पूर्वम्: २।४।४७
अनन्तरम्: २।४।४९
सूत्रम्
इङश्च॥
२।४।४८
काशिका-वृत्तिः
इङश् च
२।४।४८
इङश्च सनि परतो गमिरादेशो भवति। अधिजिगांसते, अधिजिगांसेते, अधिजिगांसन्ते।
न्यासः
इङश्च।
, २।४।४८
"अधिजिगांसते" इति। "पूर्ववत् सनः"
१।३।६२
इत्यात्मनेपदम्। "अज्झनगमां सनि"
६।४।१६
इति दीर्घः॥
बाल-मनोरमा
इङश्च
४४३, २।४।४८
इङश्च। गमिः स्यात्सनीति। "णौ गमि"रित्यतः, "सनि चे"त्यतश्च तदनुवृत्तेरिति भावः। इङो ङित्त्वात् "पूर्वक्त्सनः" इति तङ्। परस्मैपदेष्वित्युक्तेर्नेट्। "अज्झने"ति दीर्घ इति भावः।