न्यादित्वकल्पनया समाधेयानीत्याहुः।
*****इति बालमनोरमायां बहुव्रीहिसमासः*****
अथ भावकर्मप्रक्रिया।
अथ भावकर्मतिङ्प्रकरणं निरूप्यते। "लः कर्मणी"त्यत्र सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च, अकर्मकेभ्यस्तु भावे कर्तरि च लकारा विहिताः। तेषु कर्तरि लकारा निरूपिताः। अथेदानीं भावकर्मणोर्लकारा निरूप्यन्ते इति प्रतिजानीते-- अथेति। "निरूप्यन्ते" इति शेषः। तत्र "शेषात्कर्तरि परस्मैपदम्",नुपराभ्यां कृञः" इत्यादिपरस्मैपदविधिषु प्राप्तेष्वाह-- भावकर्मणोरिति तङिति।