पूर्वम्: ३।१।२५
अनन्तरम्: ३।१।२७
 
सूत्रम्
हेतुमति च॥ ३।१।२६
काशिका-वृत्तिः
हेतुमति च ३।१।२६

हेतुः स्वतन्त्रय कर्तुः प्रयोजकः, तदीयो व्यापारः प्रेषनादिलक्षणो हेतुमान्, तस्मिन्नभिधेये धातोः णिच् प्रत्ययो भवति। कटं कारयति। ओदनं पाचयति। तत् करोति इत्युपसङ्ख्यानं सूत्रयति इत्याद्यर्थम्। सूत्रं करोति सूत्रयति। आख्यानात् कृतस् तदाचष्ट इति णिच् कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच् च कारकम्। आख्यानात् कृदन्त्तण् णिच् वक्तव्यः तदाचष्टे इत्येतस्मिन्नर्थे, कृल्लुक्, प्रकृतिप्रत्यापत्तिः, प्रकृतिवच् च कारकं भवति। कंसवधम् आचष्टे कंसं घातयति। बलिबन्धम् आचष्टे बलिं बन्धयति। राजागमनम् आचष्टे राजानम् आगमयति। आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम्। आरात्रि विवासम् आचश्टे रात्रिं विवासयति। चित्रीकरणे प्रापि। उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं सम्भावयते सूर्यम् उद्गमयति। नक्षत्रयोगे ज्ञि। पुष्ययोगं जानाति पुष्येण योजयति। मघभिर् योजयति।
लघु-सिद्धान्त-कौमुदी
हेतुमति च ७०३, ३।१।२६

प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात्। भवन्तं प्रेरयति भावयति॥
न्यासः
हेतुमिति च। , ३।१।२६

फलसाधनयोग्यः पदार्थो लोके हेतुरित्युच्यत इति तस्य यदीह ग्रहणं स्यादिहापि णिच् स्यात्-- अध्ययनेन वसतीति। तस्मात् पारिभाषिकस्य हेतोग्र्रहणमिति दर्शयितुमाह= "हेतुः स्वतन्त्रस्य प्रयोजकः" इति। स पुनर्यस्य "तत्प्रयोजको हेतुश्च" १।४।५५ इति हेतुसंज्ञा विहिता। कुतः पुनरेतदवगम्यते? हेतुमद्()ग्रहणात्, पूर्वसूत्रे चुरादिग्रहणाच्च। इह हि "करणे" ३।१।१७ इति वत्र्तते, धात्वधिकाराच्च धातोः करणे क्रियायां णिच्प्रत्ययेन भवितव्यम्। यदि च लौकिकस्य हेतोग्र्रहणं स्यात् "हेतुमति" इति करणविशेषणं न कुर्यात्; व्यावत्र्याभावात्-- सर्वेव हि क्रिया हेतुमतीति। पूर्वसूत्रे च चुरादिगर्हमं न कुर्यात्, चुरादयोऽपि धातव एव। तदर्थश्च क्रियालक्षण एव। "सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णेभ्यश्च णिच्" इत्येकयोगं कुर्यात्। एवं हि चकाराद्धातोः प्रकृतत्वात् करणे प्रत्ययो भविष्यतीति विज्ञास्यते। सोऽयमेकयोगेनैव सिद्धे यत् पृथग्योगमारभते, पूर्वसूत्रे च चुरादिग्रहणं करोति, ततोऽवसीयते पारिभाषिकस्य हेतोग्र्रहणमिति। "तदीयः" इति। तत्सम्बन्धी क्रियात्मको व्यापारः। कः पुनरसावित्यत आह-- "प्रेषण" इत्यादि। भृत्यादेर्निकृष्टस्य क्वचिदर्थे नियोजनम् = आदेशः, प्रेषणम्। गुर्वादेराराध्यस्य सत्कारपूर्वव्यापारणमध्येषणम्। आदिशब्देन