पूर्वम्: २।४।५१
अनन्तरम्: २।४।५३
 
सूत्रम्
अस्तेर्भूः॥ २।४।५२
काशिका-वृत्तिः
अस्तेर् भूः २।४।५२

अस्तेर् धातोर् भूः इतयम् आदेशो भवति आर्धधातुके। भविता। भवितुम्। भवितव्यम्। इह कस्मान् न भवति, ईहामास, ईहामासतुः, ईहामासुः? कृञ् च अनुप्रयुज्यते लिटि ३।१।४० इति प्रत्याहारग्रहणेन अस्तेर् ग्रहणसामर्थ्यात्। तथा चोच्यते अनुप्रतोगे तु भुवा ऽस्त्यबाधनम् स्मरन्ति कर्तुर् वचनान् मनीषिणः। इति।
लघु-सिद्धान्त-कौमुदी
अस्तेर्भूः ५७९, २।४।५२

आर्धधातुके। बभूव। भविता। भविष्यति। अस्तु, स्तात्। स्ताम्। सन्तु॥
न्यासः
अस्तेर्भूः। , २।४।५२

"ईहामास" इति। ईहतेः "इजादेश्च गुरुमतोऽनृच्छः" ३।१।३६ इत्याम्। "आमः" २।४।८१ इति लेर्लुक्; "कृञ्चानुप्रयुज्यते लिटि" ३।१।४० इत्यस्तेर्लिट्परस्यानुप्रयोगः। "प्रत्याहरग्रहणेनास्तेग्र्रहणसामथ्र्यात्" इति। "कृञ्चानुप्रयुज्यते लिटि" ३।१।४० इत्यत्र कृञिति प्रत्याहारग्रहणम्, "अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि" ५।४।५० इति कृशब्दादारभ्य "कृञो द्वितीयतृतीयशम्बबीजात्" ५।४।५८ इत्याकृञो ञकारात्। तेन च प्रत्याहारग्रहणेनास्तेरपि ग्रहणम्; तस्यैतदेव प्रयोजनम्-- आसेत्ेयतदनुप्रयोगे रूपं यथा स्यादिति। यदि चास्तेरनुप्रयोगेऽपि भूभावः स्यात्, तदासेत्येतदनुप्रयोगे रूपं न स्यादिति प्रत्याहारग्रहणमनर्थकम्। ततश्च"कृभ्वनुप्रयुज्यते लिटि" इत्येवं ब्राऊयात्। तत्राप्ययमर्थः-- किमिदं प्रत्याहारग्रहणमुत करोतेरित्येव सन्देहः परिह्मतो भवति, कृतञ्च प्रत्याहारग्रहणम्, तस्मात् प्रत्याहारग्रहणसामथ्र्यादनुप्रयोगेऽपि भूभावोऽस्तेर्न भवति। "तथा चोच्यते" इत्यादिनाऽनन्तरोक्तमेवार्थमाप्तवचनेन द्रढयति। भूरिति दीर्घोच्चारणं निष्ठायां ह्यस्वश्रवणं मा भूत्-- भूतो भूतवानिति, अस्तेरिति श्तिपा निर्देशोऽस्यतेर्मा भूत्; नैतदस्ति, निरनुबन्धक(व्या।प।५३) पिरभाषयैवास्यतेर्न भविष्यति। तस्य ह्रुकारोऽनुबन्धः "इदितो वा" ७।२।५६ इति विशेषणार्थः कृतः। अस्तेस्त्वकार उच्चारणार्थः, नानुबन्धः। एवं तर्हि श्तिपा निर्देशो वैचित्र्यार्थ इत्येके। निरनुबन्धकपरिभाषायाः प्रत्ययविधिविषयत्वादित्यपरे॥
बाल-मनोरमा
अस्तेर्भूः ३०१, २।४।५२

अस्तेर्भूः। असधातोर्भूभावः स्यादाद्र्धधातुके परे इत्यर्थः। अस् हि इति स्थिते--