पूर्वम्: २।३।३६
अनन्तरम्: २।३।३८
 
प्रथमावृत्तिः

सूत्रम्॥ यस्य च भावेन भावलक्षणम्॥ २।३।३७

पदच्छेदः॥ यस्य ६।१ ३८ ३८ भावेन ३।१ ३८ भावलक्षणम् १।१ ३८ सप्तमी १।१ ३६

काशिका-वृत्तिः
यस्य च भावेन भावलक्षणम् २।३।३७

सप्तमी इति वर्तते। भावः क्रिया। यस्य च भावेन यस्य च क्रियया क्रियान्तरं लक्ष्यते, ततो भाववतः सप्तमी विभक्तिर् भवति। प्रसिद्धा च किया क्रियान्तरं लक्षयति। गोषु दुह्यमानासु गतः, दुग्धास्वागतः। अग्निषु हूयमानेषु गतः, हुतेष्वागतः। भावेन इति किम्? यो जटाभिः स भुङ्क्ते। पुनर् भावग्रहणं किम्? यो भुङ्क्ते स देवदत्तः।
न्यासः
यस्य च भावेन भावलक्षणम्। , २।३।३७

कीदृशी पुनः क्रिया क्रियान्तरं लक्षयतीत्य त आह-- "प्रसिद्धा च" इत्यादि। चकारोऽवधारणार्थः, प्रसिद्धैवेत्यर्थः। न हि स्वयमप्रसिद्धं परस्य लक्षणमुपपद्यते। अथ कथं फलायामानेष्वाम्रेषु गतः, पक्तेवष्वागत इत्यत्र सप्तमी, न हीह भावः श्रूयते? यद्यपि न श्रूयते? तथाऽपि गम्यते। फलायमानेषु जातेष्वित्यर्थः॥
बाल-मनोरमा
यस्य च भावेन भावलक्षणम् ६२६, २।३।३७

यस्य च। भावशब्दौ क्रियापर्यायावित्यभिप्रेत्य व्याचष्टे--यस्य क्रिययेति। क्रिया च कत्र्राश्रया कर्माश्रया च। तत्र कर्माश्रयामुदाहरति--गोष्विति। देवदत्तः कदा गत इति प्रश्ने उत्तरमिदम्। अत्र लक्षकत्व संबन्धे सप्तमी। शेषषष्ठ()पवादः। वर्तमानदोहनविशिष्टाभिर्गोभिज्र्ञाप्यगमनवानित्यर्थः। अत्र दोहनक्रियायाः साक्षाल्लक्षकता। गवां तु तदाश्रयतया। ततश्च गोदोहनदशायां गत इत्युत्तरं पर्यवस्यति। "दुग्धासु गत" इत्यत्र तु अतीतदोहनविशिष्टाभिर्गोभिज्र्ञाप्यमानगमनवानित्यर्थः। गोदोहोत्तरकाले गत इति फलितम्। कर्तृगतक्रियायास्तु ब्राआहृणेष्वधीयानेषु हगत इत्युदाहार्यम्। अत्र यदवश्यं पुनः पुनर्लक्ष्यज्ञापकं तदेव न लक्षणम्। किंतु सकृज्ज्ञापकमपि। यथा-यं कमण्लुपाणिं भवानद्रीक्षीत्स छात्र इति। यद्यपि सकृदसौ कमण्डलुपाणिर्दृष्टस्तथापि तस्य कमण्डलुर्लक्षणं भवत्येवेति प्रकृतसूत्रे भाष्ये स्पष्टम्। "उदिते आदित्ये जुहोती"त्यत्र तु सामीपिकमधिकरणत्वं सप्तम्यर्थः। उदितादित्यसमीपकाल इत्यर्थः। आदित्योदयोत्तरसमीपकाल इति पर्यवसन्नोऽर्थः। "उपरागे रुआआयात्" इत्यत्र तु उपरागपदेन उपरागाश्रयकालो लक्ष्यत इत्यधिकरणसप्तम्येवेत्यन्यत्र विस्तरः।

तत्त्व-बोधिनी
यस्य च भावेन भावलक्षणम् ५५७, २।३।३७

यस्य च। निज्र्ञातकाला हि क्रिया अनिज्र्ञातकालायाः क्रियायाः कालपरिच्छेदकत्वाल्लक्षणं, तत्र प्रसिद्धक्रियाश्रययोः कर्तृकर्मणोर्वाचकाद्ब्राआहृणादिशब्दाल्लक्ष्यलक्षणभावसम्बन्धे षष्ठ()आं प्राप्तांयामियं सप्तमी। लक्षणकत्वमिह क्रियायाः साक्षात्, आश्रयस्य तु ब्राआहृणादेः क्रियाद्वारेणेति बोध्यम्। "ब्राआहृणेष्वधीयानेषु गत" इति कर्तृर्युदाहरणम्। कर्मण्याह--गोष्विति।

अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैवरीत्ये च। अर्हाणामित्यादि। यस्यां क्रियायां ये उचितास्ते अर्हाः। तेषां कर्तृत्वे विवक्षिते सति तत्र सप्तमी वाच्या। तथा यस्यां क्रियायां येषां कर्तृत्वमनुचितं तेषामकर्तृत्वे विवक्षिते च सप्तमी वाच्या। तथा तद्वैपरीत्ये=येषां कर्तृत्वमुचितं तेषामकर्तृत्वे, येषां तु नोचितं तेषां कर्तृत्वे च सप्तमी वाच्येत्यर्थः। आद्यमुदाहरति---सत्सु तरत्स्विति। सन्तो हि तरणक्रियाऽर्हाः कर्तराश्चष द्वितीयमुदाहरति---असुत्सु तिष्ठत्स्विति। अत्र तरणक्रियायामसतामनर्हत्वमकर्तृत्वं च तिष्ठत्स्वित्यनेन द्योत्यते। तद्वैपरीत्ये प्रथममुदाहरति-सत्सु तिष्ठत्स्विति। सतां हि तरणमुचितं, तेषां चाऽर्तृत्वं तिष्ठत्स्वित्यनेन गम्यते। द्वितीयमुदाहरति--असत्सु तरत्()स्वति। असतां हि तरणमनुचितं, तेषां च कर्तृत्वं तरत्सु इत्यनेन गम्यते। यद्यपीदं"यस्य च भावेन---"इत्येव सिद्धं, तथापि लक्ष्य लक्षणभावाऽविवक्षायां सप्तम्यर्थमिदमिति कैयटादयः। तत्त्वतस्तु व्यर्थमेवेदमित्यन्ये।