तत्समर्थाचरणस्य। एतत् प्रेषणादिकं लक्षणं स्वभावो यस्य स तथोक्तः। ननु च चत्वारोऽत्र हेतुमन्तः सम्भवनति-- प्रयोज्यः, प्रयोज्यव्यापारोऽधिश्रयणादिः, सर्वसाधनसाध्यश्च प्रधानक्रिया विक्लेदादिः, प्रयोजनकव्यापारश्च प्रेषणाध्येषणादिः। चतुर्णामपि ह्रेषां हेतुना सह सम्बन्धोऽस्ति। तत्र प्रथमस्य तदधिष्ठितस्य प्रवत्र्तनात्, तदभिप्रायसम्पादनाच्च। द्वितीयस्य सम्बन्धाय हेतोः प्रवृत्तेः। तृतीयस्य तत्प्रवर्त्तितेन प्रयोज्येनाधिश्रयणादिक्रियां कुर्वाणेन साधनात्। चतुर्थस्य तु तन्निर्वर्तितत्वात् तत्र च समवायात्। तत्र "करणे" इत्यधिकारादयुक्तं प्रयोज्यस्य ग्रहणम्, इतरेषामेव ग्रहणं क्रियात्मकत्वात् सर्वेषां न्याय्यम्, तत् कस्मात् प्रयोजनकव्यापार एव गृह्रते? सत्यपि सर्वेषां क्रियात्मकत्वे तदग्रहणस्यैव न्याय्यत्वात्। तथा हि-- हेतुरिति कारकविशेषस्यैषा संज्ञा, कारकञ्च क्रियानिमित्तम्, तच्च तस्य निमित्तं भवति यद् यस्मिन् सत्येव भवति, असति तु तस्मिन् न भवत्येव। न च प्रयोज्यव्यापारः प्रयोजके सत्येव भवति; व#इनापि तेनार्थित्वादेव प्रयोज्यस्याधिश्रयणादिव्यापारस्य सम्भवात्। सत्यपि च तस्मिन् प्रयुक्तस्यापि स्वार्थमपश्यतः प्रयोज्यस्याप्रवृत्तेः। तस्मात् प्योज्यस्य व्यापारं प्रति प्रयोजकस्य कारकत्वाभावाद्धेतुत्वं नास्तीति न स हेतुमान्। एतेन विक्लेदनादिरपि प्रधानक्रियाविशेषो हेतुमान्न भवतीति वेदितव्यम्। भवतु नाम तौ प्रति कथञ्चित् तस्य हेतुत्वम्, तथापि न तयोर्हेतुमत्त्वं युक्तम्; यस्मात्--- भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः॥ इति वचनात् भूमादिविशिष्टस्यार्थस्य सत्तायां मतुबादयः प्रत्यया विधीयन्ते, इह च नित्ययोगादन्ये भूमादयोऽर्था न सम्भवन्ति; अप्रतीतेः। न हि यथा गोमानित्यत्र बहुत्वं प्रतीयते, यथा च ककुदावत्र्तीत्यत्र च निन्दा, यथा च रूपवानित्यत्र प्रशंसा, यथा चोदरिणी कन्येत्यत्रातिशयः, तथा "हेतुमति" इत्यत्र। संसर्गाऽपीह न सम्भाव्यते--- संसर्गो हि संयोगः,स च द्रव्ययोरेव परस्परं सम्भवति, यथा-- दण्डीत्यत्र दण्डपुरुषयोः। न च व्यापारो द्रव्यम्, अतो नास्ति केनचित् संसर्गः।तस्मान्नित्ययोगे एवायं मत्वर्थीयः, यथा-- क्षीरिणो वृक्षा इति। न च प्रयोज्यव्यापारस्याधिश्रयणादेर्विक्लेदादेश्च हेतुना नित्ययोगोऽस्ति; उपरतेऽपि तस्मिन् प्रयोक्तरि तयोः सम्भवात्। सत्यपि तस्मिन् विरोधिसन्निधानात्, असम्भवाच्च। न चान्यतरासन्निधाने सम्बन्धो युज्यते; तस्य द्विष्ठत्वादिति। न तौ हेतुमन्तौ। प्रेषणादेस्तु प्रयोजको भवति निमित्तम्च तेन विना तदसम्भवात्, सति च