सूत्रम्
बह्वचः इञः प्राच्यभरतेषु॥ २।४।६६
काशिका-वृत्तिः
बह्वचिञः प्राच्यभ्रतेषु २।४।६६
बह्वचः प्रातिपदिकात् य इञ् विहितः प्राच्यगोत्रे भरतगोत्रे च वर्तते, तस्य बहुषु लुग् भवति। पन्नागाराः। मन्थरैषणाः। भरतेषु खल्वपि युधिष्ठिराः। अर्जुनाः।
बह्वचः इति किम्? बैकयः। पौष्पयः।
प्राच्यभरतेषु इति किम्? बालाकयः। हास्तिदासयः। भरताः प्राच्या एव, तेषां पुनर् ग्रहणं ज्ञापनार्थम् अन्यत्र प्राग् ग्रहणे भरतग्रहणं न भवति इति। तेन इञः प्राचाम्
२।४।६० इति भरतानां युवप्रत्ययस्य लुग् न भवति। अर्जुनिः पिता। आर्जुनायनः पुत्रः।
न्यासः
बह्वच इञः प्राच्यभरतेषु। , २।४।६६
"भरताः" इति। येषां भरत आद्यः संज्ञाकारी ते भरताः। "पन्नागाराः" इत्यादिषूहाहरणेषु "अत इञ्"
४।१।९५, तस्य लुक्। "बालाकयः" इति। बाह्वादित्वादिञ्। "हास्तिदासयः" इति। "अत इञ्"
४।१।९५। "आर्जुनायनः" इति। "यञियोश्च"
४।१।१०१ इति फक्॥
बाल-मनोरमा
बह्वच इञः प्राच्यभरतेषु ११३२, २।४।६६
बह्वच इञः। प्राच्ये उदाहरति--पन्नागारा इति। पन्नागारस्यापत्यानीति विग्रहः। अत इञो लुक्। भरतगोत्रे उदाहरति--युधिष्ठिरा इति। युधिष्ठिरस्यापत्यानीति विग्रहः। कुरुलक्षणं ण्यं बाधित्वा बाह्वादित्वादिञ्। तस्य लुक्।?बहुत्वे तु यौधिष्ठिरिः।
तत्त्व-बोधिनी
बह्वच इञः प्राच्यभरतेषु ९४३, २।४।६६
युधिष्ठिरा इति। बहुष्वेव लुक्। नेह--यौधिष्ठिरिः। कुरुलक्षणं ण्यं बाधित्वा बाह्वादित्वादिञ्।