त()स्मस्तत् सम्भवात्; अतस्तं प्रति कारकत्वं तस्योपद्यते। तेन तस्य हेतुसंज्ञा। नित्योगेऽपि मतुपो निमित्तमस्त्येव; उत्पत्तेः प्रभृत्याविनाशात्, प्रेषणादेव्र्यापारस्य हेतौ समवायात्। तस्मात् स एव हेतुमानिति तस्यैव ग्रहणं न्याय्यम्। "तस्मिन्नभिधेये" इति। प्रत्ययेन वाच्ये। एतेन प्रत्ययार्थविशेषणं हेतुमद्()ग्रहणं न प्रकृत्यर्थविशेषणमिति दर्शयति। तेन प्रकत्यर्थविशेषणपक्षे ये दोषास्ते तत्पक्षानङ्गीकारेणैव निरस्ताः। येऽपि प्रत्ययार्थविशेषणपक्षे दोषाः सम्भाव्यन्ते,ते भाष्ये एवोद्भाविताः, परिह्मताश्च। इह त्वतिग्रन्थविस्तरभयान्न लिखिताः। अथेह कथं णिज्भवति-- भिक्षा वासयति, कारीषो।ञग्निरध्यापयतीति? कथञ्च न स्यात्? अचेतनत्वात्, चेतनवतो ह्रेतद्भवति प्रेषणमध्येषणं वा? नैष दोषः; उक्तं ह्रेतत्-- "आदिग्रहणेन तत्समर्थाचरणस्य ग्रहणम्" इति। तच्छब्देन यत्र वसनादौ प्रयोज्यो नियुज्यते तत्सम्बध्यते तत्र वासादौ। ये समर्थाः = योग्याः, अनुकूलास्तृप्तिविशेषादयस्तेषामाचरणं सम्पादनम् = तत्समर्थाचरणम्, तदपि प्रयोजकव्यापार एव। भिक्षा हि प्रचुरतरव्यञ्जनवत्यो लभ्यमाना रसानुकूलं तृप्तिविशेषमुपजनयन्त्येव। कारीषोऽग्निरपि निर्वातप्रदेशेषु सुप्रज्वलितोऽध्ययनविरोधिनं शीतादिकृतमुपद्रवमुपशमयन्नध्ययनानुकूलं सामथ्र्यमादधाति। अतस्तयोरपि युक्तं प्रयोजकत्वम्। "तत्करोति" इत्यादि। तदिति कर्मपदम्। एतत् करोतीत्यर्थनिर्देशः। तदिति कर्मणः प्रातिपदिकात् करोतीत्यस्मिन्नर्थे णिच उपसंख्यानं प्रतिपादनं कत्र्तव्यमित्यर्थः। किमर्थमित्याह--- "सूत्रयतीत्याद्यर्थम्" इति। तत्रेदं प्रातिपादनम्-- चुरादौ "प्रातिपदिकद्धात्वर्थे" इत्यस्य "तत्करोतति" इत्ययं प्रपञ्चः पठ()ते। तेन सूत्रादिभ्यः प्रातिपदिकेभ्यः कर्मभ्यः करोत्यर्थे णिज् भवतीति। "आख्यानात् कृतः" इत्यादिकं वाक्यम् "आख्यानात् कृदन्तात्" इत्यादिना व्याचष्टे। आख्यायत इत्याख्यानम्। यत् किञ्चिदाख्यायते तत् सर्वं राजागमनादिकमपीहाख्यानमभिप्रेतम्, न तु संज्ञाभूतमेव कंसवधादिकम्। तस्य यो वाचकः शब्दः सोऽप्यभिधानेऽभिधेयोपचारादाख्यानमित्युच्यते। कृदिति प्रत्ययग्रहमम्, प्रत्ययग्रहणे च तदन्तविधिर्भवतीत्याह--- "कृदन्तात्" इत्यादि। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। "तत्" इति। कर्मपदमेतत्। "आचष्टे" इति। प्रत्ययार्थः। "कुल्लुक्" इति। येन कृता तदन्तमाख्यानमुच्यते तस्य लुग्भवतीत्यनेन वक्ष्यमाणेन सम्बन्धः। "प्रकृतिप्रत्यापत्तिः" इति। यासौ प्रकृतिः प्रत्ययमुत्पादितवती साऽविकृतार्थेनैव रूपेणावतिष्ठत इत्यर्थः। "प्रकृतिवच्च कराम्" इति। चकारो भिन्नक्रमः कारकस्यानन्तरं द्रष्टव्यः। कार्यशब्दश्चात्राध्याहार्यः। तेनायमर्थो भवति-- कृतो या प्रकृतिर्हन्यादिस्तस्या यथा कार्यमडागमादि, तथा ण्यन्ताया अपि भवतीति। किञ्च कारकञ्च प्रकृतिवद्भवतीति? कृतः प्रकृतेर्यादृशं कारकमभूत् ण्यन्ताया अपि प्रकृतेस्तादृशमेव भवतीति। तत्रेदं व्याख्यानम्-- चुरादौ "प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च" (वा। ८१३) इति पठ()ते, "तत्करोति" इत्यादिकञ्च तस्यैव प्रपञ्चः। बहुलं तत्राधिकविधानार्थमिति सर्वमेतद्यथोक्तं भविष्यतीति। एवमुत्तरत्रापि व्याख्यानं कत्र्तव्यम्। किमर्थं पुनः कार्यशब्दमध्याह्मत्य कार्यातिदेशो वण्र्यते? आख्यानावयवभूतायाः प्रकृतेरडागमादिकार्यं यथा स्यात्। अन्यथा हि यदि प्रकृतिवच्च कारकं भवतीति कारकातिदेश एव क्रियेत तदा "कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्" (व्या।प।१२६) इति कंसवधादिभ्यो णिचि कृतेऽङ्गसंज्ञा नामधातुत्वञ्च तेषामेव स्यात् ततश्चाड्()द्विर्वचने तेषामेव स्याताम्। किञ्च-- धातोः स्वरूपग्रहणे तत्प्रत्यये तत् कार्यं विज्ञायेत, कंसवधशब्दाच्च णिचि विहिते तत्वकुत्वे न स्याताम्, ततश्च कसंमघातद्राजानमजीगमदित्यादि न सिध्येत्। कार्यातिदेशे यद्यपि समुदायेभ्यः कंसवधादिभ्यो णिज्विहितः, तथापि कृतो या प्रकृतिर्हन्यादिस्तस्याः केवलाया अकृदन्ताया यथाऽडागमादिकार्यं भवति, तथा कृदन्ताया अपि णिचि विहिते भवतीति न भवत्येष दोषः। तस्मात् कार्यमतिदिश्यते। "कंसं घातयति" इति। हन्तेर्भावे "हनश्च वधः" ३।३।७६ इत्यप्प्रत्ययः, तत्सन्नियोगेन वधादेशः। हननं वधः, कंसस्य वध इति षष्ठीसमासः। रककंसवधशब्दाण्णिच, अपो लुक्। प्रकृतेः प्रत्यापत्तिः वधादेशपरित्यागेन हन्तेः स्वरूपेणावस्थानम्। "अत उपधायाः"७।२।११६ इति वृद्धिः, "हो हन्तेर्ञ्णिन्नेषु" ७।३।५४ इति हकारस्य घकारः, "हनस्तोऽचिण्णलोः" ७।३।३२ इति तत्वम्। कारकञ्च कंसवध इत्यस्याः प्रकृतेर्यादृशमासीत् तादृशमेव भवति, कर्म च कारकं कंस आसीत्। तथा च कृद्योगलक्षणायाः कर्मषष्ठ()आ कंसवध इति समासः। स कंस आख्यानक्रियायामप्यतिदेशात् कर्मैव भवति। असत्यतिदेशे, आख्याक्रियायाः कंसवधशब्दस्तदर्थो वा कर्म स्यात्; तयोरेव तथा व्याप्यमानत्वात्। कंसस्त्वाख्यानक्रियायामुज्झितव्यापार एवेति कर्मभावं न प्रतिपद्येत्। तस्मात् कारकातिदेशः। "बलिं बन्धयति" इति। बन्धनं ब्नधः, भावे घञ्। राज्ञ आगमनमिति कत्र्तरि कृद्चयोगलक्षणाया षष्ठ्याः समास। शेषं कृल्लुगादिकं यथायोगं पूर्ववत्। अथ राजानमिति कथं द्वितीया, यावता राजागमनमित्यस्याः कृदन्तायाः प्रकृते राजा कत्र्तासीत्, तत्र "प्रकृतिवच्च कारकम्" (२।३।६५) इति षष्ठ()ऐव भवितव्यम्? अथ "न लोकाव्यय" २।३।६९ इति षष्ठीनिषेधः; एवं तर्हि तृतीया प्राप्नोति? नैष दोषः; "गतिबुद्धि" १।४।५२ इत्यादिना गमेर्गत्यर्थत्वाद्राजोऽत्र कर्मसंज्ञा। तेन द्वितीयैव न्याय्या। अन्ये त्वस्यैव चोद्यस्य परिहारर्थ कारकातिदेशमन्यथा वर्णयन्ति-- नैवं विज्ञायते प्रकृतिरिव प्रकृतिवत्, प्रकृतेर्यत् कार्यमिष्टं तत् णिजन्तस्यैव भवतीति; न ह्रत्र "तत्र तस्येव" ५।१।११५ इति वतिः, किं तर्हि? "तेन तुल्यम्" ५।१।११४ इत्यादिना। तस्मादेव विज्ञायते-- प्रकृत्या तुल्यं वत्र्तत इति प्रकृतिवदिति। प्रकृतिशब्देनेह णिचो या प्रकृतिः कंसवध इत्यादिः सा विवक्षिता।तस्याश्चाख्यानक्रियया व्याप्यमानत्वात् कत्र्तव्यम्। अतः प्रकृतिवच्च कारकं भवतीत्यस्यायमर्थः-- यथा णिच्प्रकृतेराख्यानभूतायाः कर्मत्वं तथा कारकस्यापीति, तेन कर्तुः कर्मत्वं सिद्धं भवति। यद्येवम्, पुष्ययोगं जानाति पुष्येण योजयतीत्यत्रापि कर्मत्वं पुष्यस्य स्यात्? नैतदस्ति; यतः प्रकृतिवच्च कारकं भवतीत्युच्यते, न च पुष्यस्य कारकत्वं भवति; सहयोगे तृतीया विधानात् पुष्येण सह चन्द्रमसो यो योगस्तं जानाति पुष्येण योजयति। "आङलोपश्च" इत्यादि। मर्यादावाची य आङ तस्य लोपो वक्तव्यः। चकारात् पूर्वोक्क्तञ्च णिजादिकार्यम्। "कालात्यन्तसंयोगे" इति। कृत्स्नस्य कालस्य व्याप्तिः = कालात्यन्तसंयोगः, तस्मिन् गम्यमाने। "आरात्रिविवासमाचष्टे" इति। विवसनं विवासः, भावे घञ्। रात्रेर्विवास इति षष्ठीसमासः। पश्चात् "आह मर्यादाभिविध्योः" २।१।१२ इत्यवय्यीभावसमासः। रात्रिशब्दश्चेह रात्रिसहचरितासु क्रियासु वत्र्तते, वसिरपि विपूर्वोऽतिक्रमे। तेनायमर्थो भवति-- असत्मयनात् प्रभृति याः प्रवृत्ताः क्रियास्ता यावदतिक्रान्ता रात्रिः साकल्येन कथयीति। "प्रकृतिवच्च कारकम्" इत्यतिदेशात् कृल्लक्षणायां कत्र्तरि षष्ठ()आं प्राप्तायां रात्रौ कर्मणि द्वितीया भवति। अतिक्रमणे हि रात्रिः कत्र्री। कर्मत्वञ्च तस्याः पूर्ववद्गत्यादि १।४।५२ सूत्रेण। "चित्रीकरणे प्रापि" इति। चित्रीकरणम् = तस्मिन् गम्यमाने णिच्। कृल्लुगादिकञ्च पूर्ववत्। उज्जयिन्या माहिष्मती विदूरदेश इति तावतो देशस्याल्पकालेनातिक्रमणमाश्चर्यम्। "सूर्योद्गमनम्" इति। कत्र्तरि कृद्योगलक्षणायाः षष्ठ्याः समासः। सूर्य उद्गमने कत्र्ता। "सम्भावयते" इति। प्राप्नोतीत्यर्थः। "भू प्राप्तावात्मनेपदी" (धा।पा।८४४) चुरादौ पठ()ते, तस्येदं रूपम्। "सूर्यमुद्गमयति" इति। सूर्योद्गमनशब्दाण्णिच्, ल्युटो लुक्। "प्रकृतिवच्च कारकम्" इत्यतिदेशात् पूर्ववत् कत्र्तरि षष्ठ()आं प्राप्तायां तस्य कर्मसंज्ञकत्वाद्द्वितीया। कर्मसंज्ञा तु पूर्ववत्। "नक्षत्रयोगे ज्ञि" इति। नक्षत्रयोगे यत् प्रातिपदिकं वत्र्तते तस्मान्नक्षत्रयोगवाचिनो णिच्। कृल्लुगादिकं यथायोगं पूर्ववत्। ज्ञीति सप्तम्या धात्वर्थो निर्दिश्यते, तेन जानात्यर्थे णिज् भवति। पुष्येण करणभूतेन चन्द्रमसो योगः पुष्ययोगस्तस्माण्णिच्, घञ्, कृतो लुक्, प्रकृतिप्रत्यापत्तिः। "प्रकृतवच्च कारकम्" इत्यतिदेशात् ज्ञानक्रियायामकारकस्यापि पुष्यस्य करणत्वमिति करणे तृतीया। यदा तु पुष्येण सह चन्द्रमसो योग इत्यर्थो विवक्ष्यते, तदा कारकातिदेशस्य विषयो न भवति,पुष्यस्याकारकत्वात्। पुष्येणेति तृतीया सहार्थं एव वेदितव्या॥
बाल-मनोरमा
आसुयुवपिरपि[लपि]त्रपिचमश्च। ७०४, ३।१।२६

आसुयुवपि।आसु, यु, वपि, रपि, त्रपि, चम् एषां समाहारद्वन्द्वः। "ण्य"दिति शेषः। आसाव्यमिति। आङ्पूर्वस्य सुञो ग्रहणमिति भावः।

बाल-मनोरमा
हेतुमति च ४०४, ३।१।२६

हेतुमति च। "सत्यापपाशे"त्यतो णिजित्यनुवर्तते।हेतुः प्रयोजकः = आधारतया अस्यास्तीति हेतुमान् = प्रयोजकनिष्ठः प्रेषणादिव्यापारः, तस्मिन् वाच्ये णिच् स्यादित्यर्थः। "धातोरेकाचो हलादे"रिति धातोरित्यनुवर्तते। तदाह - प्रयोजकव्यापार #इति। प्रेषणादावित्यादिशब्देन अध्येषणानुमत्युपदेशादीनां ग्रहणम्। तत्र भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणम्। आज्ञेत्यर्थः। समानस्याऽधिकस्य च सख्याचार्यादेः प्रवर्तना- अध्येषणा। अनुमति -- राजादेः समंतिः। ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तना-- उपदेशः। हननाद्भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः। प्रयोजकनिष्ठप्रवर्तनायां णिजिति फलितम्। एते तु विशेषाः प्रकरमादिना अवगम्यन्ते। "कुलालो घटं करोती" त्यत्र तु न णिच्, प्रयोज्यप्रयोजकोभयसमभिव्याहार एव तत्प्रवृत्तेरित्यन्यत्र विस्तरः। भवन्तमिति। देवदत्तो यज्वा भवति। तं प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्यभवनस्य मुख्यकर्ता यज्वा, तस्य यज्वभवने प्रवर्तयिता याजकादिः प्रयोजकः, तन्निष्ठ()आं प्रेरणायां भूधातोर्णिच्। वृद्ध्यावादेशौ। भावीति णिजन्तम्। तस्माद्भवनानुकूलव्यापारार्थकाल्लटि "भावयती"ति रूपम्। भवन्तं प्रेरयतीति फलितोऽर्थः। भावयांबभूवेति। कर्तृगामिन्यपि क्रियाफले भूधातोरनात्मनेपदित्वादनुप्रयुज्यमानादपि नात्मनेपदमिति भावः।

तत्त्व-बोधिनी
आसुयुवपिरपि[लपि]त्रपिचमश्च ५८५, ३।१।२६

आसु। षुञ् आसाव्यमिति। "षुञ् अभिषवे" इत्ययं गृह्रते, न तु "षु प्रसवै()आर्ययो"रिति। "कृत्यल्युटो बहुल"मति बहुलग्रहणादिति भावः। यु मिश्रण इति। "युञ् बन्धने" इति तु न गृह्रते, सानुबन्धकत्वादिति भावः। अत्र युप्रभृतीनां द्वन्द्वं कृत्वा पश्चादासुशब्देन द्वन्द्वः। तेन "अल्पाच्तर"मिति युशब्दस्य न पूर्वनिपातः शङ्क्यः। इहाद्ययोः "अचो "दित्यनेन, रपित्रपिचमां तु "पोरदुपधा"दित्यनेन यत्प्रत्यये प्राप्तेऽयमारम्भः। अनित्यमात्रे यदि प्रयोगस्तर्हि घटादावतिप्रसङ्ग इत्यत आह-- दक्षिणाग्निविशेष इत्यादि।

तत्त्व-बोधिनी
हेतुमति च ३५३, ३।१।२६

हेतुमति च। स्वनिष्ठाधारतानिरूपिताधेयतासंबन्धेन हेतुर्यत्रास्ति स हेतुमान् = व्यापारः, तस्मिन्वाच्ये णिजित्याह-- प्रयोजकव्यापार इति। प्रयोजकश्चेतनाऽचेतनसाधारण्येन विवक्षितः। स च क्वचित्फलरूपः। "देवदत्तः गमयती" त्यादौ सिद्धः। "भिक्षा वासयति" "सङ्ग्रामो वासयती"त्यादौ तु फलरूपः। प्रेषणादाविति। भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेरणा। आज्ञेत्यर्थः। आदिशब्देनाऽध्येषणानुमत्यादीनमुपादानाम्। समानस्याऽधिकस्य वा ऋत्विगाचार्यादेः प्रवर्तना--- अध्येषणम्। प्रार्थनेत्यर्थः। अनुमतिस्तु राजादेः संमतिः, तां विना यागादिक्रिया न निष्पद्यत इत्यनुमतिमात्रेण राजादिः प्रयोजकः। "अनुमत्यादी"त्यादिशब्देनात्रोपदेशानुग्रहयोरुपादानम्। "ज्वरितः कषायं पिबे"दित्युपदेशमात्रेण वैद्यादिः प्रयोजकः। यस्तु केनचिद्धन्तुमिष्टं पलायमानं निरुणद्धि सोऽपि हन्तुरनुग्राहकत्वेन प्रयोजकः। सर्वेऽप्येते विशेषाः कथं णिच्प्रत्ययगम्या इति चेत्। अत्राहुः-- सर्वानुगतं प्रवर्तनासामान्यं णिचोऽर्थः, विशेषास्त्वर्थप्रकरणादिगम्या इति। नन्वेवं णिचो लोडादीनां च पर्यायता स्यात्ततश्च "इदानीं पृच्छतु भवा"निति वक्तवये "प्रच्छयती"ति णिजप प्रयुज्येतेति चेत्। मैवम्। कर्तुः प्रयोजको हि हेतुः, प्रैषविषयो यः संबोध्यो दैवदत्तादिः स तु नाद्यादि प्रश्नकर्तृत्वेनावधारितः। तथा च प्रयोज्यप्रवृत्त्युपहिता या प्रयोजकनिष्ठप्रवृत्तिः सा णिजर्थः, तदनुपहिता प्रयोजकप्रवृत्तिस्तु लोडर्थ इत्युभयोर्भेदः। उक्तं च --- द्रव्यमात्रस्य तु प्रैषे पृच्छादेर्लोड् विधीयते। सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः"।इति। अस्यार्थः--- कर्तृत्वेनाऽनवधारितस्य देवदत्तदेस्तु प्रैषे "प्रच्छ ज्ञीप्सायाटमित्यादेर्लोड्भवति। प्रयोज्यप्रवृत्त्युपहितप्रवृत्त्याश्रयस्य प्रयुक्तिस्तु यदा सा णिचो विषय इति। किं च प्रयोक्तृनिष्ठा प्रयुक्तिर्लोडर्थः, प्रयोक्रप्रयोक्तृकर्तका तु णिजर्थः। "पच देवदत्ते"त्यत्र हि वक्तैव प्रेरकः। "पाचयती"त्यादौ वक्तृभिन्नः, "पाचयामी"त्यादौ तु वक्तेति दिक्।